ध्यायतो विषयान्पुंसः...
ध्यायतो विषयान्पुंसः ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अधःपतनस्य कारणानि निरूपयति । पूर्वस्मिन् श्लोके जितेन्द्रियपुरुषस्य प्रशंसां कुर्वन् भगवत्परायणतायाः आज्ञाम् अकरोत् । अत्र विषयासक्तेषु मनुष्येषु अवगुणोत्पत्तिं, तैः अवगुणैः अधःपतनं च वदति ।
ध्यायतो विषयान्पुंसः... अधःपतनस्य कारणानि | |
---|---|
![]() | |
श्लोकसङ्ख्या | २/६२ |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | तानि सर्वाणि संयम्य... |
अग्रिमश्लोकः | क्रोधाद्भवति सम्मोहः... |
विशेषम् | विषयस्य ऐक्यत्वात् अग्रिमश्लोके मिलित्वा अस्य पठनं भवति । |
श्लोकः संपादित करें
- ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते ॥
- सङ्गात्सञ्जायते कामः कामात् क्रोधोऽभिजायते ॥ ६२ ॥
पदच्छेदः संपादित करें
ध्यायतः, विषयान्, पुंसः, सङ्गः, तेषु, उपजायते ॥ सङ्गात्, सञ्जायते, कामः, कामात्, क्रोधः, अभिजायते ॥
अन्वयः संपादित करें
विषयान् ध्यायतः पुंसः तेषु सङ्गः उपजायते, सङ्गात् कामः सञ्जायते, कामात् क्रोधः अभिजायते ।
शब्दार्थः संपादित करें
अन्वयः | विवरणम् | सरलसंस्कृतम् |
विषयान् | अ.पुं.द्वि.बहु. | इन्द्रियविषयान् |
ध्यायतः | ध्यायत्-त.पुं.ष.एक. | चिन्तयतः |
पुंसः | पुंस्-स.पुं.ष.एक. | पुरुषस्य |
तेषु | तद्-द.सर्व.पुं.स.बहु. | तेषु विषयेषु |
सङ्गः | अ.पुं.प्र.एक. | आसक्तिः |
उपजायते | उप+√जनी प्रादुर्भावे-आत्म.-कर्तरि, लट्.प्रपु.एक | उवति |
सङ्गात् | अ.पुं.पं.एक. | आसक्तेः |
कामः | अ.पुं.प्र.एक. | वाञ्छा |
सञ्जायते | सं+√जनी प्रादुर्भावे-आत्म.-कर्तरि, लट्.प्रपु.एक | निष्पद्यते |
कामात् | अ.पुं.पं.एक. | वाञ्छायाः |
क्रोधः | अ.पुं.प्र.एक. | रोषः |
अभिजायते | अभि+√जनी प्रादुर्भावे-आत्म.-कर्तरि, लट्.प्रपु.एक | सम्भवति |
व्याकरणम् संपादित करें
सन्धिः संपादित करें
- ध्यायतो विषयान् = ध्यायतः + विषयान् – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः
- सङ्गस्तेषु = सङ्गः + तेषु – विसर्गसन्धिः (सकारः)
- तेषूपजायते = तेषु + उपजायते – सरवर्णदीर्घसन्धिः
- क्रोधोऽभिजायते ¬= क्रोधः + अभिजायते – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः, पूर्वरूपं च ।
कृदन्तः संपादित करें
ध्यायतः = ध्यै + शतृ (कर्तरि)
अर्थः संपादित करें
शब्दादिविषयान् आलोचयतः पुरुषस्य तेषु आसक्तिः उपजायते । तस्याः आसक्तेः तृष्णा सञ्जायते । यदि सा तृष्णा प्रतिहता भवति तर्हि क्रोधः अभिजायते ।
भावार्थः [१] संपादित करें
'ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते' - विषयाणां चिन्तनं कुर्वतः मनुष्यस्य तेषु विषयेषु आसक्तिः (रागः) सञ्जायते । आसक्तित्वात् कामना उत्पद्यते । कामनया क्रोधः उद्भवति । भवगत्परायणतायाः अभावे, भगवतः अचिन्तने च विषयाणामेव चिन्तनं भवति । यतः जीवनस्य एकस्मिन् भागे परमात्मा, अपरे भागे च संसारः अस्ति । यदा साधकः परमात्मनः आश्रयं त्यजति, तदा सः संसारम् आश्रित्य संसारस्य चिन्तनम् एव करोति । यतः संसारं विहाय अन्यः कोऽपि विषयः तस्य सम्मुखं न आयाति । एवं संसारस्य चिन्तनं कुर्वतः मनुष्यस्य तेषु विषयेषु आसक्तिः (रागः) उद्भवति । आसक्तेः फलस्वरूपं मनुष्यः तेषां विषयाणाम् अधिकाधिकं सेवनं करोति । विषयाणां चिन्तनं मानसिकं भवेत् उत शारीरिकं परन्तु तेभ्यः सुखमुत्पद्यते । तेन सुखेन विषयेषु प्रीतिर्भवति । तया प्रीत्या मनुष्यः पौनःपुन्येन विषयाणां चिन्तनं कुर्वन्नेव भवति । एवं जाते सति मनुष्यः विषयाणाम् उपभोगं कुर्यात् उत न परन्तु विषयेषु तस्य रागः तु सुदृढीभवति ।
'सङ्गात्सञ्जायते कामः' – विषयेषु रागे सति सः मनुष्यः भोगान् प्राप्तुं कामनाम् आरभते । एवं तस्य मनसि विभिन्नानां वस्तूनां, व्यक्तीनां, परिस्थितीनां च कृते भोगभावना उद्भवति ।
'कामात्क्रोधोऽभिजायते' – कामनानुसारम् अनुकूलपदार्थानां प्राप्तिः 'लोभं' जनयति । अपरत्र स्वकामनायाः पूर्तेः सम्भावनायां सत्यां कश्चन तां सम्भावनां नाशयन् अस्ति इति ज्ञाते सति क्रोधो जायते ।
मर्मः संपादित करें
कामनापूर्तेः मार्गे विक्षेपत्वात् क्रोधः स्वतः समुद्भवत्येव । जातिः, कुलम्, आश्रमः, गुणः, योग्यता इत्यादयः मयि सन्ति इत्यस्य अहङ्कारेणापि स्वयं सम्माननस्य अधिकारी इति कामना भवति । तस्यां कामनायां कयाचित् व्यक्त्या विघ्नः उत्पाद्यते चेत्, तस्यै क्रोधः जागर्ति । 'कामना' रजोगुणस्य, 'सम्मोहः' तमोगुणस्य, 'क्रोधः' तमोगुणरजोगुणयोः मध्यस्थस्य च प्रवृत्तिः अस्ति ।
यस्मिन् कस्मिन्नपि विषये क्रोधः समुद्भवति चेत्, तस्य क्रोधस्य मूले रागः अवश्यमेव भवति । नीतिविरुद्धं कार्यं कुर्वाणस्य दर्शनेन तस्मात् क्रोधः भवति चेत्, नीतौ रागः अस्ति । अपमाननं कुर्वाणस्य दर्शनेन क्रोधः भवति चेत्, सम्मानने रागः अस्ति । दोषारोपकस्य दर्शनेन क्रोधः जायते चेत्, निर्दोषतायां रागः सिद्ध्यति ।
सर्वेषाम् इष्टविषयाणां विशेषताः, आकर्षणगुणाः च भवन्ति । विषयेभ्य एव विषयेच्छा न भवति, परन्तु तेषु एषणायां सत्यां तेषां विषयाणाम् इच्छा भवति । अस्मिन् श्लोके, अग्रिमश्लोके च याः व्यक्तयः प्रत्यगात्मनः ध्यानम् अकृत्वा विषयाणाम् इच्छां कुर्वन्ति, विषयाणां विशेषतायाः ध्यानं कुर्वन्ति, तासां व्यक्तीनां पतनस्य कारणानि सन्ति ।
शाङ्करभाष्यम् [२] संपादित करें
अथेदानीं पराभविष्यतः सर्वानर्थमूलमिदमुच्यते - ध्यायत इति ।
ध्यायतः चिन्तयतः विषयान् शब्दादीन् विषयविशेषान् आलोचयतः पुंसः पुरुषस्य सङ्गः आसक्तिः प्रीतिः तेषु विषयेषु उपजायते उत्पद्यते। सङ्गात् प्रीतेः संजायते समुत्पद्यते कामः तृष्णा। कामात् कुतश्चित् प्रतिहतात् क्रोधः अभिजायते।।
भाष्यार्थः संपादित करें
पूर्वश्लोकोत्तरम् अधुना पतनाभिमुखिपुरुषस्य समस्तानि अनर्थकारणानि उपस्थापयति –
विषयाणां ध्यानं कुर्वतः पुरुषस्य अर्थात् शब्दादिविषयणां भेदादीनां पौनःपुन्येन आलोचकस्य तेषु विषयेषु आसक्तिः उद्भवति । आसक्त्या कामना सञ्जायते । कामनायाः अर्थात् केनचित् कारणेन विच्छिन्नेच्छायाः क्रोधः समुद्भवति ।
रामानुजभाष्यम् [३] संपादित करें
एवं मयि अनिवेश्य मनः स्वयत्नगौरवेण इन्द्रियजये प्रवृत्तो विनष्टो भवति इत्याह -
अनिरस्तविषयानुरागस्य हि मयि अनिवेशतिमनस इन्द्रियाणि संयम्य अवस्थितस्य अपि अनादिपापवासनया विषयध्यानम् अवर्जनीयं स्यात्। ध्यायतो विषयान् पुंसः पुनरपि सङ्गः अतिप्रवृद्धो जायते। सङ्गात् संजायते कामः। कामो नाम सङ्गस्य विपाकदशा। पुरुषो यां दशाम् आपन्नो विषयान् अभुक्त्वा स्थातुं न शक्नोति स कामः। कामात् क्रोधः अभिजायते। कामे वर्तमाने विषये च असन्निहिते सन्निहितान् पुरुषान् प्रति एभिः अस्मदिष्टं विहतम् इति क्रोधो भवति।
भाष्यार्थः संपादित करें
एवं मयि (परमेश्वरे) मनः अनिवेश्य यः स्वप्रयत्नबलेन इन्द्रियेषु विजयं प्राप्तुं प्रयतते, सः नश्यति इति कथयति –
येन विषयासक्तेः नाशः न कृतः, येन च मयि मनः न निवेशितं, सः सर्वं त्यक्त्वा इन्द्रियसंयमाय एव प्रयतमानः भवेच्चेदपि अनादिपाप-वासनादि कारणेन तेन विषयचिन्तनम् अनिवार्यं भवति । विषयाणां चिन्तनं कर्तुः मनुष्यस्य तेषु विषयेषु आसक्तिः अत्यधिका वर्धते । आसक्त्या कामना उत्पद्यते । आसक्तेः परिपक्वावस्था एव ''कामः'' इति । यस्यां दशायां स्थित्वा मनुष्यः विषयाणां भोगम् अकृत्वा स्थातुं न शक्नोति, सा अवस्था एव 'कामः' इति । तस्माद् कामात् क्रोधः उत्पद्यते । कामः भवेद्, ततः कामनानुसारं विषयाणां प्राप्तिः न भवेच्चेद् तस्मिन् समये समीपस्थात् जनात् क्रोधः भवति । एतैः जनैः मे अभीष्टविषयः नाशितः इति क्रोधः भवति ।
|
सम्बद्धाः लेखाः संपादित करें
बाह्यसम्पर्कतन्तुः संपादित करें
विकिमीडिया कॉमन्स् मध्ये ध्यायतो विषयान्पुंसः... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम् संपादित करें
- ↑ સાધકસંજીવની, ગીતાપ્રેસ
- ↑ श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
- ↑ रामानुजभाष्यम्
अधिकवाचनाय संपादित करें
- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च