गुरूनहत्वा हि महानुभावान्...

भगवद्गीतायाः श्लोकः २.५

गुरूनहत्वा हि महानुभावन् () इत्यनेन श्लोकेन अर्जुनः श्रीकृष्णस्य कथनेन सह स्वतर्कस्य तादात्म्यं स्थापयति । पूर्वस्मिन् श्लोके युद्धोपरामस्य स्वतर्कं दत्त्वा अत्रार्जुनः श्रीकृष्णस्य धर्मादिकथनस्य उदाहरणं ददाति । स कथयति यत्, महानुभावान् गुरून् अमारयित्वा अहं भिक्षान्नं भोक्तुं सज्जः । तदपि मह्यं कल्याणकरं मन्ये । गुरुजनान् हत्वा अत्र (संसारे) रक्तपातयुक्तानां धनेच्छायुक्तानां भोगानाम् एव उपभोगं करिष्ये इति ।

गुरूनहत्वा हि महानुभावान्...


स्वतर्कम् उपस्थापयति
श्लोकसङ्ख्या २/५
श्लोकच्छन्दः उपजातिच्छन्दः
पूर्वश्लोकः कथं भीष्ममहं सङ्ख्ये...
अग्रिमश्लोकः न चैतद्विद्मः कतरन्नो गरीयो...
 
गीतोपदेशः
गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके ।
हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान्रुधिरप्रदिग्धान् ॥ ५ ॥

पदच्छेदः

सम्पादयतु

गुरून्, अहत्वा, हि, महानुभावान्, श्रेयः, भोक्तुम्, भैक्ष्यम्, अपि, इह, लोके । हत्वा, अर्थकामान्, तु , गुरून्, इह, एव, भुञ्जीय, भोगान्, रुधिरप्रदिग्धान् ॥

महानुभावान् गुरून् अहत्वा (स्थितस्य मम) भैक्ष्यं भोक्तुम्इह लोके श्रेयः । गुरून् हत्वा इह एव रुधिरप्रदिग्धान् अर्थकामान् भोगान् भुञ्जीय ?

शब्दार्थः

सम्पादयतु
अन्वयः विवरणम् सरलसंस्कृतम्
महानुभावान् अ.पुं.द्वि.एक. महाशयान्
गुरून् उ.पुं.द्वि.एक. आचार्यान्
अहत्वा क्त्वान्तम् अव्ययम् अविनाश्य(स्थितस्य मम)
भैक्ष्यम् अ.नपुं.द्वि.एक. भिक्षाम्
भोक्तुम् तुमुन्नन्तम् अव्ययम् खादितुम्
इह अव्ययम् अस्मिन्
लोके अ.पुं.स.एक. लोके
श्रेयः श्रेयस्-स.नपुं.प्र.एक. साधु
गुरून् उ.पुं.द्वि.बहु. आचार्यान्
हत्वा क्त्वान्तम् अव्ययम् विनाश्य
इह अव्ययम् अस्मिन् प्रपञ्चे
एव अव्ययम् एव
रुधिरप्रदिग्धान् अ.पुं.द्वि.बहु रक्तमिश्रितान्
अर्थकामान् अ.पुं.द्वि.बहु अर्थकामरूपान्
भोगान् अ.पुं.द्वि.बहु वस्तुविशेषान्
भुञ्जीय √भुज पालनाभ्यवहारयोः-आत्म.कर्तरि, लिङ्.उपु.एक. आस्वादयेयम् ।

व्याकरणम्

सम्पादयतु
  1. श्रेयो भोक्तुम् = श्रेयः + भोक्तुम् – विसर्गसन्धिः (सकारः) उकारः, गुणः
  2. अपीह = अपि + इह - सवर्णदीर्घसन्धिः
  3. इहैव = इह + एव - वृद्धिसन्धिः
  1. महानुभावान् = महान् अनुभावः येषां ते, तान् – बहुव्रीहिः ।

कृदन्तः

सम्पादयतु
  1. हत्वा = हन् + क्त्वा ।
  2. भोक्तुम् = भुज् + तुमुन् ।

तद्धितान्तः

सम्पादयतु
  1. श्रेयः = प्रशस्त + ईयसुन् (अतिशये) प्रशस्तशब्दस्य श्र इति आदेशः ।
  2. भैक्ष्यम् = भिक्षा + ष्यञ् (स्वार्थे)

एतान् महानुभावान् गुरून् भीष्म द्रोणादीन् अहत्वा भिक्षायाचनेन जीवनमपि वरम् । किन्तु एतेषां हननेन प्राप्यमाणाः ये भोगाः रक्तलिप्ताः भविष्यन्ति तेषाम् उपभोगः सर्वथा नोचितः ।

भावार्थः []

सम्पादयतु

'गुरूनहत्वा... भैक्ष्यमपीह लोके' – यद्यहं भीष्मद्रोणादिभिः पूज्यैः सह युद्धं न करोमि, तर्हि दुर्योधनोऽपि मया सह न योत्स्यति । एवं युद्धाभावेऽहं राज्यं न प्राप्स्यामि, येन अधिकं दुःखं सोढव्यं भविष्यति । जीवननिर्वाहस्य कृतेऽपि बहुकष्टं भविष्यति । क्षत्रियेभ्यः भिक्षावृत्तिः निषिद्धा अस्ति, तथापि मया निर्वाहाय भिक्षाटनस्य आश्रयः स्वीकरणीयः भवेत् । परन्तु गुरूणां वधापेक्षयाहं भिक्षावृत्तेः स्वीकारं श्रेष्ठं मन्ये ।

'इह लोके' – भिक्षावृत्त्या जगति मे अपमाननं भविष्यति । सर्वे मां निन्दिष्यन्ति । तथापि गुरूणां वधापेक्षया तत् उत्तमम् । 'अपि' – गुरूणां वधं निषिद्धम् अस्ति । भिक्षावृत्तिः निषिद्धा अस्ति । परन्तु तयोः उभयोः गुरुवधं मे मतेऽधिकं निषिद्धं कार्यम् अस्ति ।

'हत्वार्थामांस्तु... रुधिरप्रदिग्धान्' – यद्यहं भवतः आज्ञानुगुणं योत्स्यामि, तर्हि गुरुहत्यायाः फलत्वेन रक्तरञ्जितं धनम् एव प्राप्स्यामि । धनादिभोगैः तु मुक्तिः न सिद्ध्यति । अत्र प्रश्नः भवेद्यत् भीष्मादयः गुरवः धनहेतोः एव कौरवैः सह सँल्लग्नाः सन्ति किम् ? इति । अतः अत्र 'अर्थकामान्', 'गुरून्' इत्येतयोः पदयोः भिन्नतया उपयोगः कृतः । अत्र यदि तयोः उभयोः पदयोः विशेषणविशेष्यत्वेन ग्रहणं भवति, तर्हि का हानिः ? इत्यस्य उत्तरम् अस्ति यत्, "अर्थकामिनः गुरवः" इति तयोः पदयोः अर्थबोधः जायते । परन्तु तथा अर्थग्रहणस्य कोऽपि तर्कः न सिद्ध्यति । किञ्च ते गुरवः तु धनकामिनः न, अपि तु दुर्योधनाश्रिताः आसन् । एवं दुर्योधनस्य साहाय्यं तेषां कर्तव्यम् आसीत् । अतः ते कौरवपक्षात् युध्यन्तः आसन् । अर्जुनः अत्र भीष्मादिभ्यः 'महानुभावान्' इत्यस्य पदस्योपयोगम् अकरोत् । अतः श्रेष्ठभावयुक्तान् धनकामिनः कथं वक्तुं शक्नुमः ? अर्थात् महानुभावाः अर्थकामिनः न भवन्ति इति । अतः अत्र 'अर्थकामान्', 'भोगान्' इत्येते पदे एव विशेषणत्वेन अङ्गीक्रियते ।

अनेन श्लोकेन स्पष्टं भवति यत्, द्वितीये, तृतीये च श्लोके भगवतः वचनं श्रुत्वा अर्जुनस्य हृदये प्रभावस्तु अभवदिति । भीष्मद्रोणादिषु प्रहारः अधर्मः इति ज्ञाते सत्यपि भगवान् मह्यं युद्धाय आज्ञाम् अददत् । अर्जुनः ज्ञातवान् यत्, भगवतः वचनस्य गूढार्थम् अवगन्तुं मे कुत्रचित् दोषः जायमानः अस्ति इति । अतः एतस्मिन् श्लोके भगवतः वचनेन सह स्वविचाराणां तादात्म्यं स्थापयितुं प्रयतते ।

भगवान् द्वितीये, तृतीये च श्लोके अर्जुनस्य हितं विचिन्त्यैव "क्लैब्यं त्यक्त्वा युद्धाय उत्तिष्ठ" इति तस्मै आज्ञाम् अयच्छत् । परन्तु अर्जुनः तस्य वचनं स्पष्टतया ज्ञातुं न शक्तवान् । अर्जुनः अचिन्तयत् यत्, भगवान् तं राज्यभोगस्य कृते युद्धाय आजीज्ञपद् इति । केवलं भौतिकदृष्ट्या चिन्त्यन्तः मनुष्याः कल्याणस्य विषयान् चिन्तयितुं न शक्नुवन्ति । यावत् पर्यन्तं भौतिकपदार्थं प्रति दृष्टिः भवति, तावत् पर्यन्तं आध्यात्मिकतां प्रति दृष्टिः जागृता न भवति । अत्र अर्जुनस्य दृष्टौ शरीरादीनां भौतिकपदार्थानां प्राधान्यं स्पष्टम् अस्ति । सः कौटुम्बिकमोहेन ग्रस्तं धर्मम् अपि भौतिकदृष्ट्या पश्यन् अस्ति । भौतिकदृष्ट्या अत्यन्तं विलक्षणया आध्यात्मिकदृष्ट्या तेन एतावता न दृष्टं किमपि । अर्थात् तस्य दृष्टौ भौतिकराज्यात् परं किमपि नास्ति । सः कौटुम्बिकमोहस्य प्रवाहे स्वच्छन्दः गच्छन् अस्ति । अतः अर्जुनः चिन्तयन् अस्ति यत्, युद्धं कारयित्वा भगवान् मह्यं राज्यं दापयितुम् इच्छति इति । प्रत्युत भगवान् तस्य कल्याणम् इच्छति स्म । प्रप्रथमं तु युद्धात् उपरतस्य अर्जुनस्य एकमेव मतम् आसीत् । तस्यानुगुणं सः धनुष्काण्डं त्यक्त्वा शोकमग्नः रथस्य पृष्ठभागे अतिष्ठत् [] । परन्तु युद्धे प्रवृत्तिः तु भगवतः आग्रहेणैव जाता अस्ति । अर्थात् अर्जुनस्य मतम् आसीत् यत्, पाण्डवाः तु धर्मं जानन्ति, परन्तु दुर्योधनादयः धर्मं न जनान्ति । ते धनराज्यादीनां लोभत्वात् युद्ध्यमानाः सन्ति । अतः अर्जुनः अत्र स्वस्य (पाण्डवेभ्यः) कृते कथयति यत्, अहमपि यदि भवतः आज्ञानुगुणं योत्स्यामि, तर्हि गुरुहत्योत्तरं धनराज्यादि एव प्राप्स्यामि । एवम् अर्जुनस्य मते युद्धे अनेके अधर्माः आसन् ।

यः अधर्मः अधर्मस्वरूपे सम्मुखम् उपतिष्ठते, तस्य उपेक्षा सुगमा । परन्तु धर्मस्य आवरणे आगतस्य अधर्मस्य उन्मूलनम् अतीव कष्टकरं भवति । यथा – सीतायाः, हनुमतः च सम्मुखं क्रमेण रावणः, कालनेमी च उपातिष्ठेताम्, तदा तौ तयोः प्रत्यभिज्ञानं कर्तुं न शक्तवन्तौ । किञ्च तौ साधुवेशिनौ आस्ताम् । अर्जुनस्य मतेऽपि युद्धं कर्तव्यकर्म अपि अयोग्यम् आसीत् । युद्धात् उपरते पापमुक्तिः आसीत् । एवं हिंसा अर्थात् अधर्मः इति । हिंसा भवतु कर्तव्यत्वेन सम्मुखे उपस्थिता अस्ति, तथापि सा अधर्म एव । यतः स्वकर्तव्यत्यागे अर्जुनः स्थितम् अधर्मम् इतोऽपि द्रष्टुं न शक्नोति । तस्य मनसि तु शरीरादिषु मोहः अस्ति ।

रामानुजभाष्यम्

सम्पादयतु

अर्जुन उवाच पुनरपि पार्थः स्नेहकारुण्यधर्माधर्मभयाकुलो भगवदुक्तं हिततमम् अजानन् इदम् उवाच। भीष्मद्रोणादिकान् बहुमन्तव्यान् गुरून् कथम् अहं हनिष्यामि कथन्तरां भोगेष्वतिमात्रसक्तान् तान् हत्वा तैः भुज्यमानान् तान् एव भोगान् तद्रुधिरेण उपसिच्य तेषु आसनेषु उपविश्य भुञ्जीय ?

भाष्यार्थः

सम्पादयतु

स्नेहकरुणाधर्माधर्माणां भयात् व्याकुलः अर्जुनः भगवता कथितम् अत्यन्तं हितकरम् उपदेशम् अनवगत्य पुनः एवम् अवदत् – परमसम्माननीयानां भीष्मादीनां गुरुजनानां वधम् अहं कथं करिष्ये ? तथा च तैः गृहीतानां भोगानां कृते अत्यन्तासक्तः अहं तेषां रक्तेन रञ्जिते आसने उपविश्य कथं संसारसुखम् उपभोक्ष्ये ? इति ।


श्रीमद्भगवद्गीतायाः श्लोकाः
  पूर्वतनः
कथं भीष्ममहं सङ्ख्ये...
गुरूनहत्वा हि महानुभावान्... अग्रिमः
न चैतद्विद्मः कतरन्नो गरीयो...
 
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः

सम्पादयतु

बाह्यसम्पर्कतन्तुः

सम्पादयतु

उद्धरणम्

सम्पादयतु
  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. गीता, अ. १, श्लो. ४७

अधिकवाचनाय

सम्पादयतु