श्रुतिविप्रतिपन्ना ते...

श्रुतिविप्रतिपन्ना ते () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः वैराग्यस्य फलं समत्वप्राप्तिः इति वदति । पूर्वस्मिन् श्लोके वैराग्यप्राप्तेः मार्गं प्रदर्श्य अत्र अर्जुनाय वैराग्यस्य फलत्वेन समत्वप्राप्तिं वर्णयति । लौकिकमोहरूपिणः कलिलात् मुक्तेः अनन्तरं विविधाः शास्त्रीयाः मतभेदाः मोहं जनयन्ति, तेभ्यः मुक्त्यै अपि एस्मिन् श्लोके भगवान् प्रेरयति ।

श्रुतिविप्रतिपन्ना ते...


वैराग्यफलं समत्वप्राप्तिः
Avatars of Vishnu.jpg
श्लोकसङ्ख्या २/५३
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः यदा ते मोहकलिलं
अग्रिमश्लोकः स्थितप्रज्ञस्य का भाषा

श्लोकःसंपादित करें

 
गीतोपदेशः
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ।
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥ ५३ ॥

पदच्छेदःसंपादित करें

श्रुतिविप्रतिपन्ना, ते, यदा, स्थास्यति, निश्चला ॥ समाधौ, अचला, बुद्धिः, तदा, योगम्, अवाप्स्यसि ॥

अन्वयःसंपादित करें

यदा ते श्रुतिविप्रतिपन्ना बुद्धिः निश्चला समाधौ च अचला स्थास्यति, तदा योगम् अवाप्स्यसि ।

शब्दार्थःसंपादित करें

अन्वयः विवरणम् सरलसंस्कृतम्
यदा अव्ययम् यदा
ते युष्मद्-ज. सर्वे.ष.एक. तव
श्रुतिविप्रतिपन्ना आ.स्त्री.प्र.एक. वेदे संशयम् आपन्ना
बुद्धिः इ.स्त्री.प्र.एक. धीः
समाधौ इ.पुं.स.एक. चित्तवृत्ति निरोधे
निश्चला आ.स्त्री.प्र.एक. स्थिरा
अचला आ.स्त्री.प्र.एक. कम्परहिता
स्थास्यति √ष्ठा गतिनिवृत्तौ-पर.कर्तरि, लृट्.प्रपु.एक. भविष्यति
तदा अव्ययम् तस्मिन् काले
योगम् अ.पुं.द्वि.एक. योगनिाम्
अवाप्स्यसि अव+‍√आप्लृ व्याप्तौ-पर.कर्तरि, लृट्,प्रपु,एक. लप्स्यसे ।

व्याकरणम्संपादित करें

सन्धिःसंपादित करें

समाधावचला = समाधौ + अचला यान्तवान्तादेशसन्धिः

बुद्धिस्तदा = बुद्धिः + तदा विसर्गसन्धिः (सकारः)

समासःसंपादित करें

श्रुतिविप्रतिपन्ना - श्रुतौ विप्रतिपन्ना - सप्तमीतत्पुरुषः ।

अचला - न चला - नञ्तत्पुरुषसमासः ।

कृदन्तःसंपादित करें

विप्रतिपन्ना = वि + प्रति + पद् + क्त (कर्तरि)

अर्थःसंपादित करें

अनेकविधानां मतानां श्रवणेन तव बुद्धिः विचलिता स्यात् । सा यदा स्थिरीभूता भविष्याति, कम्पवर्जिता च भविष्यति, तदा समत्वरूपं योगम् अवाप्स्यसि ।

भावार्थः [१]संपादित करें

'श्रुतिविप्रतिपन्ना ते' – अर्जुनस्य मनसि श्रवणोत्तरं जातं विपरीतं ज्ञानम् अपि अस्ति । यथा - गुरुभिः, परिवारसदस्यैः च सह युद्धम् अनुचितम् अस्ति । स्वस्य क्षात्रधर्मस्य (युद्धस्य) त्यागः अपि उचितः नास्ति । उक्तान् विषयान् प्रति अर्जुनस्य श्रुतिविप्रतिपत्तिः अर्थात् श्रुतस्य विपरीतं ज्ञानम् अस्ति । येन तस्य बुद्धिः विचलता जायमाना अस्ति । अतः भगवान् शास्त्रीयमतभेदेषु बुद्धिं निश्चलां, परमात्मनि अचलां स्थापयितुं प्रेरयति ।

साधकः बहुधा सन्देहम् अनुभवति यत्, सांसारिकव्यवहारः योग्यतया कर्तव्यः उत परमात्मप्राप्त्यै प्रयत्नः कर्तव्यः इति । ततः सः संसारस्य सेवायाः निर्णयं करोति । तस्य निर्णयस्य समनन्तरमेव साधकस्य मनसि भोगेभ्यः उपरतिः समुद्भवति । उपरतेः फलतः वैराग्यं जायते । वैराग्यप्राप्तेः फलस्वरूपं साधकः स्वतः एव परमात्मानं प्रति प्रेरितः भवति । तस्मिन् काले साधकस्य सम्मुखं साध्यस्य, साधनस्य च विषये अनकानि मतमतान्तराणि समायान्ति । मतमतान्तराणां बृहदावरणे साधकः 'साध्यस्वीकरणे', 'साधनानुगणे' च भ्रमितः भवति । परन्तु यदा साधकः सत्सङ्गस्य मार्गेण स्वरुचिं, श्रद्धां, योग्यतां च अवगच्छति, तदा तस्य बुद्धिः निश्चला भवति ।

अनेकेषां शास्त्राणां, सम्प्रदायानां च जीव-संसार-परमात्मविषयेषु विभिन्नानि वर्णनानि सन्ति । तेषु वर्णनेषु जीवस्य वर्णनं यथा कथञ्चित् स्यात्, परन्तु "अहं जीवः" इति सर्वसामान्यम् अस्ति । तथैव संसारस्य स्वरूपवर्णनं येन केन प्रकारेण कृतं स्यात्, परन्तु "संसारः त्याज्यः" इति सर्वविदितम् अस्ति । एवं परमात्मनः स्वरूपं विभिन्नरीत्या वर्णितं स्यात्, परन्तु "परमात्मा प्राप्तव्यः" इत्यत्र मतैक्यम् अस्ति । अतः उक्तस्य सारभूतस्य निर्णयः साधकेन करणीयः भवति । ततः तस्य बुद्धिः निश्चिला जायते ।

संसारत्यागे, शास्त्रीयनिर्णयस्य सारप्राप्तौ च यावान् कालः भवति, तावान् कालः एव परमात्मप्राप्त्यै विलम्बः भवति । यदा संसारत्यागः, शास्त्रमतेभ्यः सारः च सिद्ध्यति, तदा बुद्धिः निश्चला भूत्वा परमात्मनि नित्ययुक्ता भवति । संसारात् सम्बन्धविच्छेदाय बुद्धिः 'निश्चला' आवश्यकी [२] इति भगवता उक्तम् । तथा च परमात्मना सह सम्बन्धाय बुद्धिः 'अचला' आवश्यकी [३] इति उक्तम् ।

'तदा योगमवाप्स्यसि' – इत्यत्र योगप्राप्तिः उक्ता । एतस्यार्थः एवं न भवति यत्, पूर्वं परमात्मनः वियोगः आसीत् । ततः वियोगे दूरे कृते सति योगः अभवत् इति । परन्तु असत्पदार्थैः सह स्वसम्बन्धस्य यः भ्रमः अस्ति, तस्य भ्रमस्य वियोगः एव योगः उच्यते । तस्याः वास्तिवकस्थित्याः जीवस्य कदापि वियोगः न भवितुम् अर्हति इत्येव तस्याः स्थित्याः विलक्षणता । तत्र संयोगः, वियोगः, योगः इत्यादयः शब्दाः प्रभावं जनयितुं न शक्नुवन्ति । तत्र तु केवलं असद्सम्बन्धानां त्यागः 'योग'त्वेन परिगण्यते । वस्तुतः योगः नित्ययोगवाचकः अस्ति । कर्मणा जातः योगः 'कर्मयोगः', भक्त्या जातः योगः 'भक्तियोगः', विवेकविचारैः जातः योगः 'ज्ञानयोगः', संसारलयचिन्तनेन जातः योगः 'लययोगः', प्राणायामेन जातः योगः 'हठयोगः', यमादीनाम् अष्टनियमानां पालनेन जातः योगः 'अष्टाङ्गयोगः' इत्युच्यते ।

मर्मःसंपादित करें

मोहः द्विविधः अस्ति – सांसारिकः, शास्त्रीयश्च । सांसारिकमोहपाशे बद्धाः संसारे मोहिताः । शास्त्रस्य, सम्प्रदायस्य, मतस्य, वादस्य च मतमतान्तरे बद्धाः शास्त्रे मोहिताः । अतः अत्र भगवान् सांसारिक-शास्त्रीययोः मोहेभ्यः बुद्धिः निश्चला (निश्चययुक्ता) स्यात् इति कथयति ।

शाङ्करभाष्यम् [४]संपादित करें

मोहकलिलात्ययद्वारेण लब्धात्मविवेकजप्रज्ञः कदा कर्मयोगजं फलं परमार्थयोगमवाप्स्यामीति चेत्तच्छृणु - श्रुतिविप्रतिपन्नेति ।

श्रुतिविप्रतिपन्ना  अनेकसाध्यसाधनसंबन्धप्रकाशनश्रुतिभिः श्रवणैः प्रवृत्तिनिवृत्तिलक्षणैः विप्रतिपन्ना नानाप्रतिपन्ना विक्षिप्ता सती ते तव बुद्धिः यदा  यस्मिन् काले  स्थास्यति  स्थिरीभूता भविष्यति  निश्चला  विक्षेपचलनवर्जिता सती  समाधौ  समाधीयते चित्तमस्मिन्निति समाधिः आत्मा तस्मिन् आत्मनि इत्येतत्।  अचला  तत्रापि विकल्पवर्जिता इत्येतत्।  बुद्धिः  अन्तःकरणम्।  तदा  तस्मिन्काले  योगम् अवाप्स्यसि  विवेकप्रज्ञां समाधिं प्राप्स्यसि।।

भाष्यार्थःसंपादित करें

मोहरूपिणः किलिलात् मुक्तः आत्मविवेजन्यबुद्धिप्राप्तः अहं कर्मयोगस्य फलं परमार्थयोगं कदा प्राप्स्यामि ? इति त्वं पृच्छेत् चेत्, शृणु –

अनेकानि साध्यानि, साधनानि सन्ति । तेषां साध्यसाधनानां सम्बन्धप्रदर्शक्यः श्रुतयः विप्रतिपन्नाः अभूवन्, अर्थात् नानाप्रकारकाणां भावानाम् उपस्थितौ विक्षिप्ता तव बुद्धिः यदा समाधौ अचला, सुदृढा च भूत्वा स्थिरा भविष्यति, तदा तव योगप्राप्तिः भविष्यति अर्थात् विवेकजन्यबुद्धिरूपां समाधिनिष्ठां प्राप्स्यसि । अत्र समाधिः अर्थात् "यस्मिन् चित्तस्य समाधानं भवेत्" इति । एतया व्युत्पत्त्या आत्मा एव समाधिः उच्यते । बुद्धेः समाधौ अचलता, स्थिरता च अर्थात् विक्षेपरूपचलनात्, विकल्पेभ्यः च रहितत्वम् ।। ५३ ।।

रामानुजभाष्यम् [५]संपादित करें

योगे त्विमां श्रृणु इत्यादिना उक्तस्य आत्मयाथात्म्यज्ञानपूर्वकस्य बुद्धिविशेषसंस्कृतकर्मानुष्ठानस्य लक्षणभूतं योगाख्यं फलम् आह -

श्रुतिः  श्रवणम् अस्मत्तः श्रवणेन  वि शेषतः  प्रतिपन्ना  सकलेतरविसजातीयनित्यनिरतिशयसूक्ष्मतत्त्वविषया स्वयम्  अचला  एकरूपा  बुद्धिः  असङ्गकर्मानुष्ठानेन विमलीकृते मनसि  यदा निश्चला स्थास्यति तदा योगम्  आत्मावलोकनम्  अवाप्स्यसि।  एतद् उक्तं भवति शास्त्रजन्यात्मज्ञानपूर्वककर्मयोगः स्थितप्रज्ञताख्यज्ञाननिष्ठाम् आपादयति ज्ञाननिष्ठारूपा स्थितप्रज्ञता तु योगाख्यम् आत्मावलोकनं साधयति इति।

भावार्थः [६]संपादित करें

''योगे त्विमां शृणु'' इत्यादिभिः श्लोकैः यस्य वर्णनं कृतं, तथा यः आत्मस्वरूपस्य यथार्थज्ञाने स्थितः अस्ति, तस्य बुद्धिविशेषेण संशोधितस्य कर्मानुष्ठानस्य यल्लक्ष्यम् अस्ति, तस्य ''योग''-नामकस्य फलस्य वर्णनं करोति –

श्रवणम् इत्युक्ते श्रुतिः अर्थाद्, अस्माकं श्रवणकारणेन विशेषरूपेण प्रतिपन्ना इति । सा श्रुतिः अनात्मपदार्थानां विलक्षण-नित्य-निरतिशय-सूक्ष्मा आत्मतत्त्वविषयिणी अस्ति । सा स्वयम् अचला अस्ति । अर्थाद् एकरूपा सा बुद्धिः यदा आसक्तिरहितकर्मभिः निर्मले कृते मनसि निश्चला भविष्यति, तदा त्वं योगम् अर्थाद् आत्मसाक्षात्कारं प्राप्स्यसि । तात्पर्यम् अस्ति यद्, शास्त्रजनिताम् आत्मज्ञानसहितां कर्मयोगस्थितप्रज्ञतानामिकां ज्ञाननिष्ठां लप्स्यसे । सा ज्ञाननिष्ठारूपिणी स्थितप्रज्ञता योगनामकम् आत्मसाक्षात्कारं साधयति ।

श्रीमद्भगवद्गीतायाः श्लोकाः
  पूर्वतनः
यदा ते मोहकलिलं
श्रुतिविप्रतिपन्ना ते... अग्रिमः
स्थितप्रज्ञस्य का भाषा
 
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाःसंपादित करें

बाह्यसम्पर्कतन्तुःसंपादित करें

उद्धरणम्संपादित करें

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. दुःखसंयोगवियोगम्, गीता, अ. ६, श्लो. २३
  3. समत्वं योग उच्यते, गीता, अ. २, श्लो. ४८
  4. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  5. रामानुजभाष्यम्
  6. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८

अधिकवाचनायसंपादित करें