यावानर्थ उदपाने...
यावानर्थ उदपाने ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः निर्द्वन्द्वे सति किं भवति इति वर्णयति । पूर्वस्मिन् श्लोके भगवान् अर्जुनाय निर्द्वन्द्वो भव इति आज्ञां दत्त्वा अत्र निर्द्वन्द्वे सति किं भवति इति कथयति । सः वदति यद्, सर्वत्र महाजलाशयानां प्राप्त्युत्तरं मनुष्यस्य कृते लघुजलाशयस्य यावत् महत्त्वं भवति, ब्रह्म-तत्त्वज्ञाय ब्रह्मज्ञानिने अपि तावदेव वेदस्य महत्त्वं भवति अर्थाद् किमपि प्रयोजनम् एव न भवति इति ।
यावानर्थ उदपाने... निर्द्वन्द्वतायाः फलम् | |
---|---|
![]() | |
श्लोकसङ्ख्या | २/४६ |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | त्रैगुण्यविषया वेदा... |
अग्रिमश्लोकः | कर्मण्येवाधिकारस्ते... |
श्लोकःसंपादित करें
- यावानर्थ उदपाने सर्वतः सम्प्लुतोदके ।
- तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ ४६ ॥
पदच्छेदःसंपादित करें
यावान्, अर्थः, उदपाने, सर्वतः, सम्प्लुतोदके । तावान्, सर्वेषु, वेदेषु, ब्राह्मणस्य, विजानतः ॥
अन्वयःसंपादित करें
(यथा) यावान् अर्थः उदपाने (तावान्) सर्वतः सम्प्लुतोदके (तथा) यावान् विजानतः ब्राह्मणस्य सर्वेषु वेदेषु (तावान् ब्रह्मणि) ।
शब्दार्थःसंपादित करें
अन्वयः | विवरणम् | सरलसंस्कृतम् |
यावान् | यावत्-त.पुं.प्र.एक. | यत्परिमाणम् |
अर्थः | अ.पुं.प्र.एक. | प्रयोजनम् |
उदपाने | अ.पुं.स.एक. | अल्पजलाशये |
सर्वतः | अव्ययम् | सर्वत्र |
सम्प्लुतोदके | अ.नपुं.स.एक. | जलपूर्णे सरसि |
यावान् | यावत्-त.पुं.प्र.एक. | यत्परिमाणम् |
विजानतः | विजानत्-त.पुं.ष.एक. | ज्ञानिनः |
ब्राह्मणस्य | अ.पुं.ष.एक. | पण्डितस्य |
सर्वेषु | अ.सर्व.पुं.स.बहु. | सकलेषु |
वेदेषु | अ.पुं.स.एक. | वेदेषु |
तावान् | तावत्-त.पुं.प्र.एक. | तत्परिमाणम् । |
व्याकरणम्संपादित करें
सन्धिःसंपादित करें
- यावानर्थ उदपाने – यावानर्थः + उदपाने – विसर्गसन्धिः (लोपः)
समासःसंपादित करें
- सम्प्लुतोदके = सम्प्लुतम् उदकं यस्मिन् तत्, तस्मिन् – बहुव्रीहिः ।
कृदन्तःसंपादित करें
- विजानतः = वि + ज्ञा + शतृ (कर्तरि) तस्य
तद्धितान्तःसंपादित करें
- सर्वतः = सर्व + तसिल् (सप्तम्यन्तात् स्वार्थे)
अर्थःसंपादित करें
अल्पे जलाशये स्नानपानादिकं प्रयोजनं यत् यत् भवति तत्सर्वं सर्वत्र जलेन परिपूर्णे सरोवरे अवश्यं भवति । तथा वेदेषु प्रतिपादितानां कर्मणाम् आचरणेन यावान् आनन्दः तावान् पण्डितस्य ब्रह्मज्ञानात् अवश्यं भवति । अल्पे यत् सिद्ध्यति तदवश्यं महति सिद्ध्यत्येव इति भावः ।
भावार्थः [१]संपादित करें
'यावानर्थ उदपाने सर्वतः सम्प्लुतोदके' – अनेकान् जलपूर्णान् सरोवरान् यदि मनुष्यः प्राप्नुयात्, तर्हि तस्य कृते एकस्य लघुजलाशयस्य कियत् महत्त्वं भवेद् ? अर्थाल्लघुजलाशये कोऽपि वस्त्रक्षालनादीनि कार्याणि करोति, तर्हि सः लघुः जलाशयः शीघ्रमेव मलीनताङ्गच्छति । परन्तु तादृशमेव कार्यं विशाले जलाशये अनेके मनुष्याः कुर्वन्ति चेदपि जलाशयास्य निर्मलता यथा स्थाने भवति । तादृशानाम् अनेकेषां विशालानां जलाशयानां प्राप्तौ लघुजलाशयः मनुष्यस्य कृते कियदुपयोगी सिद्ध्यति, अर्थात् मनुष्यस्य दृष्ट्या तस्य लघुजलाशयस्य महत्त्वं किञ्चिन्मात्रम् अपि न भवति इति ।
'तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः' – तथैव यैः महापुरुषैः परमात्मतत्त्वस्य प्राप्तिः साधिता अस्ति, तेभ्यः वेदेषु उक्तानां यज्ञ-दान-तपस्तीर्थानां किमपि प्रयोजनं नावशिष्यते । अर्थात् पुण्यकर्माणि तेभ्यः लघुजलाशयवत् सन्ति । अग्रेऽपि भगवान् ज्ञानी महात्मा समुद्रवद् गम्भीरः भवति इति कथयिष्यति । तस्य सम्मुखे यावन्तः भोगाः समागच्छेयुः, परन्तु तस्मिन् विकृतिः नोद्भवति । यः परमात्मतत्त्वं जानाति, सः वेदानां, शास्त्राणां च ज्ञाता भवति । तादृशः मनुष्यः एवात्र 'ब्राह्मणस्य विजानतः' इति उक्तः । 'तावान्' इत्यस्य पदस्य तात्पर्यम् अस्ति यद्, परमात्मतत्त्वस्य प्राप्त्युत्तरं त्रिगुणैः रहितः सः निर्द्वन्द्वो भवति । अर्थाद् रागद्वेषादिभ्यः मुक्तः सन् नित्यतत्त्वे स्थिरो भवति । सः निर्योगक्षेमो भवति अर्थात्, किमपि वस्तु प्राप्नोमि, प्राप्तस्य वस्तुनः संरक्षणं करोमि इत्यादयः भावाः तस्मिन् न भवन्ति । सः सर्वदा परमात्मपरायणः भवति ।
शाङ्करभाष्यम् [२]संपादित करें
सर्वेषु वेदोक्तेषु कर्मसु यान्युक्तान्यनन्तानि फलानि तानि नापेक्ष्यन्ते चेत् किमर्थं तानि ईश्वरायेत्यनुष्ठीयन्ते इत्युच्यते श्रृणु -
यथा लोके कूपतडागाद्यनेकस्मिन् उदपाने परिच्छिन्नोदके यावान् यावत्परिमाणः स्नानपानादिः अर्थः फलं प्रयोजनं स सर्वः अर्थः सर्वतःसंप्लुतोदके ऽपि यः अर्थः तावानेव संपद्यते तत्र अन्तर्भवतीत्यर्थः। एवं तावान् तावत्परिमाण एव संपद्यते सर्वेषु वेदेषु वेदोक्तेषु कर्मसु यः अर्थः यत्कर्मफलं सः अर्थः ब्राह्मणस्य संन्यासिनः परमार्थतत्त्वं विजानतो यः अर्थः यत् विज्ञानफलं सर्वतःसंप्लुतोदकस्थानीयं तस्मिन् तावानेव संपद्यते तत्रैवान्तर्भवतीत्यर्थः। यथा कृताय विजितायाधरेयाः संयन्त्येवमेनं सर्वं तदभिसमेति यत् किञ्चित् प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद इति श्रुतेः। सर्वं कर्माखिलम् इति च वक्ष्यति। तस्मात् प्राक् ज्ञाननिष्ठाधिकारप्राप्तेः कर्मण्यधिकृतेन कूपतडागाद्यर्थस्थानीयमपि कर्म कर्तव्यम्।।
भाष्यार्थःसंपादित करें
सर्वेषां वेदोक्तकर्मणां यानि अनन्तफलानि सन्ति, तानि फलानि यदि कोऽपि त्यजति, तर्हि सः तेषां कर्मणाम् अनुष्ठानम् ईश्वराय किमर्थं कुर्याद् ? इत्यस्मिन् विषये उच्यते, शृणु –
जगति विद्यमानेषु कूप-वापी-हृदादिषु अनेकेषु लघुजलाशयेषु यावत् स्नानादिक्रियायै प्रयोजनं सिद्ध्यति, तावद् प्रयोजनम् एकेन महता जलपरिपूर्णेन जलाशयेन सिद्ध्यति । अर्थाद् विशाले जलाशये तेषाम् अन्तर्भवनं भवति इति । तथैव सम्पूर्णेषु वेदेषु यानि वेदोक्तानि कर्माणि सन्ति, तेषाम् आचरणे सति यत्प्रयोजनं सिद्ध्यति, तदेव प्रयोजनं परमार्थतत्त्वस्य ज्ञाने सति पूर्णं भवति । अर्थाद् वेदेषु उक्तानां वैदिककर्मणां यावत् फलं भवति, तस्य फलस्य प्राप्तिः परमार्थतत्त्वज्ञः ब्राह्मणः, संन्यासी च सहजतया प्राप्नोति । तेभ्यः परमात्मतत्त्वस्य फलं महाजलाशयवद् अस्ति, यस्मिन् वैदिकर्मणां फलं लघुजलाशयवद् अन्तर्भवति इति ।
श्रुतौ अपि उक्तम् अस्ति यद्, परब्रह्माणं यः जानाति, सः सर्वेषां फलानि प्राप्नोति । अर्थात् यानि पुण्यकर्माणि प्रजाभिः आचर्यन्ते, तेषां कर्मणां फलं ब्रह्मज्ञानी प्राप्नोति [३] । तथा चाग्रे गीताशास्त्रे एव भगवान् वदिष्यति यद्, सर्वाणि कर्माणि ज्ञाने समाप्तानि भवन्ति इत्यादि [४] । सुतरां सिद्ध्यति यद्, कूपादिलघुजलाशयवत् कर्माणि अल्पफलदानि भवन्ति, तथापि ज्ञाननिष्ठायाः अधिकारी भवनात् प्राग् कर्माधिकारिभिः कर्माणि करणीयानि इति ।
रामानुजभाष्यम् [५]संपादित करें
न च वेदोदितं सर्वं सर्वस्य उपादेयम् -
यथा सर्वार्थपरिकल्पिते सर्वतः संप्लुतोदके उदपाने पिपासोः यावान् अर्थः यावद् एव प्रयोजनं पानीयम् तावद् एव तेन उपादीयते न सर्वम् एवम् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः वैदिकस्य मुमुक्षोः यदेव मोक्षसाधनं तद् एव उपादेयम् न अन्यत्।
भाष्यार्थःसंपादित करें
वेदप्रतिपादिताः सर्वाः विषयाः सर्वेभ्यः उपादेयाः न सन्ति, किन्तु –
सर्वेभ्यः निर्मिताय, परिपूर्णाय जयशयात् मनुष्यस्य पिपासाशान्त्यै यावत् प्रयोजनं भवति, अर्थाद् यस्य कृते यावद् आवश्यकं, सः मनुष्यः तावदेव जलं स्वीकरोति । सः मनुष्यः अखिलस्य जलाशयस्य उपयोगं कर्तुं न शक्नोति । तथैव वेदार्थज्ञैः ब्राह्मणैः, वैदिकमुमुक्षुभिः च सर्वेषु विषयेषु यावद् मोक्षसाधनविषयकं वर्णनम् अस्ति, तावदेव ग्रहणीयम् अन्यन्न ।
|
सम्बद्धाः लेखाःसंपादित करें
बाह्यसम्पर्कतन्तुःसंपादित करें
विकिमीडिया कॉमन्स् मध्ये यावानर्थ उदपाने... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्संपादित करें
- ↑ श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
- ↑ श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
- ↑ सर्वं तदभिसमेति यत्किञ्च प्रजाः साधु कुर्वन्ति, यस्तद्वेद यत्स वेद, छान्दोग्योपनिषद्, ४/१/४
- ↑ सर्वं कर्माखिलम्, गीता, अ. ४, श्लो. ३३
- ↑ रामानुजभाष्यम्
अधिकवाचनायसंपादित करें
- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च