बुद्धियुक्तो जहातीह...
बुद्धियुक्तो जहातीह ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः समत्वस्य फलं वदति । पूर्वस्मिन् श्लोके भगवान् सकामत्वस्य तुच्छतां वर्णयित्वा अत्र समत्वबुद्धियुक्तस्य पुरुषस्य प्रशंसां कुर्वन् अर्जुनाय कर्मयोगस्य अनुष्ठानाय आज्ञां यच्छति । तथा च कर्मबन्धनमुक्तेः उपायं वर्णयति ।
बुद्धियुक्तो जहातीह... कर्मयोगानुष्ठानस्य आज्ञा | |
---|---|
![]() | |
श्लोकसङ्ख्या | २/५० |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | दूरेण ह्यवरं कर्म |
अग्रिमश्लोकः | कर्मजं बुद्धियुक्ता हि |
श्लोकःसंपादित करें
- बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।
- तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ ५० ॥
पदच्छेदःसंपादित करें
बुद्धियुक्तः, जहाति, इह, उभे, सुकृतदुष्कृते । तस्मात्, योगाय, युज्यस्व, योगः, कर्मसु, कौशलम् ॥
अन्वयःसंपादित करें
बुद्धियुक्तः सुकृतदुष्कृते उभे इह जहाति । तस्मात् योगाय युज्यस्व । कर्मसु कौशलं योगः उच्यते ।
शब्दार्थःसंपादित करें
अन्वयः |
विवरणम् |
सरलसंस्कृतम् |
बुद्धियुक्तः |
अ.पु.प्र.एक. |
ज्ञानसम्पन्नः |
सुकृतदुष्कृते |
अ.नपुं.द्वि.द्विव. |
सदसत्कर्मणी |
उभे |
उभ-अ.सर्व.नपुं.द्वि.द्विव. |
द्वे |
इह |
अव्ययम् |
अत्र |
जहाति |
√ ओँहाक् त्यागे-पर.कर्तरि, लट्.प्रपु.एक. |
परित्यजति |
तस्मात् |
तद्-द. सर्व.नपुं,पं,एक |
तदर्थम् |
योगाय |
अ.पु.च.एक. |
कर्मयोगाय |
युज्यस्व |
√ युजिर् योगे-आत्म.कर्तरि, लोट्.मपु.एक. |
सन्नद्धो भव |
कर्मसु |
न.नुपुं.स.बहु. |
क्रियासु |
कौशलम् |
अ.नुपुं.प्र.एक. |
प्रावीण्यम् |
योगः |
अ.पुं.प्र.एक. |
योगः इत्युच्यते |
व्याकरणम्संपादित करें
सन्धिःसंपादित करें
१. बुद्धियुक्तो जहाति = बुद्धियुक्तः जहाति - विसर्गसन्धिः (सकारः) रेफः उकारः, गुणः
२. जहातीह = जहाति + इह - सवर्णसन्धिः
३. तस्माद्योगाय = तस्मात् + योगाय - जश्त्वसन्धिः
समासःसंपादित करें
१. बुद्धियुक्तः = बुद्ध्या युक्तः - तृतीयातत्पुरुषः ।
२. सुकृतदुष्कृते = सुकृतं च दुष्कृतं च - द्वन्द्वः ।
कृदन्तःसंपादित करें
युक्तः = युजिर् + क्त (कर्तरि)
तद्धितान्तःसंपादित करें
कौशलम् = कुशल + अण् (भावे)
अर्थःसंपादित करें
हे पार्थः ! ज्ञाानमार्गं समाश्रितः जनः सुकृतं दुष्कृतं चेति द्वयमपि त्यजति । त्वमपि तद् परित्यज । फलम् अनपेक्षमाणः कर्मसु सज्जो भव । कर्मसु कौशलमेव योगः इति उच्यते ।
भावार्थः [१]संपादित करें
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते' – समत्वयुक्तः मनुष्यः जीवितः सन् पुण्यपापयोः त्यागं करोति । अर्थात् सः पुण्यपापाभ्याम् अयुक्तः सन् तयोः रहितः भवति । यथा संसारे पुण्यपापे तु सर्वदा भवतः, परन्तु परमात्मा तयोः अलिप्तः भवति, तथैव समतायां नैरन्तर्येण अवस्थितः पुण्यपापयोः निर्लिप्तः भवति [२] । समता काचिद् विद्या अस्ति, यया मनुष्यः संसारे सत्यपि संसारात् निर्लिप्तः भवितुम् अर्हति । यथा कमलं जलात् उद्भूतं सदपि, जले स्थितं सदपि जलेन सह लिप्तं न भवति, तथैव समतायुक्तः पुरुषः संसारेण सह लिप्तः न भवति । सः पुण्यपापयोः अपि असङ्गः भवति ।
वस्तुतः सः (चेतनस्वरूपः) स्वयं पुण्यपापाभ्यां मुक्तः अस्त्येव । केवलम् असदां पदार्थानां (शरीरादीनां) संसर्गेणैव पुण्यपापयुक्तः भवति । यदि सः असत्पदार्थैः युक्तः न भवति, तर्हि सः आकाशवत् निर्लिप्तः भवति । एवं सः पुण्यपापयोः मुक्तः भविष्यति ।
'तस्माद्योगाय युज्यस्व' – अतः त्वं योगे युक्तः भव । अर्थात् निरन्तरं समतायां स्थिरो भव । वस्तुतः समता एव तव स्वरूपम् अस्ति । अतः त्वं सर्वदा समतायामेव स्थिरः भवसि । केवलं रागद्वेषैः त्वं समतायाः अनुभवं कर्तुं न शक्नोषि । यदि त्वं सर्वदा समतायां स्थिरः भवसि, तर्हि त्वं सुखस्य, दुःखस्य ज्ञाता कथं स्याः ? यतः त्वत् तौ भिन्नौ स्तः । यदा त्वं तयोः ज्ञानं प्राप्नोषि, तदा त्वं सुखदुःखेषु समत्वेन तिष्ठसि । तत् समत्वमेव अनुभव ।
'योगः कर्मसु कौशलम्' – कर्मसु योगः एव कुशलता अस्ति । अर्थात् कर्मणः सिद्धौ, असिद्धौ, फलप्राप्तौ, फलाप्राप्तौ च समत्वम् एव कुशलता अस्ति । उत्पत्तिविनाशशीले कर्मणि योगं विहाय किमपि महत्त्वपूर्णं नास्ति । अत्र भगवान् योगस्य परिभाषां न कथयति, अपि तु योगस्य महत्त्वं दर्शयति । यदि एतस्मात् पदात् 'कर्मणि कुशलता एव योगः अस्ति' इति अर्थः स्वीक्रियते, तर्हि दोषः भवष्यति । यतः कश्चन चोरः कुशलतापूर्वकं ध्यानेन चौर्यं करोति, तत् चौर्यकर्म अपि योगत्वेन अङ्गीकरणीयं भवति । अतः सः अर्थः अनुचितः सिद्ध्यति । कश्चन अपरः विहितकर्माणि कुशलता एव योगः इति अर्थघटनं करोति । परन्तु तथा अर्थे स्वीकृते सति मनुष्यः स्वकर्मणः फले बद्धः भविष्यति । यतो हि सः समत्वे अवस्थितः नासीत् । एवम् अत्र 'कर्णणि योगः एव कुशलता अस्ति' इति अर्थः उचितः ।
अन्यदपि उच्यते यत्, कर्म कुर्वन् अन्तःकरणे समतायाः भावः अवस्थितः अस्ति चेत्, सः कर्मणि, कर्मफले च लिप्तः न भविष्यति । अत एव उत्पत्तिविनाशशीलं कर्म कुर्वन्नपि समत्वेन अवस्थितिः एव कुशलता अस्ति । यतः अग्रिमयोः उभयोः श्लोकयोः, एतस्य श्लोकस्य पूर्वार्धे च योगस्य (समतायाः) प्रसङ्गः अस्ति । कुशलतायाः प्रसङ्गः एव नास्ति । अत एव प्रसङ्गानुसारम् अपि 'कर्मणि योगः एव कुशलता अस्ति' इति अर्थः उचितः सिध्यति ।
शाङ्करभाष्यम् [३]संपादित करें
समत्वबुद्धियुक्तः सन्स्वधर्ममनुतिष्ठन् यत्फलं प्राप्नोति तच्छृणु - बुद्धीति
बुद्धियुक्तः कर्मसमत्वविषयया बुद्ध्या युक्तः बुद्धियुक्तः सः जहाति परित्यजति इह अस्मिन् लोके उभे सुकृतदुष्कृते पुण्यपापे सत्त्वशुद्धिज्ञानप्राप्तिद्वारेण यतः तस्मात् समत्वबुद्धि योगाय युज्यस्व घटस्व। योगो हि कर्मसु कौशलम् स्वधर्माख्येषु कर्मसु वर्तमानस्य या सिद्ध्यसिद्ध्योः समत्वबुद्धिः ईश्वरार्पितचेतस्तया तत् कौशलं कुशलभावः। तद्धि कौशलं यत् बन्धनस्वभावान्यपि कर्माणि समत्वबुद्ध्या स्वभावात् निवर्तन्ते। तस्मात्समत्वबुद्धियुक्तो भव त्वम्।।
भाष्यार्थः [४]संपादित करें
समत्वबुद्धेः युक्तः सन् स्वधर्माचरणं कुर्वन् पुरुषः, यत् फलं प्राप्नोति, तत् फलं शृणु –
समत्वयोगविषयकबुद्ध्या युक्तः पुरुषः अन्तःकरणस्य शुद्धतायाः, ज्ञानप्राप्तेः च सत्कर्म, दुष्कर्म च (पुण्यं पापं च) त्यजति । एवं सः एतस्मिन् लोके कर्मबन्धनात् मुक्तः भवति । अतः समबुद्धिरूपिणः योगस्य प्राप्त्यै प्रयत्नं कुरु । यतो हि योगः एव कर्मसु कुशलता अस्ति । अर्थात् स्वधर्मरूपकर्मणि युक्तस्य पुरुषस्य सिद्ध्यसिद्धिविषयकः समत्वभावः अस्ति, यः ईश्वरे समर्पणबुद्ध्याः उत्पन्नः, स एव कुशलताभावः अस्ति । एतस्मिन् एतदेव कौशलम् अस्ति यत्, स्वभावादेव यानि कर्माणि बन्धनयुक्तानि सन्ति, तानि अपि समत्वबुद्धेः प्रभावेण स्वस्वभावं त्यजन्ति । अतः त्वं समत्वबुद्ध्या युक्तः भव ।। ५० ।।
रामानुजभाष्यम् [५]संपादित करें
बुद्धियोगयुक्तः तु कर्म कुर्वाण उभे सुकृतदुष्कृते अनादिकालसञ्चिते अनन्ते बन्धेहेतुभूते जहाति। तस्माद् उक्ताय बुद्धियोगाय युज्यस्व। योगः कर्मसु कौशलं कर्मसु क्रियमाणेषु अयं बुद्धियोगः कौशलम् अतिसामर्थ्यम् अतिसामर्थ्यसाध्यः इत्यर्थः।
भाष्यार्थःसंपादित करें
बुद्धियोगाद् युक्तः सन् कर्मणः कर्ता पुरुषः अनादिकालाद् सञ्चिते, बन्धनहेतुभूते अनन्तपापपुण्ये त्यजति । अतः त्वम् उक्ताय बुद्धियोगाय (बुद्धियोगप्राप्त्यै इत्यर्थः) प्रयतस्व । कर्मणि योगः एव कौशलम् अस्ति । कर्मणाम् आचरणे यः बुद्धियोग एव कौशलम् अस्ति, तस्मिन् बुद्धियोगे एव सामर्थ्यम् अस्ति इत्यर्थः । अभिप्रायः अस्ति यद्, एषः बुद्धियोगः पूर्णबलेन एव सिद्ध्यति इति ।
|
सम्बद्धाः लेखाःसंपादित करें
बाह्यसम्पर्कतन्तुःसंपादित करें
विकिमीडिया कॉमन्स् मध्ये बुद्धियुक्तो जहातीह... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्संपादित करें
अधिकवाचनायसंपादित करें
- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च