अविनाशि तु तद्विद्धि...

भगवद्गीतायाः श्लोकः २.१७

अविनाशी तु तद्विद्धि () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः सदसतोः स्वरूपनिरूपणं करोति । पूर्वस्मिन् श्लोके सदसतोः लक्षणविवेचनं कृत्वा अत्र भगवान् सत्किम् ?, असच्चकिम् ? इति वर्णयति । सः कथयति यत्, तम् अविनाशित्वेन बुद्ध्यस्व, यः सम्पूर्णे संसारे व्याप्तः अस्ति । तस्य अविनाशिनः विनाशं कर्तुं न कोऽपि समर्थः इति ।

अविनाशि तु तद्विद्धि...


सदसतोः स्वरूपनिरूपणम्
श्लोकसङ्ख्या २/१७
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः नासतो विद्यते भावो...
अग्रिमश्लोकः अन्तवन्त इमे देहा...

श्लोकः संपादित करें

 
गीतोपदेशः
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ १७ ॥

पदच्छेदः संपादित करें

अविनाशि, तु, तत्, विद्धि, येन, सर्वम्, इदम्, ततम् । विनाशम्, अव्ययस्य, अस्य, न, कश्चित्, कर्तुम्, अर्हति ॥

अन्वयः संपादित करें

येन इदं सर्वं ततं तत् तु अविनाशि विद्धि । अस्य अव्ययस्य विनाशं कर्तुं कश्चित् अपि न अर्हति ।

शब्दार्थः संपादित करें

अन्वयः विवरणम् सरलसंस्कृतम्
तत् तद्-द.सर्व.नपुं.द्वि.एक. तत्त्वं
तु अव्ययम् तु
अविनाशि अविनाशिन्-न.नपुं.प्र.एक. विनाशरहितम्
विद्धि √विद ज्ञाने-पर.कर्तरि, लोट्.मपु.एक. जानीहि
येन यद्-द.सर्व.पुं.तृ.एक. येन
इदं इदम्-म.सर्व.पुं.प्र.एक. एतत्
सर्वम् अ.सर्व.नपुं.प्र.एक. सर्वमपि जगत्
ततम् अ.नपुं.प्र.एक. व्याप्तम्
अस्य इदम्-म.सर्व.पुं.ष.एक. एतस्य
अव्ययस्य अ.पुं.ष.एक. तत्त्वस्य
विनाशं अ.पुं.द्वि.एक. नाशं
कर्तुम् तुमुन्नन्तम् अव्ययम् कर्तुम्
कश्चित् अव्ययम् कोऽपि
अव्ययम् न हि
अर्हति √अर्ह पूजायाम्-पर.कर्तरि, लट्.प्रपु.एक. शक्नोति ।

व्याकरणम् संपादित करें

सन्धिः संपादित करें

  1. अव्ययस्यास्य = अव्ययस्य + अस्य – सवर्णदीर्घसन्धिः

समासः संपादित करें

  1. अविनाशि = न विनाशि – नञ्तत्पुरुषः ।
  2. अव्ययस्य = न विद्यते व्ययः यस्य तत्, तस्य – नञ्बहुव्रीहिः ।

कृदन्तः संपादित करें

  1. विनाशम् = वि + नश् + घञ् (भावे) तम् ।
  2. कर्तुम् = कृ + तुमुन्

तद्धितान्तः संपादित करें

  1. विनाशि = विनाश + इनि (मतुबर्थे) विनाशः अस्य अस्मिन् वा अस्ति इति विनाशि

अर्थः संपादित करें

तत् तत्त्वं तु सर्वदा अविनाशि इति जानीहि । तेन तत्त्वेन सर्वमपि इदं जगत् व्याप्तम् अस्ति । तादृशस्य अविनाशिनः तत्त्वस्य विनाशं कर्तुं कोऽपि नैव शक्नोति ।

भावार्थः [१] संपादित करें

'अविनाशि तु तद्विद्धि' – अग्रिमे श्लोके सदसतोः या चर्चा कृता, तयोः सतः टीकां कर्तुम् अत्र 'तु' इत्यस्य पदस्य उपयोगः कृतः । तद् अविनाशि तत्त्वं त्वं जानीहि इत्युक्त्वा भगवान् तद् तत्त्वं परोक्षत्वेन बोधयति । परोक्षत्वेन स्वीकरणतात्पर्यम् अस्ति यत्, इदम्तया (समानतया) दृश्यमाने एतस्मिन् सम्पूर्णे संसारे तद् परोक्षतत्त्वमेव व्याप्तम् अस्ति । तदेव परिपूर्णम् अस्ति इति । वस्तुतः यद् परिपूर्णम् अस्ति, तदेव "विद्यमद्" अस्ति । सम्मुखे यः संसारः दृश्यते, सस्तु "अविद्यमानः" अस्ति । अत्र "तद्" इत्यनेन शब्देन सत्तत्त्वस्य परोक्षत्वम् उल्लिखितम् । अत्र तद् तत्त्वं बहुदूरे अस्ति अतः परोक्षः इति न, अपि तु तद् इन्द्रियान्तकरणयोः विषयः नास्ति अतः परोक्षः इति ।

'येन सर्वमिदं ततम्' – एतस्य पदस्य गीतायां वारत्रयम् उपयोगः अस्ति । अत्र उच्यमानः अर्थः शरीरिणे अस्ति । उक्तं चात्र शरीरिणा सम्पूर्णः संसारः व्याप्तः इति । एतद् कथनं साङ्ख्ययोगदृष्ट्या उक्तम् । द्वितीयवारम् एतस्य पदस्य उपयोगः अष्टमाऽध्यायस्य द्वाविंशे श्लोके प्राप्यते । तत्र उक्तम् अस्ति यत्, येन ईश्वरेण एषः सम्पूर्णः संसारः व्याप्तः अस्ति, सः अनन्यभक्त्या प्राप्यते । अतः भक्तियोगदृष्ट्या उक्तपदानाम् उपयोगः ईश्वरसन्दर्भे भवति । तृतीयवारम् एतेषां पदानाम् उपयोगः अष्टादशाध्यायस्य षट्चत्वारिंशत्तमे श्लोके भवति । तत्र उक्तम् अस्ति यत्, येन एषः सम्पूर्णः संसारः व्याप्तः अस्ति, तस्य पूजनं चत्वारः वर्णाः स्वकर्मानुगुणं कुर्युः इति । तत्रापि भक्तियोगदृष्ट्या वर्णनं प्राप्यते ।

नवमाध्यायस्य चतुर्थे श्लोके राजविद्यायाः वर्णनं कुर्वाणः भगवान् "मया ततमिदं सर्वम्" इत्यस्य पदस्य उपयोगं करोति । तेन पदेन सः कथयति यत्, सम्पूर्णसंसारः मया व्याप्तः अस्ति । एवं स्थानत्रये "येन" इत्यस्य पदस्य उपयोगं कृत्वा तत्त्वं परोक्षत्वेन उपस्थापयति सः । ततः एकवारम् "अस्मत्" (मया) इत्यस्य शब्दस्य उपयोगं कृत्वा भगवान् परोक्षतया स्वस्य चर्चां करोति ।

यद् परोक्षम् उक्तम् अस्ति, तस्य वर्णनं करोति यत्, सम्पूर्णः संसारः तेन नित्यतत्त्वेन व्याप्तः अस्ति इति । यथा सुवर्णाभूषणेषु सुवर्णः, लोहास्त्रशस्त्रयोः लोहः, मृत्पात्रेषु मृत्, हिमे जलञ्च व्याप्तं भवति, तथैव संसारे तद् सत्तत्त्वं व्याप्तम् अस्ति । अतः वस्तुतः एतस्मिन् संसारे तद् सत्तत्त्वमेव ज्ञेयम् अस्ति ।

'विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति' – एषः शरीरी अव्ययः अर्थात् अविनाशी अस्ति । भगवान् गीतायाम् अनेकस्थानेषु शरीरिणम् अव्ययत्वेन उक्तवान् । तथा च स्वम् अपि अव्ययत्वेन उपास्थापयत् । स्वरूपेण उभे अपि अव्यये सती अपि भगवान् प्रकृतिं वशीकृत्य स्वयं स्वतन्त्रतया प्रकटी भवति, अन्तःनिलीपते च । सः शरीरी प्रकृतेः परवशो भूत्वा जन्ममृत्य्वोः चक्रे भ्रमन् भवति । यतो हि सः शरीरमेव आत्मत्वेन अङ्गीकरोति । तस्य अविनाशिनः विनाशं कर्तुं न कोऽपि समर्थः । परन्तु शरीरं तु विनाशि एव । यतो हि तद् निरन्तरं विनाशं प्रति चलद् अस्ति । अतः एतस्य विनाशिनः विनाशं कोऽपि अवरोद्धुं न शक्नोति । त्वं चिन्तयसि यत्, अहं युद्धं न करिष्ये चेत्, तेषां मृत्युः न भविष्यति इति । परन्तु वस्तुतः तव युद्धे कृतेऽकृते वा तयोः अविनाशिविनाशिनोः किमपि परिवर्तनं न भविष्यति । अर्थात् अविनाशी तु स्थास्यति, परन्तु विनाशी नश्यति एव ।

अत्र "अस्य" इत्यनेन पदेन सत्तत्त्वस्य इदम्ता उक्ता । तस्य तात्पर्यम् अस्ति यत्, प्रतिक्षणं परिवर्तनशीले शरीरे यद् दृश्यते, तद् सत्तत्त्वमेवास्ति । "मम शरीरम् अस्ति । अहं शरीरधारी अस्मि ।" इति स्वसत्तायाः यज्ज्ञानमस्ति, तद् लक्ष्यीकृत्य भगवान् अत्र "अस्य" इत्यस्य पदस्य उपयोगम् अकरोत् ।

शाङ्करभाष्यम् [२] संपादित करें

अविनाशि  न विनष्टुं शीलं यस्येति। तु शब्दः असतो विशेषणार्थः।  तत् विद्धि  विजानीहि। किम्  येन सर्वम् इदं  जगत्  ततं  व्याप्तं सदाख्येन ब्रह्मणा साकाशम् आकाशेनेव घटादयः।  विनाशम्  अदर्शनम् अभावम्। अव्ययस्य न व्येति उपचयापचयौ न याति इति अव्ययं तस्य अव्ययस्य। नैतत् सदाख्यं ब्रह्म स्वेन रूपेण व्येति व्यभिचरति निरवयवत्वात् देहादिवत्। नाप्यात्मीयेन आत्मीयाभावात्।

यथा देवदत्तो धनहान्या व्येति न तु एवं ब्रह्म व्येति। अतः अव्ययस्य  अस्य ब्रह्मणः विनाशं  न कश्चित् कर्तुमर्हति  न कश्चित् अत्मानं विनाशयितुं शक्नोति ईश्वरोऽपि। आत्मा हि ब्रह्म स्वात्मनि च क्रियाविरोधात्।।

भाष्यार्थः संपादित करें

तर्हि, यद् निस्सन्देहं सदस्ति, तद् सदैव तिष्ठति । तद् किमस्ति ? इतस्मिन् विषये कथयति यद् –

अनाशः यस्य स्वभावः अस्ति, सः अविनाशी अस्ति । "तु" इत्यनेन पदेन असतः सतः विशेषता प्रदर्शिता । तं त्वम् अविनाशित्वेन जानीहि । कं तम् ? इति प्रश्ने सति कथयति यत्, यस्माद् सच्छब्दवाच्याद् ब्रह्मणः आकाशसहितम् एतद् सम्पूर्णं विश्वम् आकाशाद् घटादिवद् व्याप्तम् अस्ति इति ।

तस्य अव्ययस्य अर्थात् यस्य व्ययः न भवति । यस्मिन् वृद्धिः, न्यूनता च न तदव्ययम् उच्यते । तस्य विनाशं, अभावं वा कर्तुं न कोऽपि समर्थः । यतो हि तद् सन्नामकं ब्रह्म अवयवरहितत्वाद् देहादिवद् स्वरूपाद् नष्टं न भवति । अर्थात् तस्य व्ययः न भवति इति । तथा च निजपदार्थाभावाद् निजपदार्थनाशे सति अस्य नाशः न भवति । यथा देवदत्तः स्वधनहानिना हानियुक्तः भवति, तथा ब्रह्म न भवति । अत एव उच्यते यत्, तस्य अविनाशिनः ब्रह्मणः विनाशः केनापि न शक्यः । केनापि अर्थात् ईश्वरः अपि स्वस्य विनाशं कर्तुं न समर्थः । किञ्च आत्मा एव स्वयं ब्रह्म अस्ति, तत्र स्वस्मिन् क्रियायाः विरोधः अस्ति ।

रामानुजभाष्यम् संपादित करें

तद्  आत्मतत्त्वम्  अविनाशि  इति  विद्धि   येन  आत्मतत्त्वेन चेतनेन तद्व्यतिरिक्तम्  इदम्  अचेतनतत्त्वं  सर्वं ततं  व्याप्तम्। व्यापकत्वेन निरतिशयसूक्ष्मत्वाद् आत्मनो विनाशानर्हस्य तद्व्यतिरिक्तो  न कश्चित्  पदार्थो  विनाशं कर्तुम् अर्हति  तद्व्याप्यतया तस्मात् स्थूलत्वात्। नाशकं हि शस्त्रं जलाग्निवाय्वादिकं नाश्यं व्याप्य शिथिलीकरोति। मुद्गरादयः अपि हि वेगवत्संयोगेन वायुम् उत्पाद्य तद्द्वारेण नाशयन्ति अत आत्मतत्त्वम् अविनाशि।

भाष्यार्थः संपादित करें

आत्मनः अविनाशित्वं कथं सिद्ध्यति ? इत्यस्मिन् विषये अत्र कथयति –

येन चेतनात्मतत्त्वेन तस्माद् भिन्नमेतद् समस्तम् अचेतनतत्त्वं (जडतत्त्वं) व्याप्तम् अस्ति, तम् आत्मतत्त्वम् अविनाशि जानीहि । व्यापके सति अत्यन्तसूक्ष्मे सति यद् विनाशार्हं नास्ति, तस्य आत्मतत्त्वस्य तस्माद्भिन्नः कोऽपि पदार्थः विनाशं कर्तुं न शक्नोति । यतो हि जडपदार्थः तस्माद् तत्त्वाद् स्थूलत्वाद् तेन तत्त्वेन व्याप्तः अस्ति । शस्त्रजलाग्निवाय्वादयः ये नाशकपदार्थाः सन्ति, ते नश्यपदार्थं प्रविश्य तान् शिथिलीकुर्वन्ति (नाशयन्ति) । मुद्गरादयः अपि वेगयुक्तसंयोगाद् वायुमुत्पाद्य तेन वायुना एव नाशं कुर्वन्ति । परन्तु आत्मतत्त्वं सर्वापेक्षया सूक्ष्मतमत्वाद् एते पदार्थाः तस्मिन् प्रवेष्टुं न समर्थाः । अत एव आत्मतत्त्वम् अविनाशि अस्ति ।


श्रीमद्भगवद्गीतायाः श्लोकाः
  पूर्वतनः
नासतो विद्यते भावो...
अविनाशि तु तद्विद्धि... अग्रिमः
अन्तवन्त इमे देहा...
 
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः संपादित करें

बाह्यसम्पर्कतन्तुः संपादित करें

उद्धरणम् संपादित करें

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6

अधिकवाचनाय संपादित करें