भयाद्रणादुपरतं...
भयाद्रणादुपरतं मंस्यन्ते ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अपकीर्तेः उत्तरं किं भवति? इति बोधयति । पूर्वस्मिन् श्लोके भगवान् श्रेष्ठपुरुषाणाम् अपकीर्तिः लोके अतीव भयङ्करी भवति इत्युक्त्वा अत्र लोके अपकीर्तित्वाद् किं किं भवति इति वर्णयति । सः कथयति यद्, येषु महारथिषु त्वं बहुमान्यः आसीः, तेषां दृष्ट्या त्वं लाघवं (तुच्छतां) प्राप्स्यसि । किञ्च त्वं भयत्वाद् युद्धाद् उपरतोऽसि इति ते मंस्यन्ते इति ।
भयाद्रणादुपरतं... अपकीर्तिः भयङ्करी | |
---|---|
![]() | |
श्लोकसङ्ख्या | २/३५ |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | अकीर्तिं चापि भूतानि... |
अग्रिमश्लोकः | अवाच्यवादांश्च... |
श्लोकःसंपादित करें
- भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः ।
- येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥ ३५ ॥
पदच्छेदःसंपादित करें
भयात्, रणात्, उपरतम्, मंस्यन्ते, त्वाम्, महारथाः । येषाम्, च, त्वम्, बहुमतः, भूत्वा, यास्यसि, लाघवम् ॥
अन्वयःसंपादित करें
येषां त्वं बहुमतः भूत्वा लाघवं यास्यसि (तादृशाः) महारथाः च त्वां भयात् रणात् उपरतं मंस्यन्ते ।
शब्दार्थःसंपादित करें
अन्वयः | विवरणम् | सरलसंस्कृतम् |
येषाम् | यद्-द.सर्व.पुं.ष.बहु. | येषां राज्ञाम् |
त्वं | युष्मद्-द.सर्व.प्र.एक. | त्वं |
बहुमतः | अ.पुं.प्र.एक. | सम्मानितः |
भूत्वा | क्त्वान्तम् अव्ययम् | भूत्वा |
लाघवम् | अ.नपुं.द्वि.एक. | अगौरवास्पदत्वम् |
यास्यसि | √या प्रापणे-पर.कर्तरि, लृट्.मपु.एक. | प्राप्स्यसि |
महारथाः | अ.पुं.प्र.बहु. | ते महारथाः |
च | अव्ययम् | च |
त्वाम् | युष्मद्-द.सर्व.द्वि.एक. | त्वाम् |
भयात् | अ.नपुं.पं.एक. | भीतेः करणात् |
रणात् | अ.नपुं.पं.एक. | युद्धात् |
उपरतम् | अ.पुं.द्वि.एक. | विरतम् |
मंस्यन्ते | √मन ज्ञाने-आत्म.कर्तरि, लृट्.प्रपु.बहु. | चिन्तयिष्यन्ति । |
व्याकरणम्संपादित करें
सन्धिःसंपादित करें
- भयाद्रणादुपरतम् = भयात् + रणात् – भयाद्रणात् जश्त्वसन्धिः
- भयाद्रणात् + उपरतम् – जश्त्वसन्धिः
- बहुमतो भूत्वा = बहुमतः + भूत्वा विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः
समासःसंपादित करें
- बहुमतः = बहूनां मतः - षष्ठीतत्पुरुषः
कृदन्तःसंपादित करें
- उपरतम् = उप + रत + क्त (कर्तरि)
तद्धितान्तःसंपादित करें
- लाघवम् = लघु + अण् (भावे) । लघोः भावः इत्यर्थः ।
अर्थःसंपादित करें
अद्य यावत् भवान् सर्वेषां गौरवास्पदम् आसीत् । युद्धाकरणेन भवान् तेषां मध्ये लाघवं यास्यति । ते महारथाः भवान् भयात् रणात् उपरतः इति चिन्तयन्ति ।
भावार्थः [१]संपादित करें
'भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः' – त्वं मन्यसे यद्, अहं स्वकल्याणाय युद्धाद् उपरतः भवामि इति । परन्तु तथा नास्ति, किञ्च यदि त्वं युद्धं पापकर्म अमंस्ययाः, तर्हि पूर्वमेव एकान्तवासी अभविष्यः । परन्तु त्वं युद्धप्रवृतः असि । अतः यदि त्वं युद्धकाले निवृत्तः भविष्यसि, तर्हि महारथिनः मंस्यन्ते यद्, त्वं युद्धाद् भीतः सन् युद्धं त्यजसि इति । यदि त्वं धर्मविषये अचिन्तयिष्यः, तर्हि युद्धाद् उपरतः नाभविष्यः । यतो हि युद्धं तु क्षत्रियाणां धर्मः अस्ति । अतः अर्जुनः मरणभयादेव युद्धं त्यजति इति सेत्स्यति (षेधु संराद्धौ) ।
'येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्' – भीष्मद्रोणकृपशल्यादयः महारथिनः त्वां वीरं मन्यन्ते । अर्थाद् तेषां मनसि परिकल्पना अस्ति यद्, युद्धे वीरः अर्थात् अर्जुनः इति । सः अर्जुनः दैत्यान्, देवान्, गन्धर्वान् च पराजेतुं सक्षमः । परन्तु यदि त्वम् एतस्मिन् युद्धकाले निवृत्तः भविष्यसि, तर्हि तेषां महारथिनां दृष्टौ त्वं तुच्छः भवितासि ।
शाङ्करभाष्यम् [२]संपादित करें
किञ्च -
भयात् कर्णादिभ्यः रणात् युद्धात् उपरतं निवृत्तं मंस्यन्ते चिन्तयिष्यन्ति न कृपयेति त्वां महारथाः दुर्योधनप्रभृतयः। येषां च त्वं दुर्योधनादीनां बहुमतो बहुभिः गुणैः युक्तः इत्येवं मतः बहुमतः भूत्वा पुनः यास्यसि लाघवं लघुभावम्।।
भाष्यार्थःसंपादित करें
तथा च –
यस्य दुर्योधनस्य मते त्वं बहुमतः अर्थात् अधिकगुणयुक्तः मन्यमानः आसीः, इतः परं त्वं तस्य दृष्ट्या लघुतां प्राप्स्यसि । ते दुर्योधनादयः महाराथिनः मंस्यन्ते यत्, त्वं कर्णादीनां भयादेव युद्धात् निवृत्तः इति । त्वं दयया निवृत्तः भवसि इति ते नाङ्गीकरिष्यन्ति ।
रामानुजभाष्यम् [३]संपादित करें
बन्धुस्नेहात् कारुण्याच्च युद्धात् निवृत्तस्य शूरस्य मम अकीर्तिः कथम् आगामिष्यति इति अत्राह -
येषां कर्णदुर्योधनादीनां महारथानाम् इतः पूर्वं त्वं शूरो वैरी इति बहुमतो भूत्वा इदानीं युद्धे समुपस्थिते निवृत्तव्यापारतया लाघवं सुग्रहतां यास्यसि। ते महारथाः त्वां भयाद् युद्धाद् उपरतं मंस्यन्ते। शूराणां हि वैरिणां शत्रुभयाद् ऋते बन्धुस्नेहादिना युद्धाद् उपरतिः न उपपद्यते।
भाष्यार्थःसंपादित करें
कर्णदुर्योधनादीनां महारथानां मते त्वम् एतावता 'एषः अस्माकम् अतीव वीरवैरी' इति सम्मानितः आसिः । युद्धे उपस्थिते यदि त्वं निवृत्तः भविष्यसि, तर्हि सहजतया शत्रूणां बन्दिः भविष्यसि । ते महारथिनः चिन्तयिष्यन्ति यद्, त्वं भयवशाद् एव युद्धात् विरतः अभवत् । यतो हि शूराणां शत्रुभयं विहाय बन्धुस्नेहादिकारणानि युद्धाद् विरक्तौ असम्भावनि एव ।
|
सम्बद्धाः लेखाःसंपादित करें
बाह्यसम्पर्कतन्तुःसंपादित करें
विकिमीडिया कॉमन्स् मध्ये भयाद्रणादुपरतं... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्संपादित करें
- ↑ श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
- ↑ श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
- ↑ रामानुजभाष्यम्
अधिकवाचनायसंपादित करें
- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च