अन्तवन्त इमे देहा...

भगवद्गीतायाः श्लोकः २.१८

अन्तवन्त इमे देहा () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः सदसतोः स्वरूपनिरूपणमेव करोति । पूर्वस्मिन् श्लोके मुख्यतया सतः निरूपणं कृत्वा अत्र असतः निरूपणं करोति भगवान् । एवञ्चात्र भगवान् अर्जुनाय योद्धुम् अपि आज्ञापयति । सः वदति यत्, अविनाशिनः, अप्रमेयस्य, नित्यस्य चास्य शरीरिणः शरीराणि अन्तयुक्तानि उच्यन्ते । अतः हे अर्जुन ! युध्यस्व इति ।

अन्तवन्त इमे देहा...


सदसतोः स्वरूपनिरूपण
Avatars of Vishnu.jpg
श्लोकसङ्ख्या २/१८
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः अविनाशि तु तद्विद्धि...
अग्रिमश्लोकः य एनं वेत्ति हन्तारं...

श्लोकःसंपादित करें

 
गीतोपदेशः
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥ १८ ॥

पदच्छेदःसंपादित करें

अन्तवन्तः, इमे, देहाः, नित्यस्य, उक्ताः, शरीरिणः । अनाशिनः, अप्रमेयस्य, तस्मात्, युध्यस्व, भारत ॥

अन्वयःसंपादित करें

अनाशिनः अप्रमेयस्य नित्यस्य च शरीरिणः इमे देहाः अन्तवन्तः उक्ताः । भारत ! तस्मात् युध्यस्व ।

शब्दार्थःसंपादित करें

अन्वयः विवरणम् सरलसंस्कृतम्
अनाशिनः अनाशिन्-न.पुं.ष.एक. नाशरहितस्य
अप्रमेयस्य अ.पुं.ष.एक. ज्ञातुम् अशक्यस्य
नित्यस्य अ.पुं.ष.एक. शाश्वतस्य
शरीरिणः शरीरिन्-न.पुं.ष.एक. आत्मनः
इमे इदम्-म.सर्व.प्र.बहु. एतानि
देहाः अ.पुं.प्र.बहु. शरीराणि
अन्तवन्तः अन्तवत्-त.पुं.प्र.बहु. नाशसहितानि
उक्ताः अ.पुं.प्र.बहु. इति उक्तानि
भारत अ.पुं.सम्बो.एक. हे भरतकुलोत्पन्न !
तस्मात् तद्-द.सर्व.पुं.पं.एक. तस्मात् कारणात्
युध्यस्व √युध प्रहारे-आत्म.कर्तरि, लोट्.मपु.एक. युद्धं कुरु ।

व्याकरणम्संपादित करें

सन्धिःसंपादित करें

  1. अन्तवन्त इमे = अन्तवन्तः + इमे – विसर्गसन्धिः (लोपः)
  2. देहा नित्यस्य = देहाः + नित्यस्य – विसर्गसन्धिः (लोपः)
  3. नित्यस्योक्ताः = नित्यस्य + उक्ताः – गुणसन्धिः
  4. तस्माद्युध्यस्व = तस्मात् + युद्यस्व – जश्त्वसन्धिः

समासःसंपादित करें

  1. अनाशिनः = न नाशी अनाशी, तस्य – नञ्तत्पुरुषः ।
  2. अप्रमेयस्य = न प्रमेयः अप्रमेयः, तस्य नञ्तत्पुरुषः ।

कृदन्तःसंपादित करें

  1. उक्तः = वच् + क्त (कर्मणि)

तद्धितान्तःसंपादित करें

  1. अन्तवन्तः = अन्तः + मतुप् । अन्तः एषाम् एषु वा अस्ति ।
  2. शरीरिणः = शरीर + इनि (मतुबर्थे) । शरीरम् एषाम् एषु वा अस्ति ।
  3. नाशी = नाश + इनि (मतुबर्थे) । नाशः अस्य अस्मिन् वा अस्ति ।

अर्थःसंपादित करें

अयं च आत्मा अविनाशी, प्रत्यक्षादिप्रमाणैः ज्ञातुम् अशक्यः, शाश्वतश्च । तस्य एतानि शरीराणि तु नाशसहितानि इति उक्तानि सन्ति । यस्मात् अयम् आत्मा नित्यः, शरीरं च विनाशि तस्मात् त्वं युद्धं कुरु ।

भावार्थः [१]संपादित करें

'अनाशिनः' – यस्मिन् कस्मिँश्चिद् काले, येन केनापि कारणेन, किञ्चिदपि यस्मिन् परिवर्तनं न भवति, यस्य क्षयः न भवति, यस्याभावः न भवति, तस्य नाम 'अनाशी' अर्थात् अविनाशी इति ।

'अप्रमेयस्य' – यः न प्रमायाः (प्रमाणस्य) विषयः अर्थात् अन्तःकरणेन्द्रियाणां विषयः न स 'अप्रमेय' इति । यस्मिन् अन्तःकरणेन्द्रियाणि प्रमाणत्वेन न सिद्ध्यन्ति, तस्मिन् शास्त्रं, महापुरुषश्च प्रमाणी । शास्त्रमहापुरुषौ तेभ्यः प्रमाणे भवतः, ये श्रद्धावन्तः । अतः तत्त्वं केवलं श्रद्धाविषयः, न तु प्रमाणविषयः । प्रारम्भे तु तत्त्वं निश्चयेन श्रद्धाविषयः, परन्तु अग्रे यदा साधकः प्रत्यक्षानुभवं प्राप्नोति, तदा सः श्रद्धाविषयत्वेन न तिष्ठति । शास्त्रं, महापुरुषश्च न बलेन कञ्चन मनुष्यं स्वस्मिन् श्रद्धां स्थापयितुं कथयति । श्रद्धायाः धारणेऽधारणे च मनुष्यः स्वतन्त्रः । यदि मनुष्यः शास्त्रवचनेषु, महापुरुषवचनेषु च श्रद्धां वहति, तर्हि तत्त्वं तस्य कृते श्रद्धाविषयः अन्यथा न ।

'नित्यस्य' - तत् तत्त्वं नित्यम् अस्ति । कस्मिंश्चिद् कालेऽपि एतस्य अभावः न भवति ।

'अन्तवन्त इमे देहा उक्ताः शरीरिणः' – एतस्य अविनाशिनः, अप्रमेयस्य, नित्यस्य च शरीरिणः सम्पूर्णे संसारे यावन्ति शरीराणि सन्ति, तानि सर्वाणि शरीराणि अन्तयुक्तानि सन्ति । अन्तयुक्ताः इत्युक्ते तेषां देहानां प्रत्येकस्मिन् क्षणे नाशः जायमानः अस्ति । तेषु अन्तं विहाय अन्यद् किमपि न भवति । तत्र केवलम् अन्तः एव भवति इति । उपर्युक्ते पदे शरीरिणे तु एकवचनस्य प्रयोगः अस्ति, परन्तु शरीरस्य कृते बहुवचनस्य प्रयोगः अस्ति । तस्य कारणम् अस्ति यत्, प्रत्येकप्राणिनः स्थूलसूक्ष्मकारणशरीराणि भवन्ति । अपरं कारणम् अस्ति यत्, अखिले संसारे शरीरेषु एकः शरीरी एव व्याप्तः अस्ति इति । अग्रे एषः शरीरी 'सर्वगतः' इति वदिष्यति [२] । एषः शरीरी अविनाशी अस्ति, परन्तु तस्य मन्यमानानि शरीराणि नाशवन्ति सन्ति । यथा अविनाशिनः कोऽपि विनाशं कर्तुं न शक्नोति, तथैव नाशवत् विनाशाद् रक्षितुं न कोऽपि समर्थः ।

'तस्माद् युध्यस्व' - 'तस्माद्' इत्यस्य पदस्य प्रयोगेणात्र युक्तेः बोधः भवति । अर्थात् युक्तिः अवगता चेत्, युध्यस्व इति । गीताशास्त्रे 'तस्मात्' इत्यस्य पदस्योपयोगः बहुधा विषयसमाप्तौ, युक्तिसमाप्तौ च अभवत् । भगवान् अर्जुनम् आज्ञापयति यत्, सदसतोः औचित्यं ज्ञाते सति युद्धं कुरु इति । अर्थात् प्राप्तकर्तव्यस्य पालनं कुरु इति । अस्य तात्पर्यम् अस्ति यत्, शरीरं तु अन्तयुक्तम् अस्ति तथा च शरीरी अविनाशी । तयोः उभयोः विषये शोकः सर्वथा अस्थाने एव । अतः शोकं त्यक्त्वा युध्यस्व इति ।

मर्मःसंपादित करें

अत्र 'अन्तवन्त इमे देहाः' इत्यस्य पदस्य तात्पर्यम् अस्ति यत्, एतानि सर्वाणि शीराणि नाशवन्ति सन्ति । परन्तु शरीराणि कस्य ? इति प्रश्ने सति 'नित्यस्य', 'अविनाशिनः' इत्युत्तरं भवति । तानि शरीराणि नित्यस्य अस्ति । तात्पर्यम् अस्ति यत्, नित्यतत्त्वं यस्य कदापि नाशः न भवति, तेन शरीरेषु ममत्वम् आरोपितम् अस्ति । ममत्वस्थापनस्य अर्थः भवति यत्, स्वस्य शरीरेषु, शरीराणाञ्च स्वस्मिन् आरोपणम् । स्वस्य शरीरेषु आरोपणे कृते सति 'अहंता' उत्पद्यते । तथैव शरीरे स्वस्मिन् आरोपिते सति 'ममता' उत्पद्यते ।

शरीरी यत्र यत्र स्वं क्षिपति, तत्र तत्र 'अहम्' उत्पद्यते । यथा धने, राज्ये, विद्यायां, बुद्धौ, सिद्धौ, शरीरे च स्वस्मिन् क्षिप्ते सति क्रमेण अहं धनी, राजा, विद्वान्, बुद्धिमान्, सिद्धः, शरीरं चेति अभिधानं भवति । सः शरीरी यद् वस्तु स्वस्मिन् आरोपयति, तद्वस्तुनि 'ममत्वम्' उत्पद्यते । यथा कुटुम्बे, धने, बुद्धौ, शरीरे च स्वस्मिन् स्थापिते सति क्रमेणं कुटुम्बं मे, धनं मे, बुद्धिः मे, शरीरं मे इति भावः उत्पद्यते । जडपदार्थैस्सह 'अहन्ताममत्वयोः' उत्पन्नयोः सतोः विकाराः उत्पद्यन्ते । तात्पर्यम् अस्ति यत्, शरीरम्, अहं च भिन्नौ स्तः इति विवेकनाशोत्तरमेव विकाराः उत्पद्यन्ते इति । परन्तु शरीरशरीरिणोः भिन्नत्वस्य विवेकी पण्डितः निर्विकारी भवति । सः कदापि न शोकासक्तः भवति । किञ्च सदसतोः अनुभवः सर्वदा भवति तेषाम् ।

पूर्वस्मिन्, एतस्मिन् च श्लोकयोः सदसतोः विवेचनं विशेषेण प्राप्यते । अस्य कारणम् अस्ति यद्, सर्वेषु विषयेषु भगवतः लक्ष्यं सतः बोधनम् एवास्ति । सतः बोधे सति असतः निवृत्तिः सहसा भवति । ततः न कोऽपि सन्देहः अवशिष्यते । एवं सतः अनुभवोत्तरम् असन्देही भूत्वा कर्तव्यपालनं कर्तव्यम् इति । साङ्ख्ययोगे, कर्मयोगे च विशेषवर्णस्य, आश्रमस्य वा आवश्यकता नास्ति इति उक्तेन विवेचनेन सिद्ध्यति । स्वकल्याणाय साङ्ख्ययोगस्य, कर्मयोगस्य वा अनुष्ठानचयने मनुष्यः स्वतन्त्रः । परन्तु व्यावहारिककार्येषु वर्णाश्रमानुगुणं शास्त्रविधानस्य परमावश्यकता अस्ति । अतः अत्र साङ्ख्ययोगानुसारं सदसतोः विवेचनं कुर्वन् भगवान् युद्धं कर्तुम् आज्ञापयति ।

अग्रे यदा ज्ञानसाधनानां वर्णनं करिष्यति, तत्रापि पुत्रस्त्रीगृहादीनाम् आसक्तेः निषेधं विदिष्यति [३] । यदि सन्न्यासिनः एव साङ्ख्ययोगस्य अधिकारिणः अभविष्यन्, तर्हि पुत्रस्त्रीगृहादिषु अनासक्तिः भवेद् इत्यस्य वचनस्य आवश्यकता एव नाभविष्यत् । यतः संन्यासिनां पुत्रादयः न भवन्ति एव । एवं गीताशास्त्रस्य आशयः स्पष्टः अस्ति यत्, साङ्ख्ययोगः, कर्मयोगः च उभे परमात्मप्राप्त्यै स्वतन्त्रे साधने स्तः । ते वर्णाश्रमानुगुणं साधनीये इति नास्ति ।

शाङ्करभाष्यम् [४]संपादित करें

किं पुनस्तदसत् यत्स्वात्मसत्तां व्यभिचरतीति उच्यते - अन्तवन्त इति ।

अन्तः विनाशः विद्यते येषां ते  अन्तवन्तः । यथा मृगतृष्णिकादौ सद्बुद्धिः अनुवृत्ता प्रमाणनिरूपणान्ते विच्छिद्यते स तस्य अन्तः तथा  इमे देहाः  स्वप्नमायादेहादिवच्च अन्तवन्तः  नित्यस्य शरीरिणः  शरीरवतः  अनाशिनः अप्रमेयस्य  आत्मनः अन्तवन्त इति  उक्ताः  विवेकिभिरित्यर्थः। नित्यस्य अनाशिनः इति न पुनरुक्तम् नित्यत्वस्य 

द्विविधत्वात् लोके नाशस्य च। यथा देहो भस्मीभूतः अदर्शनं गतो नष्ट उच्यते। विद्यमानोऽपि यथा अन्यथा परिणतो व्याध्यादियुक्तो जातो नष्ट उच्यते। तत्र नित्यस्य अनाशिनः इति द्विविधेनापि नाशेन असंबन्धः 

अस्येत्यर्थः। अन्यथा पृथिव्यादिवदपि नित्यत्वं स्यात् आत्मनः तत् मा भूदिति नित्यस्य अनाशिनः इत्याह। 

अप्रमेयस्य न प्रमेयस्य प्रत्यक्षादिप्रमाणैः अपरिच्छेद्यस्येत्यर्थः।।

ननु आगमेन आत्मा परिच्छिद्यते प्रत्यक्षादिना च पूर्वम्। न आत्मनः स्वतःसिद्धत्वात्। सिद्धे हि आत्मनि प्रमातरि प्रमित्सोः प्रमाणान्वेषणा भवति। न हि पूर्वम् इत्थमहम् इति आत्मानमप्रमाय पश्चात् प्रमेयपरिच्छेदाय प्रवर्तते। न हि आत्मा नाम कस्यचित् अप्रसिद्धो भवति। शास्त्रं तु अन्त्यं प्रमाणम् अतद्धर्माध्यारोपणमात्रनिवर्तकत्वेन प्रमाणत्वम् आत्मनः प्रतिपद्यते न तु अज्ञातार्थज्ञापकत्वेन। तथा च श्रुतिः यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः इति।।

यस्मादेवं नित्यः अविक्रियश्च आत्मा तस्मात् युध्यस्व युद्धात् उपरमं मा कार्षीः इत्यर्थः।।

न हि अत्र युद्धकर्तव्यता विधीयते युद्धे प्रवृत्त एव हि असौ शोकमोहप्रतिबद्धः तूष्णीमास्ते। अतः तस्य प्रतिबन्धापनयनमात्रं भगवता क्रियते। तस्मात् युध्यस्व इति अनुवादमात्रम् न विधिः।।

भाष्यार्थःसंपादित करें

येषाम् अन्तः भवति, ते विनाशिनः । ते अन्तयुक्ताः । यथा मृगतृष्णादिषु विद्यमाना जलविषयिणी सत्-बुद्धिः प्रमाणे सति विच्छिन्ना भवति, स एव तस्याः अन्तः, तथैव एतानि सर्वाणि शरीराणि अन्तयुक्तानि सन्ति । तथा च स्वप्न-माया-शरीरादिवत् शरीराणि अपि अन्तयुक्तानि सन्ति इति । अतः एतस्य अविनाशिनः, अप्रमेयस्य, शरीरधारिणः, नित्यस्य आत्मनः सर्वाणि शरीराणि विवेकिपुरुषैः अन्तयुक्तानि उक्तानि इत्यभिप्रायः ।

'नित्यः', 'अविनाशी' इत्येतयोः शब्दयोः प्रयोगो न पुनरुक्तिदोषः । किञ्च संसारे नित्यत्वस्य, नाशस्य च द्वौ भेदौ प्रसिद्धौ स्तः । शरीरं दहनोत्तरं भस्मीभूतं सत् अदृश्यं सद् 'नष्टं' मन्यते । रोगादियुक्तं शरीरं विपरीतपरिणामं प्राप्नोति चेदपि 'नष्टं' मन्यते । अतः उक्तयोः पदयोः प्रयोगः नाशभेदयोः सम्बन्धे कृतः । अर्थात् उभयोः नाशभेदयोः आत्मना सह कोऽपि सम्बन्धः नास्ति इति । यदि एवं नावदिष्यद्, तर्हि पृथ्व्यादिवद् आत्मनः नित्यत्वं पर्यलक्षयिष्यत् । तस्य भावस्य आरोपणं निराकर्तुम् 'अविनाशी', 'नित्यः' इत्येतयोः पदयोः प्रयोगः कृतः ।

प्रत्यक्षादिप्रमाणैः यस्य स्वरूपनिश्चयः न भवति, सः अप्रमेयः ।

पू. – शास्त्रैः आत्मनः स्वरूपं तु पूर्वस्माद् एव निश्चितं, तर्हि प्रत्यक्षादिप्रमाणैः तस्य ज्ञानं तु सहजं सिद्धम् अस्ति । (तर्हि सः अप्रमेयः कथम् ?) –

उ. – एवं कथनम् अयोग्यम् । यतो हि आत्मा स्वतः सिद्धः अस्ति । प्रमातृत्वेन आत्मनः सिद्धे सत्येव जिज्ञासोः प्रमाणविषयिणी अन्वेषणयात्रा आरभते । यतः 'अहम् अमूकः अस्मि' एतादृशे ज्ञाने सत्येव अन्यान् ज्ञातव्यान् पदार्थान् ज्ञातुं प्रवृत्तिः भवति । तस्माद् पूर्वं तथा प्रवृत्तिः न भवति । आत्मविषये न कस्यापि अज्ञानं भवति च । शास्त्रम् अन्तिमप्रमाणत्वेन मन्यते, (प्रत्यक्षानुमानागमेषु आगमः अर्थात् शास्त्रम् अन्तिमप्रमाणं मन्यते ।) आत्मनि कृते अनात्मपदार्थानाम् अध्यारोपणे दूरीकृते एव आत्मनः विषये तद् प्रमाणभूतं भवति । तच्च शास्त्रम् अज्ञानभूतपदार्थानां ज्ञानं कारयितुं निमित्तं न भवति । 'यत्साक्षाद् अपरोक्षम् अस्ति, तदेव ब्रह्म अस्ति । सः आत्मत्वेन एव हृदये व्याप्तः अस्ति' [५] इत्यादि श्रुतिः अपि कथयति । एवम् आत्मा नित्यः, निर्विकारी च सिद्धः, अतः त्वं युद्धं कुरु । अर्थात् युद्धाद् उपरतो मा भव इति ।

अत्र उपर्युक्तेन कथनेन युद्धस्य कर्तव्यतायाः विधानं न सिद्ध्यति, किञ्च युद्धे प्रवृत्ते समनन्तरमेव शोकमोहादिग्रस्तः अर्जुनः तूष्णीम् अभवत् । तस्य कर्तव्यस्य प्रतिबन्धमात्रम् एव भगवान् अपसारयति । अतः 'युध्यस्व' इति अनुमोदनमात्रम् । अर्थात् विधिः (आज्ञा) न ।

रामानुजभाष्यम्संपादित करें

देहानां तु विनाशित्वम् एव स्वभाव इत्याह —

दिह उपचये इति उपचयरूपा  इमे देहा अन्तवन्तः  विनाशस्वभावाः उपचयात्माका हि घटादयः अन्वन्तो दृष्टाः।  नित्यस्य शरीरिणः  कर्मफलभोगार्थतया भूतसंघातरूपा देहाःपुण्यः पुण्येन (बृ0 उ0 4।4।5) इत्यादिशास्त्रैः  उक्ताः  कर्मावसानविनाशिनः। आत्मा तु अविनाशी कुतः अप्रमेयत्वात्। न हि आत्मा प्रमेयतया उपलभ्यते अपि तु प्रमातृतया। तथा च वक्ष्यते एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः।। (गीता 13।1) इति।

न च अनेकोपचयात्मक आत्मा उपलभ्यते। सर्वत्र देहेअहम् इदं जानामि इति देहाद् अन्यस्य प्रमातृतया एकरूपेण उपलब्धेः। न च देहादेः इव प्रदेशभेदे प्रमातुः आकारभेद उपलभ्यते अत एकरूपत्वेन अनुपचयात्मकत्वात् प्रमातृत्वाद् व्यापकत्वात् च आत्मा नित्यः। देहः तु उपचयात्मकत्वात् शरीरिणः कर्मफलभोगार्थत्वाद् अनेकरूपत्वाद् व्याप्यत्वात् च विनाशी।  तस्माद्  देहस्य विनाशस्वभावत्वाद् आत्मनो नित्यस्वभावत्वात् च उभौ अपि न शोकस्थानम् इति शस्त्रपातादिपरुषस्पर्शान् अवर्जनीयान् स्वगतान् अन्यगतांश्च धैर्येण सोढ्वा अमृतत्वप्राप्तये अनभिसंहितफलं युद्धाख्यं कर्म आरभस्व।

भाष्यार्थःसंपादित करें

देहानां तु विनाशत्वम् एव स्वभावः इति कथयति -

'देह' इत्येषः शब्दः 'दिह उपचये' इत्यनेन धातुना व्युत्पन्नः । उपचयः अर्थात् अनेकेषाम् अवयवानां सङ्घातरूपः (अवयवभागरूपः) एषः देहः (शरीरम्) अन्तवान् अस्ति । यतो हि अवयवानां सर्वे सङ्घातरूपघटादिपदार्थाः अन्तवन्तः परिलक्षिताः । कर्मफलस्य उपभोगं कारयितुम् उत्पन्नानि भूतसङ्घातरूपाणि यानि शरीराणि, 'पुण्यकर्मणः पुरुषः पुण्यात्मा भवति अर्थात् पवित्रशरीरं धरते' [६] इत्यादि शास्त्रे उक्तं, तानि शरीराणि कर्मणां समाप्त्या सह नश्यमानानि सन्ति । परन्तु आत्मा अविनाशी अस्ति, यतो हि सः अप्रमेयः (मापन-भार-परिमाणादिभ्यः परः) । आत्मा शरीरादिवद् प्रमेयः नास्ति, अपि तु प्रमातृरूपेण अस्ति । गीताशास्त्रे एव एतस्य उपस्थापनम् अस्ति यत्, यः एतद् जानाति, तं ज्ञानिनः 'क्षेत्रज्ञः' इति कथयन्ति [७] इति ।

आत्मा अनेकावयवयानां समुदायत्वेन नोपलभ्यते । सम्पूर्णे शरीरे 'अहम् इदं जानामि' इति शरीराद् भिन्नस्य आत्मनः प्रमातृभावेन एकरूपेणैव उपलब्धिः भवति । तथा च शरीरादिवद् देशभेदे सति प्रमातुः आत्मनः आकारभेदः न भवति । अतः एकरूपे सति, अनेकावयवानां समुदायाभावे सति, प्रमातृत्वाद्, व्यापकत्वाच्च आत्मा नित्यः अस्ति । शरीरम् अनेकावययवानां समुदायः, तद् आत्मानं कर्मफलं भोक्तुम् उत्पन्नम् अनेकरूपेषु, व्याप्येषु च सत्सु विनाशशीलम् अस्ति । अत एव देहस्य स्वभावः विनाशी, आत्मनश्च स्वभावः नित्यः । एवं तयोः कृते शोकविषय एव अयोग्यः । अतः शस्त्रपाताद्यनिवार्याः कठोरस्पर्शाः, ये स्वयम्, अन्ये च प्राप्स्यन्ति, तान् धैर्येण सहमानः त्वम् अमृतत्वस्य प्राप्त्यै फलाभिसन्धिरहितस्य युद्धरूपिकर्मणः आरम्भं कुरु ।


श्रीमद्भगवद्गीतायाः श्लोकाः
  पूर्वतनः
अविनाशि तु तद्विद्धि...
अन्तवन्त इमे देहा... अग्रिमः
य एनं वेत्ति हन्तारं...
 
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाःसंपादित करें

बाह्यसम्पर्कतन्तुःसंपादित करें

उद्धरणम्संपादित करें

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. गीता, अ. २, श्लो. २४
  3. गीता, अ. १३, श्लो. ९
  4. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  5. यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः, बृ. ३/४/१
  6. पुण्यः पुण्येन, बृ. उ. ४/४/५
  7. एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः, गीता, अ. १३, श्लो. १

अधिकवाचनायसंपादित करें

"https://sa.wikipedia.org/w/index.php?title=अन्तवन्त_इमे_देहा...&oldid=403542" इत्यस्माद् प्रतिप्राप्तम्