स्वधर्ममपि चावेक्ष्य...

स्वधर्ममपि चावेक्ष्य () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः क्षात्रधर्मानुसारं युद्धं स्वधर्मः इति बोधयति । पूर्वस्मिन् श्लोके देहदेहिनोः विवेकसन्दर्भः पूर्णः अभवत् । इतः नवीनः विषयः आरब्धः । अर्जुनस्य मनसि आप्तजनानां, गुरुजनानां च मृत्योः भयम् आसीत् । अर्थाद् कुटुम्बादीनां वियोगस्य, अभावस्य दुःखं भविष्यति इति शोकः आसीत् । गुरुजनानां हत्यायां सत्यां पापकर्मत्वाद् परलोके नरकयातनादि दुःखं भविष्यति इति भयम् आसीत् । अतः अर्जुनस्य शोकं परिहर्तुं एकदशात् श्लोकात् त्रिंशं श्लोकं यावत् देहदेहिनोः विवकविषयः उक्तः । इतः परम् अर्जुनस्य भयम् अपहर्तुं भगवान् नवीनं विषयम् उपस्थापयति । एतस्मिन् नवीने विषये भगवान् प्रप्रथमं द्वयोः श्लोकयोः युद्धलाभं वर्णयति । सः कथयति यत्, स्वधर्म दृष्ट्वाऽपि त्वया विकम्पितेन न भवितव्यम् । अर्थात् कर्तव्यकर्मणः विचलितेन न भवितव्यम् इति । यतो हि धर्मयुक्ताद् युद्धाद् क्षत्रियस्य कृते अपरं कल्याणकरं कर्म नास्ति इति ।

स्वधर्ममपि चावेक्ष्य...


क्षात्रधर्मानुसारं युद्धं स्वधर्मः
Avatars of Vishnu.jpg
श्लोकसङ्ख्या २/३१
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः देही नित्यमवध्योऽयं...
अग्रिमश्लोकः यदृच्छया चोपपन्नं...

श्लोकःसंपादित करें

 
गीतोपदेशः
स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ।
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥ ३१ ॥

पदच्छेदःसंपादित करें

स्वधर्मम्, अपि, च, अवेक्ष्य, न, विकम्पितुम्, अर्हसि । धर्म्यात्, हि, युद्धात्, श्रेयः, अन्यत्, क्षत्रियस्य, न, विद्यते ॥

अन्वयःसंपादित करें

स्वधर्मं च अवेक्ष्य अपि विकम्पितुं न अर्हसि । क्षत्रियस्य हि धर्म्यात् युद्धात् अन्यत् श्रेयः न विद्यते ।

शब्दार्थःसंपादित करें

अन्वयः विवरणम् सरलसंस्कृतम्
स्वधर्मं अ.पुं.द्वि.एक. आत्मधर्मं
अव्ययम्
अवेक्ष्य ल्यबन्तम् अव्ययम् विलोक्य
अपि अव्ययम् अपि
विकम्पितुम् तुमुन्नन्तम् अव्ययम् चलितुम्
अव्ययम्
अर्हसि √अर्ह पूजायाम्-पर.कर्तरि, लट्.मपु.एक. अर्हसि
हि अव्ययम् यस्मात्
क्षत्रियस्य अ.पुं.ष.एक. क्षत्रियकुलोवस्य
धर्म्यात् अ.नपुं.पं.एक. धर्मयुक्तात्
युद्धात् अ.नपुं.पं.एक. रणात्
अन्यत् अ.सर्व.नपुं.प्र.एक. अन्यत्
श्रेयः श्रेयस्.स.नपुं.प्र.एक. हितम्
अव्ययम्
विद्यते √विद ज्ञाने-आत्म.कर्तरि, लट्.प्रपु.एक. अस्ति ।


व्याकरणम्संपादित करें

सन्धिःसंपादित करें

  1. चावेक्ष्य = च + अवेक्ष्य – सवर्णदीर्घसन्धिः
  2. धर्म्याद्धि = धर्म्यात् + हि - पूर्वसवर्णसन्धिः
  3. युद्धाच्छ्रेयोऽन्यत् = युद्धात् + श्रेयः – श्चुत्वं, छत्वसन्धिः
  4. युद्धाच्छ्रेयः + अन्यत् – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः, पूर्वरूपं च

समासःसंपादित करें

  1. स्वधर्मम् = स्वस्य धर्मः, तम् - षष्ठीतत्पुरुषः

कृदन्तःसंपादित करें

  1. अवेक्ष्य = अव + ईक्ष + ल्यप्
  2. विकम्पितुम् = वि + कम्प् + तुमुन्

तद्धितान्तःसंपादित करें

  1. धर्म्यात् = धर्म + यत् (अनपेतार्थे) धर्मात् अनपेतम्, तस्मात् । धर्मयुक्तम् इत्यर्थः ।

अर्थःसंपादित करें

स्वधर्मः चिन्त्यते चेदपि त्वया न भेतव्यम् । यतः क्षत्रियस्य धर्म्यात् युद्धात् अन्यत् श्रेयः न विद्यते । अतः श्रेयोभिलाषिणा त्वया युद्धम् अवश्यं कर्तव्यम् ।

भावार्थः [१]संपादित करें

'स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि' – सः स्वयं परमात्मा अस्ति । यदा सः शरीरेण सह तादात्म्यं स्थापयति, तदा तस्य 'स्वः' अर्थाद् स्वस्मिन् यत्किमपि आरोपितं स्याद् तत् । यथा अहं ब्राह्मणः, क्षत्रियः, वैश्यः, शूद्रः वा । तर्हि स्ववर्णोचितानां कर्तव्यानां पालनमेव स्वधर्मः अस्ति । यदि कोऽपि स्वं शिक्षकत्वेन आरोपयति, तर्हि तेन शिक्षकस्य कर्तव्यानां योग्यतया पालनं करणीयम् । सः एव स्वधर्मः इति । यदि कोऽपि स्वं पुत्रत्वेन आरोपयति, तर्हि तेन पुत्रकर्तव्यस्य योग्यपालनं कर्तव्यम् । अत्र क्षत्रियस्य कर्तव्यकर्म धर्मत्वेन प्रतिपादितम् । गीताशास्त्रे यत्र चतुर्वर्णेभ्यः कर्तव्यकर्मणः वर्णनम् अस्ति [२], तत्र मध्ये 'धर्म' इत्यस्य शब्दस्यापि उपयोगः अस्ति । एवं 'कर्म', 'धर्म' इत्येतयोः शब्दयोः पर्यायवाचित्वं सिद्ध्यति [३] । क्षत्रियस्य परमकर्तव्यम् अस्ति यद्, युद्धात् कदापि विमुखः न भवेत् । अर्जुनः क्षत्रियः अस्ति, अतः तस्य स्वधर्मः युद्धम् एव । अत एव भगवान् कथयति यद्, स्वधर्मणः दृष्ट्या अपि पश्यामः, तर्हि क्षात्रधर्मानुसारं ते युद्धम् एव वरम् अस्ति । त्वया स्वकर्तव्याद् कदापि विमुखेन न भवितव्यम् इति ।

'धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते' – धर्ममययुद्धात् अपेक्षया क्षत्रियेभ्यः अपरं कल्याणकारकं कर्म नास्ति । अर्थात् क्षत्रियाय क्षात्रधर्मानुष्ठानमेव परमावश्यकम् [४]अर्जुनः सप्तमे श्लोके प्रार्थयति यद्, भवान् मह्यं निश्चितश्रेयसः चर्चां करोतु इति । तस्य उत्तरत्वेन भगवान् श्रेयसः अर्थात् कल्याणस्य मार्गत्वेन 'स्वधर्मपालनम्' इति सूचयति । कदापि स्वधर्मस्य त्यागः श्रेयस्करः न भवति । अतः त्वं स्वधर्मात् विमुखो मा भव ।

शाङ्करभाष्यम् [५]संपादित करें

इह परमार्थतत्त्वापेक्षायां शोको मोहो वा न संभवतीत्युक्तम्। न केवलं परमार्थतत्त्वापेक्षायामेव। किं तु -

स्वधर्ममपि स्वो धर्मः क्षत्रियस्य युद्धं तमपि अवेक्ष्य त्वं न विकम्पितुं प्रचलितुम् नार्हसि क्षत्रियस्य स्वाभाविकाद्धर्मात् आत्मस्वाभाव्यादित्यभिप्रायः। तच्च युद्धं पृथिवीजयद्वारेण धर्मार्थं प्रजारक्षणार्थं चेति धर्मादनपेतं परं धर्म्यम्। तस्मात् धर्म्यात् युद्धात् श्रेयः अन्यत् क्षत्रियस्य न विद्यते हि यस्मात्।।

भाष्यार्थःसंपादित करें

अत्र उक्तम् अस्ति यद्, परमार्थतत्त्वस्य कृते शोकः उत मोहः अनुचितः इति । परमार्थतत्त्वस्य कृते शोकः, मोहः अनुचितः इत्येव न अपि तु –

क्षत्रियेभ्यः यः युद्धरूपी स्वधर्मः अस्ति, तं दृष्ट्वापि तव मनोभ्रमः अयोग्यः । अभिप्रायः अस्ति यद्, स्वस्य स्वाभाविकधर्माद् विचलता अपि अनुचिता एव । किञ्च एतद् युद्धं धर्मपालनाय, प्रजारक्षणाय च जायमानम् अस्ति । तत् सर्वं पृथ्वीविजयेन एव शक्यते । अतः परमधर्ममयं युद्धं विना अन्यः मार्गः क्षत्रियस्य कृते कल्याणप्रदः नास्ति ।

रामानुजभाष्यम्संपादित करें

अपि च इदं प्रारब्धं युद्धं प्राणिमारणम् अपि अग्नीषोमीयादिवत्  स्वधर्मम् अवेक्ष्य न विकम्पितुम् अर्हसि धर्म्यात्  न्यायतः प्रवृत्तात्  युद्धाद् अन्यत् न हि क्षत्रियस्य श्रेयो विद्यते।

शौर्यं तेजो धृतिदाक्ष्यं युद्धे चाप्यपलायनम् ।
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥ [गीता १८.४३] इति हि वक्ष्यते ।

अग्नीषोमीयादिषु च न हिंसा पशोः निहीनतरच्छागादिदेहपरित्यागपूर्वककल्याणदेहस्वर्गादिप्रापकत्वश्रुतेः संज्ञपनस्य।

न वा उ वेतन्म्रियसे न रिष्यसि
देवामिदेषि पथिभिं सुगेभिम् ।
यत्र यतन्ति सुकृतो नापि दुष्कृतस्
तत्र त्वा देवं सविता दधातु [यजुर्वेद ४.६.९.४३] इति हि श्रूयते ।

इह च युद्धे मृतानां कल्याणतरदेहादिप्राप्तिरुक्ता वासांसि जीर्णानि [गीता २.२२] इत्यादिना । अतश्चिकित्सकशल्यादिकर्म आतुरस्येवास्य रक्षणमेवाग्नीषोमीयादिषु संज्ञपनम् ॥

भाष्यार्थःसंपादित करें

एतदतिरिक्तम् एतस्य आरब्धस्य युद्धस्य अग्नौ अनेकेषां प्राणिनां हिंसायां सत्यापि अग्निष्टोमेत्यादियज्ञवद् स्वधर्मं मत्वा त्वया मनोभ्रमग्रस्तेन न भवितव्यम् । यतो हि धर्मात् (न्यायात्) प्राप्ताद् युद्धाद् विशेषं क्षत्रियेभ्यः किमपि अपरं श्रेयस्करं न भवति । अग्रेऽपि कथयिष्यति यद्,

'शौर्य-तेजो-धृति-दक्षता-अपलायन-दान-ईश्वरभावाः सर्वाणि क्षत्रियाणां स्वाभाविकानि कर्माणि सन्ति' इति [६]

अग्निष्टोमेत्यादिषु यज्ञेषु जायमानं पशुबलिदानं हिंसा न । तत्तु निकृष्टयागादिशरीरं त्यक्त्वा नवीनस्य देहस्य, स्वर्गादीनां च प्राप्तिः इति उक्तम् । श्रुतौ अपि उक्तम् अस्ति यद्, हे पशो ! अनेन कर्मणा निश्चयेन त्वं मरिष्यसि । किन्तु सुगममार्गेण त्वं देवत्वं प्राप्स्यसि । तत्र केवलं पुण्यकर्मणः पुरुषाः एव गच्छन्ति, न तु पापिनः । सवितृदेवः तत्र तव स्थापनाङ्करिष्यति इति [७] । अत्र गीताशास्त्रेऽपि 'वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति' इत्यादिषु श्लोकेषु युद्धे प्राणत्यागोत्तरं कल्यामयशरीरादीनां प्राप्तेः चर्चा अस्ति । अत एव अग्निष्टोमित्यादिषु यज्ञेषु दीयमानं पशुबलिदानं रोगिणां रक्षायै चिकित्सककर्मवत् तेषां रक्षां करोति ।


श्रीमद्भगवद्गीतायाः श्लोकाः
  पूर्वतनः
देही नित्यमवध्योऽयं...
स्वधर्ममपि चावेक्ष्य... अग्रिमः
यदृच्छया चोपपन्नं...
 
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाःसंपादित करें

बाह्यसम्पर्कतन्तुःसंपादित करें

उद्धरणम्संपादित करें

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. गीता, अ. १८, श्लो. ४२-४८
  3. श्रेयानस्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्, गीता, अ. १८, श्लो. ४७
  4. एवमेव अन्यवर्णेभ्यः ग्राह्यम्, गीता, अ. १८, श्लो. ४३
  5. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  6. गीता, अ. १८, श्लो. ४३
  7. न वा उ वेतन्म्रियसे न रिष्यसि देवा इदेषि पथिभिः सुगेभिः । यत्र यन्ति सुकृतो नापि दुष्कृतस्तत्र त्वा देवः सविदा दधातु, यजुर्वेदः, ४/६/९/४६

अधिकवाचनायसंपादित करें