यामिमां पुष्पितां वाचं…

यामिमां पुष्पितां वाचम् () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अव्यवसायिमनुष्याणां बुद्धयः किमर्थम् अनन्ताः इति बोधयति । पूर्वस्मिन् श्लोके व्यवसायात्मिकाव्यवसायात्मिकयोः बुद्ध्योः वर्णनं कृत्वा एतस्माच्च्छ्लोकाद् भगवान् अव्यवसायिनां मनुष्याणाम् अनन्ताः बुद्धयः कथं भवन्ति ? इत्यस्य वर्णनम् आरभते । एतस्य श्लोकस्य अन्वयः अग्रिमेण श्लोकेन सह अस्ति, अतः कामात्मानः स्वर्गपरा… इत्यस्मिन् श्लोके अर्थः अस्ति ।

यामिमां पुष्पितां वाचं…


बुद्धयः अनन्ताः
श्लोकसङ्ख्या २/४२
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः व्यवसायात्मिका बुद्धिः...
अग्रिमश्लोकः कामात्मानः स्वर्गपरा…
 
गीतोपदेशः
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः।
वेदवादरताः पार्थ नान्यदस्तीति वादिनः॥४२॥

पदच्छेदः

सम्पादयतु

याम्, इमाम्, पुष्पिताम्, वाचम्, प्रवदन्ति, अविपश्चितः । वेदवादरताः, पार्थ, न, अन्यत्, अस्ति, इति, वादिनः ॥

पार्थ! अविपश्चितः याम् इमां पुष्पितां वाचं प्रवदन्ति वेदवादरताः अन्यत् न अस्ति इति वादिनः ।

शब्दार्थः

सम्पादयतु
अन्वयः विवरणम् सरलसंस्कृतम्
पार्थ अ.पुं.स्मबो.एक. हे पृथायाः पुत्र !
अविपश्चितः अविपश्चित्-त.पुं.प्र.बहु. अज्ञानिनः
याम् यद्-द.सर्व.स्त्री.द्वि.एक. याम्
इमाम् इदद्-द.सर्व.स्त्री.द्वि.एक. एनाम्
पुष्पिताम् आ.स्त्री.द्वि.एक. मनोरमाम्
वाचम् वाच्-च.स्त्री.द्वि.एक. वाचम्
प्रवदन्ति प्र+√वद व्यक्तायां वाचि-पर.कर्तरि, लट्.प्रपु.बहु. भणन्ति
वेदवादरताः अ.पुं.प्र.बहु. वेदस्य अर्थवादे रताः
अन्यत् अन्य.अ.सर्व.नपुं.प्र.एक. अपरम्
अव्ययम्
अस्ति √अस भूवि-पर.कर्तरि, लट्.प्रपु.एक. अस्ति
इति अव्ययम् इति
वादिनः वादिन्-न.पुं.प्र.बहु. वादिनः

व्याकरणम्

सम्पादयतु
  1. प्रवदन्त्यविपश्चितः = प्रवदन्ति + अविपश्चितः - यण्सन्धिः
  2. नान्यत् = न + अन्यत् - सवर्णदीर्घसन्धिः
  3. अन्यदस्ति = अन्यत् + अस्ति – जश्त्वसन्धिः
  4. अस्तीति = अस्ति + इति – सवर्णदीर्घसन्धिः
  1. अविपश्चितः = न विपश्चितः – नञ्तत्पुरुषः ।
  2. वेदवादरताः = वेदस्य वादाः वेदवादाः – षष्ठीतत्पुरुषः ।
  3. वेदवादेषु रताः – सप्तमीतत्पुरुषः ।

कृदन्तः

सम्पादयतु
  1. वादिनः = वद् + णिनि (ताच्छीलिके कर्तरि)

शाङ्करभाष्यम् []

सम्पादयतु

याम् इमां  वक्ष्यमाणां  पुष्पितां  पुष्पित इव वृक्षः शोभमानां श्रूयमाणरमणीयां  वाचं  वाक्यलक्षणां  प्रवदन्ति । के  अविपश्चितः  अमेधसः अविवेकिन इत्यर्थः।  वेदवादरताः  बह्वर्थवादफलसाधनप्रकाशकेषु वेदवाक्येषु रताः हे  पार्थ  न  अन्यत्  स्वर्गपश्वादिफलसाधनेभ्यः कर्मभ्यः  अस्ति इति  एवं  वादिनः  वदनशीलाः।।

भाष्यार्थः

सम्पादयतु

येषां व्यवसायत्मिकाबुद्धिः नास्ति, ते –

अग्रे उच्यमानां, पुष्पितां (शोभायुक्तां), रमणीयां वाणीम् एव वदन्तः भवन्ति । तां पुष्पितां वाणीं के वदन्ति ? इति चेद्, अज्ञानिनः, अविवेकिनश्च । ते अर्थवादप्राधान्यानि, फलसाधनानां प्राकशकानि वेदवाक्यानि एव अङ्गीकुर्वन्ति । तेषु वेदवाक्येषु एव ते रताः भवन्ति । तथा च हे पार्थ ! स्वर्गप्राप्त्यादिफलस्य साधनरूपकर्मणः अतिरिक्तम् अन्यत् किमपि नास्ति इत्यपि ते अविवेकिनः वदन्ति ।


श्रीमद्भगवद्गीतायाः श्लोकाः
  पूर्वतनः
व्यवसायात्मिका बुद्धिः...
यामिमां पुष्पितां वाचं… अग्रिमः
कामात्मानः स्वर्गपरा…
 
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः

सम्पादयतु

बाह्यसम्पर्कतन्तुः

सम्पादयतु

उद्धरणम्

सम्पादयतु
  1. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6

अधिकवाचनाय

सम्पादयतु