एवमुक्त्वा हृषीकेशं...
एवमुक्त्वा हृषीकेशम् ( ( शृणु)) इत्यनेन श्लोकेन सञ्जयः अर्जुनस्य योद्धोपरामस्य निर्णयं धृतराष्ट्रं श्रावयति । पूर्वस्मिन् श्लोके स्वयुद्धोपरामस्य विषये स्पष्टतां कृत्वा अर्जुनः श्रीकृष्णस्य शिष्यः अभवत् । तस्य वचनानि धृतराष्ट्रं श्रावयन् सञ्जयः अत्र अर्जुनस्य स्थितिं वर्णयति । सः कथयति यत्, हे शत्रुतापन धृतराष्ट्र ! एवम् उक्त्वा निद्राजितः अर्जुनः अन्तर्यामिणः भगवतः गोविन्दस्य सम्मुखं "अहं न योत्स्यामि" इति स्पष्टम् उक्त्वा तूष्णीम् अभवत् इति ।
एवमुक्त्वा हृषीकेशं... अर्जुनस्य युद्धोपरामनिर्णयं धृतराष्ट्रं श्रावयति | |
---|---|
श्लोकसङ्ख्या | २/९ |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | नहि प्रपश्यामि... |
अग्रिमश्लोकः | तमुवाच हृषीकेशः... |
श्लोकः
सम्पादयतुसञ्जय उवाच-
- एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप ।
- न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥ ९ ॥
पदच्छेदः
सम्पादयतुएवम्, उक्त्वा, हृषीकेशम्, गुडाकेशः, परन्तप । न, योत्स्ये, इति, गोविन्दम्, उक्त्वा, तूष्णीम्, बभूव, ह ॥
अन्वयः
सम्पादयतुपरन्तप ! हृषीकेशम् एवम् उक्त्वा गुडाकेशः न योत्स्ये’ इति गोविन्दम् उक्त्वा तूष्णीं बभूव ।
शब्दार्थः
सम्पादयतुअन्वयः | विवरणम् | सरलसंस्कृतम् |
परन्तप | अ.पुं.सम्बो.एक. | हे धृतराष्ट्र ! |
हृषीकेशम् | अ.पुं.द्वि.एक. | श्रीकृष्णम् |
एवम् | अव्ययम् | अनेन प्रकारेण |
उक्त्वा | क्त्वान्तम् अव्ययम् | कथयित्वा |
गुडाकेशः | अ.पुं.प्र.एक. | अर्जुनः |
न | अव्ययम् | न |
योत्स्ये | √युध प्रहारे-आत्म.कर्तरि, लृट्.उपु.एक. | युद्धं करिष्यामि |
इति | अव्ययम् | इति |
गोविन्दम् | अ.पुं.द्वि.एक. | कृष्णम् |
उक्त्वा | क्त्वान्तम् अव्ययम् | कथयित्वा |
तूष्णीम् | अव्ययम् | मौनी |
बभूव | √भू सत्तायाम्-पर.कर्तरि, लिट्.प्रपु.एक. | अभवत् |
ह | अव्ययम् | किल । |
व्याकरणम्
सम्पादयतुसन्धिः
सम्पादयतु- योत्स्य इति = योत्स्ये + इति – यान्तवान्तादेशसन्धिः, यलोपः प्रकृतिभावश्च
कृदन्तः
सम्पादयतु- उक्त्वा = वच् + क्त्वा
- गोविन्दम् = गो + विन्द् + श (कर्तरि) । गाः विन्दति इति गोविन्दः ।
अर्थः
सम्पादयतुअर्जुनः अनेन प्रकारेण कृष्णम् उक्त्वा अहं युद्धं न करिष्यामि इति स्वाशयं च निवेद्य तूष्णीम् अभवत् इति सञ्जयः धृतराष्ट्रम् अवदत् ।
भवार्थः
सम्पादयतु'एवमुक्त्वा हृषीकेशम्...बभूव ह' – अर्जुनः स्वस्य श्रीकृष्णस्य च पक्षम् उपास्थापयत् । तस्य पक्षस्योपरि विचारं कृत्वा तेन निर्णयः कृतः यत्, युद्धेन अधिकाधिकं राज्यं प्राप्यस्यामि, सम्माननं, यशः च प्राप्स्यामि, परन्तु हृदये मे उद्भूतः शोकः तु न शान्तः भविष्यति । अतः अर्जुनः युद्धनिवृत्तेः निर्णयं करोति । यद्यपि अर्जुनः श्रीकृष्णस्य कथनस्य आदरं कुर्वन् तेन उक्तं कर्तुम् अपि इच्छति, तथापि तस्य मनसि युद्धस्य विषये आन्तर्द्वन्द्वः अस्ति । अतः अर्जुनः स्वमनसि स्थितं दृढभावमेव स्पष्टतया "अहं युद्धं न करिष्ये" इति भगवन्तं कथयति । एवं स्पष्टतया स्वनिर्णयस्य श्रीकृष्णस्य सम्मुखम् उपस्थापनं कृत्वा अर्जुनस्य पार्श्वे किमपि अधिकं वक्तुं नासीत् । अतः सः तूष्णीम् अभवत् ।
हृषीकाणामिन्द्रियाणामीशो हृषीकेशः क्षेत्रज्ञरूपकत्वात् परमात्म- त्वाद्वा । इन्द्रियाणि यद्वशे वर्त्तन्ते स परमात्मा । इति शङ्कराचार्य्यः ।
गुडाका निद्रा माया इत्यर्थस्तस्या ईशः ।) शिवः । (गुडा निद्रा आलस्यं इन्द्रियाणि वा तस्या ईशः शास्ता जितनिद्रो जितेन्द्रियो वा ।
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये एवमुक्त्वा हृषीकेशं... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्
सम्पादयतुअधिकवाचनाय
सम्पादयतु- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च