अच्छेद्योऽयमदाह्योऽयम्...

भगवद्गीतायाः श्लोकः २.२४

अच्छेद्योऽयमदाह्योऽयम् () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः आत्मनः नित्यत्वं वदति । पूर्वस्मिन् श्लोके भगवता आत्मनः नित्यतायाः उपस्थानम् आरब्धम् । अत्र तमेव विषयम् अग्रे उपस्थापयति । सः वदति यत्, सः शरीरी अच्छेद्यः अस्ति । सः न दाह्यः, क्लेद्यः, शोष्यः च । यतो हि आत्मा नित्यः, सर्वेषु परिपूर्णः, अचलः, स्थिरस्वभावयुक्तः, अनादिः च अस्ति इति ।

अच्छेद्योऽयमदाह्योऽयम्...


आत्मनः नित्यत्वम्
Avatars of Vishnu.jpg
श्लोकसङ्ख्या २/२४
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः नैनं छिन्दन्ति शस्त्राणि...
अग्रिमश्लोकः अव्यक्तोऽयमचिन्त्योऽयम्...

श्लोकःसंपादित करें

 
गीतोपदेशः
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ २४ ॥

पदच्छेदःसंपादित करें

अच्छेद्यः, अयम्, अदाह्यः, अयम्, अक्लेद्यः, अशोष्यः, एव, च । नित्यः, सर्वगतः, स्थाणुः, अचलः, अयम्, सनातनः ॥

अन्वयःसंपादित करें

अयम् अच्छेद्यः । अयम् अदाह्यः । अयम् अक्लेद्यः अशोष्यः एव च । अयं नित्यः सर्वगतः स्थाणुः अचलः सनातनः (च) ।

शब्दार्थःसंपादित करें

अन्वयः विवरणम् सरलसंस्कृतम्
अयम् इदम्-म.सर्व.पुं.प्र.एक. एषः आत्मा
अच्छेद्यः अ.पुं.प्र.एक. छेत्तुम् अयोग्यः
अयम् इदम्-म.सर्व.पुं.प्र.एक. एषः आत्मा
अदाह्यः अ.पुं.प्र.एक. दग्धुम् अयोग्यः
अक्लेद्यः अ.पुं.प्र.एक. क्लेदयितुम् अशक्यः
अशोष्यः अ.पुं.प्र.एक. शोषयितुम् अशक्यः
एव च अव्ययम्
अयम् इदम्-म.सर्व.पुं.प्र.एक. एषः
नित्यः अ.पुं.प्र.एक. शाश्वतः
सर्वगतः अ.पुं.प्र.एक. सर्वव्यापी
स्थाणुः उ.पुं.प्र.एक. स्थिरः
अचलः अ.पुं.प्र.एक. कम्परहितः
सनातनः अ.पुं.प्र.एक. सदावर्ती ।

व्याकरणम्संपादित करें

सन्धिःसंपादित करें

  1. अच्छेद्योऽयम् = अच्छेद्यः + अयम् – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः, पूर्वरूपं च
  2. अदाह्योऽयम् = अदाह्यः + अयम् – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः, पूर्वरूपं च
  3. अक्लेद्योऽशोष्यः = अक्लेद्यः + अशोष्यः – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः, पूर्वरूपं च
  4. अचलोऽयम् = अचलः + अयम् – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः, पूर्वरूपं च
  5. अशोष्य एव = अशोष्यः + एव – विसर्गसन्धिः (लोपः)
  6. स्थाणुरचलः = स्थाणुः + अचलः – विसर्गसन्धिः (रेफः)

समासःसंपादित करें

  1. अच्छेद्यः = न च्छेद्यः - नञ्तत्पुरुषः ।
  2. अदाह्यः = न दाह्यः - नञ्तत्पुरुषः ।
  3. अक्लेद्यः = न क्लेद्यः - नञ्तत्पुरुषः ।
  4. अशोष्यः = न शोष्यः – नञ्तत्पुरुषः ।
  5. अचलः = न चलः – नञ्तत्पुरुषः ।
  6. सर्वगतः = सर्वं गतः – द्वितीयातत्पुरुषः ।

कृदन्तःसंपादित करें

  1. छेद्यः = छिद् + ण्यत् (कर्मणि) एवम् दह्-दाह्यः, क्लिद्-क्लेद्यः, शुष्-शोष्यः इति बोध्यम् ।
  2. गतः = गम्लृ + क्त (कर्तरि)

अर्थःसंपादित करें

अयम् आत्मा शस्त्रेण केनापि छेत्तुम् अशक्यः । अग्निना भस्मीकर्तुम् अपि न शक्यः । अस्य जलादिना क्लेदनम् आतपादिना शोषणं वा न शक्यम् । अयं सर्वदा भवति । सर्वत्रापि भवति । अयं निश्चलः स्थिरः सनातनश्च वर्तते ।

भाष्यार्थःसंपादित करें

'अच्छेद्योऽयम्' - किमर्थं शस्त्रादीनि शरीरिणि विकारम् उत्पादयितुम् असमर्थानि ? इति एतस्मिन् श्लोके वदति 'अच्छेद्योऽयम्' इति । शस्त्राणि शरीरिणं छेत्तुं न शक्नुवन्ति । अत्र एवं नास्ति यच्छस्त्राभावः अस्ति उत प्रहारकः अप्रशिक्षितः अस्ति इति । प्रत्युत छेदनक्रिया शरीरं प्रवेष्टुमेव न शक्नोति, अतः छेदनम् अशक्यम् । शस्त्रं विहाय मन्त्रतन्त्रादिना, शापेन वा अन्यरीत्यापि शरीरिणः छेदनप्रक्रिया असम्भवा । यथा याज्ञवल्क्यस्य प्रश्नानाम् उत्तरदाने असमर्थे सति शापत्वाद् शाकल्यस्य शिरश्छेदः जातः आसीत्, तथा शरीरेण सह तु शक्यं, परन्तु शरीरिणा सह न । दही तु सर्वथा अच्छेद्यः ।

'अदाह्योऽयम्' – एषः शरीरी अदाह्यः अस्ति । यतो हि तस्मिन् ज्वलनशीलता एव नास्ति । अग्निः, मन्त्रादयः अपि देहं दग्ध्वा भस्मीकर्तुं न शक्नुवन्ति । यथा दमयन्त्याः शापबलेन व्याधः अग्निं विना दग्ध्वा भस्मीभूतः अभवत्, तथा देहिना सह असम्भवम् । 'अक्लेद्यः' – देही अयम् अक्लेद्यः अर्थात् तस्मिन् क्लेदनपात्रता नास्ति । यथा श्रूयते यद् 'मालकोश'रागस्य प्रभावाद् शिला अपि द्रवीभवति, चन्द्रमसं दृष्ट्वा चन्द्रकान्तमणिः आर्द्रीभवति इति । परन्तु सः आत्मा रागादिभ्यः, जलाद् वा स्निग्धः न भवति । 'अशोष्यः' – देही अशोष्यः भवति अर्थात् वायुना तस्य शोषणं न शक्यते । यथा अगस्त्यर्षिः समुद्रम् अशोषयत् इति शृण्मः, तथा अत्र आत्मना सह न भवति । 'एव च' – अर्जुनः आप्तजननाशभयाद् शोकमग्नः आसीत् । अतः 'एव च' इत्यस्य पदस्य शरीरिणः अच्छेद्यताम्, अदाह्यताम्, अक्लेद्यताम्, अशोष्यतां च उपस्थाप्य उपयोगं भगवान् करोति । क्रियाप्रवेशाभाद् स शरीरी शोकयोग्यः न इत्येव तात्पर्यम् ।

'नित्यः' – एषः देही नित्यनिरन्तरं भवति । कदाचिदपि सः नासीत्, कदाचिच्च न भविष्यति इति नास्ति । परन्तु सः सर्वदापि यथास्थितिः भवति । संसारोऽयम् अनित्यः । सः क्षणं यवाद्पि स्थिरं न तिष्ठति । परन्तु यस्मिन् किञ्चिन्मात्रम् अपि परिवर्तनं भवति तं सर्वदा विद्यमानं देहिनं प्रति लक्षयितुम् अत्र 'नित्यः' इत्यस्य प्रयोगः । 'सर्वगतः' – एषः देही सर्वदा यथा आसीत्, तथैव तिष्ठति । तर्हि सः कस्मिंश्चित् स्थले निवसति खलु ? उत्तरम् अस्ति यत्, एषः देही स्थलं, व्यक्तिः, शरीरम् इत्यादिषु सर्वत्र समानरूपेण विद्यमानः वर्तते इति । दृश्ये, श्रव्ये, पठने, अवगमने च यत्किमपि प्राकृतिकं वस्तु अस्ति, तत्र सर्वत्र यत्परिपूर्णं तत्त्वम् अस्ति, तल्लक्षयितुं 'सर्वगतः' इत्यस्य पदस्योपयोगः । 'अचलः' – यदि एषः सर्वगतः अस्ति, तर्हि कस्माच्चन स्थानात् आगच्छति वा ? तर्हि कथयति देही स्थिरस्वभावी अस्ति इति । अर्थात्, कदाचिद् अत्र, कदाचित्तत्र इति तस्मिन् क्रिया नास्ति । संसारे वस्तु-व्यक्ति-पदार्थादयः सर्वेऽपि चलायमानाः । तेषु वस्तु-व्यक्ति-पदार्थादिषु यः स्वरूपाद् कदापि चलायमानः (विचलितः) न भवति, तं देहिनम् अभिलक्षयितुम् 'अचलः' इत्यस्य प्रयोगः ।

'स्थाणुः' – सः देही नित्यः, सर्वगतः, अचलश्च इति वरम् । परन्तु यथा वृक्षे भवति, तथा तस्मिन् देहिनि कम्पनं तु भवेदेव खलु ? चेदुक्तं स्थाणुः इति । अर्थात् तस्मिन् कम्पनक्रियायाः अपि अभावः अस्ति इति । प्रकृत्या, प्रकृत्याः कार्यैः च संसारे प्रत्येकस्मिन् क्षणे क्रियाफलतवेन परिवर्तनं भवति । एवं परिवर्तनशीले संसारे यः क्रियारहितः, परिवर्तनरहितः, स्थायिस्वभावी च तिष्ठति, तं प्रति लक्षयितुम् अत्र 'स्थाणुः' इति पदम् । 'सनातनः' – देहिनः नित्यादि तु वरं परन्तु तस्य जन्म तु कदाचित् जातं स्याद् ? इति प्रश्ने सति उत्तरम् अस्ति यद्, सः अनादिकालाद् सर्वदा अस्ति । सः कस्मिंश्चित् समये नासीत्, कस्मिंश्चित् समये न भविष्यति इति नास्ति । अतः सः सनातनः इति । सर्वेऽपि प्राकृतिकपदार्थाः अन्तारम्भयुक्ताः । ते पूर्वं नासन्, पश्चाच्च न भविष्यन्ति । परन्तु यः न तु उत्पद्यते, न च नश्यति, यः पूर्वम् अपि आसीत्, पश्चाच्च भविष्यति, तं देहिनम् अभिलक्षयितुं 'सनातनः' इति । उपर्युक्तेषु पञ्चविशेषणेषु मुख्यतात्पर्यम् अस्ति यत्, शरीरेण सह तादात्म्ये सत्यपि अर्थात् शरीरिशरीरिणोः विवेकाभावे सत्यपि शरीरी सर्वदा एकरूपः भवति इति ।

शाङ्करभाष्यम् [१]संपादित करें

यस्मात् अन्योन्यनाशहेतुभूतानि एनमात्मानं नाशयितुं नोत्सहन्ते अस्यादीनि तस्मात् नित्यः। नित्यत्वात् सर्वगतः। सर्वगतत्वात् स्थाणुः इव स्थिर इत्येतत्। स्थिरत्वात् अचलः अयम् आत्मा। अतः सनातनः चिरंतनः न कारणात्कुतश्चित् निष्पन्नः अभिनव इत्यर्थः।।

नैतेषां श्लोकानां पौनरुक्त्यं चोदनीयम् यतः एकेनैव श्लोकेन आत्मनः नित्यत्वमविक्रियत्वं चोक्तम् न जायते म्रियते वा इत्यादिना। तत्र यदेव आत्मविषयं किञ्चिदुच्यते तत् एतस्मात् श्लोकार्थात् न अतिरिच्यते किञ्चिच्छब्दतः पुनरुक्तम् किञ्चिदर्थतः इति। दुबोर्धत्वात् आत्मवस्तुनः पुनः पुनः प्रसङ्गमापाद्य शब्दान्तरेण तदेव वस्तु निरूपयति भगवान् वासुदेवः कथं नु नाम संसारिणामसंसारित्वबुद्धिगोचरतामापन्नं सत् अव्यक्तं तत्त्वं संसारनिवृत्तये स्यात् इति।।

भाष्यार्थःसंपादित करें

एवम् अस्ति, तस्माद् कारणात् –

एषः आत्मा न छेद्यः, दाह्यः, क्लेद्यः, शोष्यः च अस्ति । परस्परं नाशात्मकानि पञ्चभूतानि आत्मनः नाशं कर्तुं न शक्नुवन्ति । अतः सः नित्यः अस्ति । नित्यत्वाद् सः आत्मा सर्वगतः अस्ति । सर्वव्यापित्वाद् सः स्थाणुः अस्ति । अर्थाद् स्थिरः । स्थिरत्वाद् सः आत्मा अचलः अस्ति । अचलत्वादेव सः आत्मा सनातनः अर्थाद् केनापि कारणेन नूतनतया नोद्भूतः अस्ति, सः पुरातनः एवास्ति इति । एतेषु श्लोकेषु पुनरुक्तेः आरोपणं न करणीयम् । किञ्च 'न जायते म्रियते वा' इत्यनेन श्लोकेन एव आत्मनः नित्यतायाः, निर्विकारितायाः उपस्थापनम् अभवत् । पुनः आत्मनः विषये यत्किमपि उक्तं तत् एतस्मात् श्लोकाद् अतिरिक्तं नास्ति । कुत्रचिद् शब्दैः पुनरुक्तिः अस्ति, कुत्रचिद् अर्थैः । परन्तु आत्मत्त्वम् अतीव दुर्बोधम् अस्ति । अतः पौनःपुन्येन प्रसङ्गम् उपस्थाप्य शब्दान्तरैः भगवान् वासुदेवः तस्य तत्त्वस्य निरूपणं करोति । तद् अव्यक्तं तत्त्वं येन केन प्रकारेण संसारिणः पुरुषस्य बुद्धिगोचरं भवेद्, येन तस्य संसारनिवृत्तेः कारणं भवेत् ।

रामानुजभाष्यम्संपादित करें

शस्त्राग्न्यम्बुवायवः छेदनदहनक्लेदनशोषणानि आत्मानं प्रति कर्तुं न शक्नुवन्ति। सर्वगतत्वाद् आत्मनः सर्वतत्त्वव्यापकस्वभावतया सर्वेभ्यः तत्त्वेभ्यः सूक्ष्मत्वात् अस्य तैः व्याप्त्यनर्हत्वाद् व्याप्यकर्तव्यत्वात् च छेदनदहनक्लेदनशोषणानाम्। अत आत्मा नित्यः स्थाणुः अचलः अयं सनातनः स्थिरस्वभावः अप्रकम्प्यः पुरातनः च।

भाष्यार्थःसंपादित करें

शस्त्राग्निजलवायवः तम् आत्मानं छेदन-दहन-क्लेदन-शोषणानि कर्तुं न प्रभवन्ति । किञ्च आत्मा सर्वव्यापी अस्ति । एवं सर्वेषु तत्त्वेषु व्यापकतया विद्यमानत्वाद् सः आत्मा सर्वेभ्यः तत्त्वेभ्यः सूक्ष्मः अस्ति । उक्तानि तत्त्वानि तम् आत्मानं व्याप्तुं शक्नुवन्ति । छेदनं, दहनं, क्लेदनं, शोषणं च तस्माद् आत्मनि व्याप्ते सत्येव कर्तुं प्रभवन्ति । अत एव एषः आत्मा नित्यः, स्थाणुः, अचलः, सनातनः च अर्थाद् स्थिरस्वभावी, पुरातनः च अस्ति ।


श्रीमद्भगवद्गीतायाः श्लोकाः
  पूर्वतनः
नैनं छिन्दन्ति शस्त्राणि...
अच्छेद्योऽयमदाह्योऽयम्... अग्रिमः
अव्यक्तोऽयमचिन्त्योऽयम्...
 
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाःसंपादित करें

बाह्यसम्पर्कतन्तुःसंपादित करें

उद्धरणम्संपादित करें

  1. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6

अधिकवाचनायसंपादित करें