तं तथा कृपयाविष्टम्...
तं तथा कृपयाविष्टम् ( ( शृणु)) इत्यनेन श्लोकेन सञ्जयः धृतराष्ट्रं रणाङ्गणे कृष्णार्जुनयोः संवादं श्रावयति । पूर्वस्मिन् श्लोके (अर्जुनविषादयोगः) अर्जुनः परिवारस्य जनान् मारयितुं नेच्छामि इत्युक्त्वा गाण्डिवं त्यक्त्वा रथस्य पृष्ठभागे उपाविशत् । ततः मधुसूदनः श्रीकृष्णः विषादमग्नम् अर्जुनं यत्किमपि कथयति, तत् सञ्जयः अत्र धृतराष्ट्रं श्रावयन् अस्ति । श्लोकं तु सञ्जयः वदति परन्तु सः कथयति यत्, "श्रीकृष्णः अर्जुनं वदति यत्" इति । अतः द्वितीयश्लोकात् श्रीकृष्णार्जुनयोः संवादः आरभते । अत्र सञ्जयः कथयति यत्, एतादृशेन विशादेन ग्रस्तः सः अर्जुनः विलपन् अस्ति । विलपरेतोः अश्रुपूर्णयोः नेत्रयोः दर्शनशक्तिः अपि अवरुद्धा अस्ति । तम् अर्जुनं प्रति भगवान् मधुसूदनः एवम् अवदत् इति ।
तं तथा कृपयाविष्टम्... अर्जुनकृष्णयोः संवादस्य आरम्भः | |
---|---|
श्लोकसङ्ख्या | २/१ |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | एवमुक्त्वार्जुनः सङ्ख्ये... |
अग्रिमश्लोकः | कुतस्त्वा कश्मलमिदं... |
श्लोकः
सम्पादयतुसञ्जय उवाच
- तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् ।
- विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ १ ॥
पदच्छेदः
सम्पादयतुतम्, तथा, कृपया, आविष्टम्, अश्रुपूर्णाकुलेक्षणम् । विषीदन्तम्, इदम्, वाक्यम्, उवाच, मधुसूदनः ॥
अन्वयः
सम्पादयतुमधुसूदनः तथा कृपया आविष्टम् अश्रुपूर्णाकुलेक्षणं विषीदन्तं तम् इदं वाक्यम् उवाच ।
शब्दार्थः
सम्पादयतुअन्वयः | विवरणम् | सरलसंस्कृतम् |
मधुसूदनः | अ.पुं.प्र.एक. | श्रीकृष्णः |
तथा | अव्ययम् | तेन प्रकारेण |
कृपया | आ.स्त्री.तृ.एक. | दयया |
आविष्टम् | अ.नपुं.द्वि.एक. | आक्रान्तम् |
अश्रुपूर्णाकुलेक्षणम् | अ.नपुं.द्वि.एक. | बाष्पपूर्णनेत्रम् |
विषीदन्तम् | विषीदत्-त.पुं.द्वि.एक. | दुःखितम् |
तम् | तद्-द.सर्व.पुं.द्वि.एक. | तम् (अर्जुनम् ) |
इदम् | इदम्-म.सर्व.नपुं.द्वि.एक. | एतत् |
वाक्यम् | अ.नपुं.द्वि.एक. | वचनम् |
उवाच | √वच् परिभाषणे-पर.कर्मणि, लिट्.प्रपु.एक. | अवदत् । |
व्याकरणम्
सम्पादयतुसन्धिः
सम्पादयतु- कृपयाविष्टम् = कृपया + आविष्टम् - सवर्णदीर्घसन्धिः
समासः
सम्पादयतु- अश्रुपूर्णाकुलेक्षणम् = अश्रुभिः पूर्णे अश्रुपूर्णे – तृतीयातत्पुरुषः ।
- अश्रुपूर्णे च आकुले च = अश्रुपूर्णाकुले – कर्मधारयः ।
कृदन्तः
सम्पादयतु- विषीदन्तम् = वि + सद् + शतृ (कर्तरि) तम् ।
- आविष्टम् = आ + विश् + क्त (कर्तरि) तम् ।
- मधुसूदनः = मधुं (तन्नामकं) दैत्यं सूदयति इति मधुसूदनः[१] ।
- मधु + सूद् + णिच् (स्वार्थे) + ल्यु (अन)
अर्थः
सम्पादयतुभगवान् श्रीकृष्णः अर्जुनस्य शोचनीयाम् अवस्थां दृष्टवान् । ततः दयया आक्रान्तं शोकं च अनुभवन्तं तं सः एवम् उक्तवान् ।
'तं तथा कृपयाविष्टम्' – अर्जुनः रथे सारथित्वेन स्थितं श्रीकृष्णम् आज्ञापयति यत्, "हे अच्युत ! रथं मे उभयोः सेनयोः मध्ये स्थापय, येनाहं विरोधपक्षस्य के योद्धारः मया सह योत्स्यन्ति इति द्रष्टुं शक्नोमि" इति । अर्थात् मत्सदृशेन शूरवीरेण सह के योद्धुं साहसं कुर्वन्तः सन्ति ? स्वकालं (मां) सम्मुखं दृष्ट्वापि के योद्धुं तत्पराः सन्ति ? एतादृशेन उत्साहेन परिपूर्णः अर्जुनः स्वपरिवारस्य जनानां मृत्योः आशङ्कायां मोहग्रसितः अभवत् । मोहग्रसितस्य शोकातुरस्य तस्य शरीरं दुर्बलम् अभवत्, तस्य मुखं शुष्कं जातं, शरीरे कम्पनम् उद्भूतं, हस्तात् धनुः अस्रंसत च । अत्र "न दैन्यं न पलायनम्" इति स्वभावयुक्तः अर्जुनः कापुरुषत्वं प्रदर्श्य व्याकुलतया सह रथस्य पृष्ठभागे अवस्थितः इति आश्चर्यभावः सञ्जयेन बहुधा रक्षितः ।
पूर्वमपि अर्जुनस्य भावान् प्रत्यक्षीकुर्वन् सञ्जयः अर्जुनस्य कृते "कृपया परयाविष्ट" इत्यस्य पदस्य उपयोगम् अकरोत् । अत्र "अश्रूपूर्णकुलेक्षणम्" इत्यनेन पदेन महतः शूरवीरस्य अर्जुनस्य मनसि अपि कौटुम्बिकः मोहः समुद्भूतः इति प्रदर्शितम् । सः मोहः अपि सामान्यः न । तेन मोहेन ग्रस्तस्य तस्य शूरवीरस्य नेत्रयोः अश्रूणि निर्गतानि । अश्रूपूर्णनेत्राभ्यां सः किमपि स्पष्टतया द्रष्टुम् असमर्थः अभवत् ।
"विषीदन्तमिदं वाक्यमुवाच मधुसूदनः" – एवं कापुरुषतायाः कारणेन शोकमग्नम् अर्जुनं मधुसूदनः एतादृशानि वचनानि अकथयत् । अत्र "विषीदन्तमुवाच" इत्युक्ते एव "इदं वाक्यम्" इत्यस्यार्थः अन्तर्भवति । यतः "उवाच" इत्यनेन क्रियापदेन एव "वाक्यम्" इत्यस्य अवबोधः जायते एव । तर्हि अत्र "वाक्यम्" इत्यस्य पदस्य भिन्नतया उपयोगस्य किं प्रयोजनम् ? अस्य प्रश्नस्य उत्तरमस्ति यत्, भगवतः वचनानि अद्भुतानि सन्ति । अर्जुनस्य मनसि धर्मस्य आवरणं धृत्वैव कर्तव्यत्यागरूपी दोषः समुद्भूतः अस्ति । तस्मिन् दोषे भगवतः एतानि वचनानि साक्षादाघातं करिष्यन्ति । भगवतः वचनानि अर्जुनस्य मनसि स्वदोषस्य अनुभूतिं कारयित्वा स्वकल्याणस्य जिज्ञासाम् उद्भावयिष्यन्ति । भगवतः गभीरवचनानि श्रुत्वैव अग्रे अर्जुनः शिष्यत्वेन श्रीकृष्णस्य सान्निध्यं स्वीकरोति [३] ।
सञ्जयः अस्मिन् श्लोके श्रीकृष्णस्य कृते "मधुसूदनः" इति पदम् उपायुङ्क्त । तस्य तात्पर्यम् अस्ति यत्, भगवान् श्रीकृष्णः "मधु"-आख्यस्य राक्षसस्य हन्ता अस्ति । अर्थात् दुष्टस्वभावयुक्तानां संहारकः अस्ति । अतः सः दुष्टस्वभावयुक्तानां दुर्योधनादीनां नाशं कारयिष्यति एव इति ततात्पर्यम् ।
विशेषशब्दज्ञानम्
सम्पादयतु1) अश्रूपूर्णाकूलेक्षणम् - अश्रुभिः पूर्णे नेत्रे स्तः, ते नेत्रे यतः अश्रूभिः पूर्णे स्तः, अतः आकुले अपि स्तः।
2) विषीदन्तम् - Sorrowing, despairing दुःखपूर्णम्, आशाहीनम्
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये तं तथा कृपयाविष्टम्... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्
सम्पादयतुअधिकवाचनाय
सम्पादयतु- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च