वासांसि जीर्णानि यथा विहाय...

भगवद्गीतायाः श्लोकः २.२२

वासांसि जीर्णानि यथा विहाय () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः देहिनः शरीरान्तप्राप्तेः तत्त्वज्ञानं कथयति । पूर्वस्मिन् श्लोके भगवान् देहिनः निर्विकारिताम् उपस्थाप्य अत्र तस्य देहिनः देहान्तरप्राप्तेः विषये मनुष्याणां वस्त्रपरिवर्तनस्य उदाहरणेन बोधयति । सः कथयति यत्, मनुष्यः यथा जीर्णानि वस्त्राणि त्यक्त्वा नवीनानि वस्त्राणि धरते, तथैव देही पुरातनं जीर्णं शरीरं त्यक्त्वा अपरं नवीनं शरीरं धरते अर्थात् अपरे शरीरे निवासाय गच्छति इति ।

वासांसि जीर्णानि यथा विहाय...


देहिनः शरीरान्तप्राप्तेः तत्त्वज्ञानं
Avatars of Vishnu.jpg
श्लोकसङ्ख्या २/२२
श्लोकच्छन्दः उपजातिच्छन्दः
पूर्वश्लोकः वेदाविनाशिनं नित्यं...
अग्रिमश्लोकः नैनं छिन्दन्ति शस्त्राणि...

श्लोकःसंपादित करें

 
गीतोपदेशः
वासांसि जीर्णानि यथा विहाय नवानि गृण्हाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥ २२ ॥

पदच्छेदःसंपादित करें

वासांसि, जीर्णानि, यथा, विहाय, नवानि, गृण्हाति, नरः, अपराणि । तथा, शरीराणि, विहाय, जीर्णानि, अन्यानि, संयाति, नवानि, देही ॥

अन्वयःसंपादित करें

नरः जीर्णानि वासांसि विहाय अपराणि नवानि यथा गृण्हाति तथा देही जीर्णानि शरीराणि विहाय अन्यानि नवानि संयाति ।

शब्दार्थःसंपादित करें

अन्वयः विवरणम् सरलसंस्कृतम्
नरः अ.पुं.प्र.एक. मानवः
जीर्णानि अ.नपुं.द्वि.बहु. शिथिलानि
वासांसि वासस्-स.नपुं.द्वि.बहु. वस्त्राणि
विहाय ल्यबन्तम् अव्ययम् त्यक्त्वा
अपराणि अ.नपुं.द्वि.बहु. इतराणि
नवानि अ.नपुं.द्वि.बहु. नूतनानि
यथा अव्ययम् येन प्रकारेण
गृह्णाति √ग्रह ग्रहणे-पर.कर्तरि, लट्.प्रपु.एक. धरति
तथा अव्ययम् तेन प्रकारेण
देही देहिन्-न.पुं.प्र.एक. आत्मा
जीर्णानि अ.नपुं.द्वि.बहु. शिथिलानि
शरीराणि अ.नपुं.द्वि.बहु. वपूंषि
विहाय अव्ययम् विसृज्य
अन्यानि अ.नपुं.द्वि.बहु. इतराणि
नवानि अ.नपुं.द्वि.बहु. नवीनानि
संयाति सम्+या प्रापणे-पर.कर्तरि, लट्.प्रपु.एक. प्राप्नोति ।

व्याकरणम्संपादित करें

सन्धिःसंपादित करें

  1. नरोऽपराणि = नरः + अपराणि – विसर्गसन्धिः (सकारः), रेफः, उकारः, गुणः, पूर्वरूपं च
  2. जीर्णान्यन्यानि = जीर्णानि + अन्यानि - यण्सन्धिः

कृदन्तःसंपादित करें

  1. जीर्णानि = जॄ + क्त (कर्तरि)
  2. विहाय = वि + हा + ल्यप्

अर्थःसंपादित करें

मनुष्यः वस्त्राणि धरति । परन्तु सः सर्वदा समानमेव वस्त्रं न धरति । धृतानि वस्त्राणि यदा जीर्णानि भवन्ति तदा तानि विहाय नूतनानि अन्यानि वस्त्राणि धरति । एवम् आत्मा अपि जीर्णानि शरीराणि परित्यज्य अभिनवानि अन्यानि शरीराणि आश्रयते ।

भावार्थः [१]संपादित करें

'वासांसि जीर्णानि...संयाति नवानि देही' – अग्रे भगवान् उक्तवान् यत्, देहान्तरप्राप्तिविषये धीरः पुरुषः शोकं न करोति इति [२] । अत्र उदाहरणं दत्त्वा तं विषयमेव स्पष्टयति । अत्र भगवान् कथयति यत्, यथा जीर्णवस्त्राणि परिवर्तनकाले यथा मनुष्यः शोकं न करोति, तथैव देहिनः शरीरपरिवर्तनेऽपि शोकः न करणीयः इति । वस्त्राणि केवलं मनुष्यः एव परिवर्तयति, न तु पश्वादयः । अत एवात्र 'नरः' इत्यस्य पदस्य उपयोगः । 'नरः' इत्येतद् पदं मनुष्ययोनिवाचकत्वाद् तत्र स्त्री, पुरुषः, युवकः, युवती, बालकः, वृद्धः इत्यादीनां सर्वेषां समावेशः भवति ।

यथा मनुष्यः पुरातनवस्त्राणि त्यक्त्वा अपराणि नवीनानि वस्त्राणि धरते, तथैव देही जीर्णं शरीरं त्यक्त्वा नवीनं शरीरं धरते । पुरातनशरीरस्य त्यागः 'मृत्युः', नवीनशरीरस्य प्राप्तिश्च 'जन्म' इति । यावता देहिनः प्रकृत्या सह सम्बन्धः भवति, तावता देही पुरातनं शरीरं त्यक्त्वा कर्मानुसारम् उत अन्तकालस्य चिन्तनानुसारं नवीनानि शरीराणि प्राप्नुवन् अटति । अत्र 'शरीराणि' इत्यस्य पदस्य बहुवचनोपयोगस्य तात्पर्यम् अस्ति यत्, यावता शरीरी स्वस्य वास्तविकस्वरूपस्य यथार्थं न जानाति, तावता सः शरीरी अनन्तकालं यावद् शरीराणि धारयन् भवति । अद्य पर्यन्तं तेन शरीरिणा कति शरीराणि धृतानि इत्यस्य गणना नास्ति । एनं विषयं लक्ष्यीकृत्य 'शरीराणि' इत्यस्य बहुचनस्य प्रयोगः । सर्वेषां ध्यानम् आकृष्टुं 'देही' इत्यस्य पदस्य उपयोगः ।

एतस्य श्लोकस्य पूर्वार्धे जीर्णवस्त्राणाम्, उत्तरार्धे च जीर्णशरीराणां चर्चा अस्ति । जीर्णवस्त्राणाम् उदाहरणं जीर्णशरीरेषु कथम् उपयुक्तं भवति ? यतो हि शरीराणि बालकानां, वृद्धानां चापि म्रियन्ते । केवलं वृद्धानां जीर्णशरीराणि म्रियन्ते इति तु नास्ति खलु ! इति प्रश्ने उद्भूते उत्तरं भवति यत्, शरीरं तु आयुष्ये पूर्णे सत्येव म्रियते । तच्च शरीरं बालस्य स्याद् उत वृद्धस्य । आयुष्ये पूर्णे सति सर्वाणि शरीराणि जीर्णानि एव अङ्गीक्रियन्ते । तात्त्विकदृष्ट्या पश्यामः चेत्, आयुष्यं तु प्रत्येकक्षणं पूर्णताङ्गच्छति । अर्थात् शरीरं प्रतिक्षणं जीर्णं भवदस्ति इति । शरीरस्य मृत्युः प्रतिक्षणं भवति, तन्न क्षणं यावद् स्थिरं तिष्ठति । यथा युवि सति बाल्यं म्रियते, तथैव बाल्यम् अपि निरन्तरं म्रियमाणं भवति । परन्तु तस्मिन् सूक्ष्मपरिवर्तने ध्यानाभावाद् प्रतिक्षणस्य मृत्योः ज्ञानं न भवति । सैव मूर्छा इति ।

एतस्मिन् श्लोके 'यथा', 'तथा' इत्येतयोः पदयोः उपयोगं कृत्वा भगवान् कथयति यत्, मनुष्यः जीर्णानि वस्त्राणि त्यक्त्वा नवीनानि वस्त्राणि धरते, तथैव एतस्य जीर्णस्य शरीरस्य त्यागं कृत्वा शरीरी नवीनं शरीरं गच्छति । अत्र शङ्का भवति यत्, यथा कौमारयौवनवार्धक्यानि स्वतः भवन्ति, तथैव देहान्तरप्राप्तिः स्वतः भवति [३] इति । अत्र तु 'यथा', 'तथा' इत्येतयोः उपयोगः औचित्यं वहति । एतस्मिन् श्लोके जीर्णवस्त्राणां त्यागे, नवीनवस्त्राणां धारणे च मनुष्यस्य स्वतन्त्रता अस्ति । परन्तु जीर्णदेहस्य त्यागोत्तरं नवीनदेहस्य स्वीकारे देहिनः स्वतन्त्रता नास्ति । एवम् अत्र 'यथा', 'तथा' इत्येतयोः पदयोः औचित्यं कथम् ? एतस्य समाधानम् अस्ति यत्, अत्र भगवतः उदाहरणोपस्थापनस्य आशयः स्वतन्त्रतायाः उत परतन्त्रतायाः परिप्रेक्ष्ये नास्ति, अपि तु वियोगे सति उद्भूतस्य शोकस्य अपाकरणार्थे अस्ति । यथा जीर्णवस्त्राणि त्यक्त्वा नवीनवस्त्रे धृते मनुष्यः पूर्ववद् भवति, तथैव पुरातनशरीराणां त्यागे सत्यपि देही पूर्ववद् भवति । एवं शोकः न करणीयः इति वक्तुम् एषः श्लोकः अस्ति ।

अपरा शङ्का अस्ति यत्, पुरातनवस्त्राणां त्यागे, नवीनवस्त्राणां धारणे च सुखं भवति । परन्तु जीर्णशरीरस्य त्यागोत्तरं नवीनशरीरस्य धारणे दुःखं भवति । अत्र 'यथा', 'तथा' इत्येतयोः पदयोः औचित्यं कथं सिद्ध्यति ? एतस्य निराकरणम् अस्ति यत्, मृते शरीरे यद्दुःखं भवति, तन्मरणेन न भवति, अपि तु जीवनेच्छात्वाद् भवति इति । 'अहं जीवेम' इति जिजीविषा अन्तःकरणे भवति, परन्तु मृत्युः तु यथाकालं भवत्येव । तस्मिन् काले दुःखम् अनुभूयते । तात्पर्यम् अस्ति यत्, यदा मनुष्यः शरीरेण सह ऐकात्म्यं साधयति, तदा शरीरे मृते स्वयं मरिष्यति इति मत्वा दुःखी भवति । परन्तु यः मनुष्यः शरीरेण सह स्वस्य ऐकात्म्यं न स्वीकरोति, सः मृत्यौ प्राप्ते दुःखी न भवति । प्रत्युत सः वस्त्रपरिवर्तनस्य आनन्दम् अनुभवति । यदि मनुष्यः वस्त्रैः सह स्वस्य एकात्मतां न अङ्गीकरोति, तर्हि वस्त्रपरिवर्तनावसरे सः दुःखी न भवति । यतो हि तस्य मनसि वस्त्रभिन्नतायाः विवेकः स्पष्टः अस्ति । परन्तु लघोः बालकस्य स्थितिः भिन्ना भवति । सः तु जीर्णवस्त्रपरिवर्तनोत्तरं नवीनवस्त्रधारणेऽपि रोदिति । तस्य तद्दुःखं मौढ्यत्वाद् अज्ञानत्वादेव । तस्य मौढ्यस्य नाशाय एव भगवान् अत्र 'यथा', 'तथा' इत्येतयोः पदयोः उपयोगं कुर्वन् वस्त्रस्य दृष्टान्तम् अयच्छत् ।

अत्र भगवता वस्त्रधारणे 'गृह्णाति' (धारयति) इत्यस्याः क्रियायाः उपयोगः कृतः । परन्तु शरीरधारणे 'संयाति' (गच्छति) इत्यस्याः क्रियायाः उपयोगः कृतः । एवं किमर्थम् ? इत्यस्य उत्तरम् अस्ति यत्, लौकिकदृष्ट्याः कारणे यः भ्रमः अस्ति, तस्य फलस्वरूपम् एव प्रतीयते । यतो हि मनुष्यः स्वस्य स्थाने भूत्वा वस्त्राणि धरते, देहान्तरप्राप्त्यै तु देही तं शरीरं त्यक्त्वा गच्छति । एतस्याः लौकिकदृष्ट्याः कारणेन क्रियाभेदः दृश्यते ।

मर्मःसंपादित करें

'येन सर्वमिदं ततम्', 'नित्यः सर्वगतः स्थाणुः' इत्यादिभिः गीताशास्त्रे देही नित्यः, सर्वव्याप्तः, सर्वगतः, स्थिरस्वभावी च उक्तः । 'संयाति नवानि देही', 'शरीरं यदवाप्नोति' इत्यादिभिः देहिनः देहान्तरप्राप्तिः अपि उक्ता । अत्र शङ्का भवति यत्, यः सर्वत्र व्याप्तः अस्ति, तस्य गमनागमनक्रिया कथम् ? यतो हि यः यस्मिन् स्थले नास्ति, सः तत् स्थलं गच्छति एवं भूते सत्येव 'गमनम्' इति उच्यते । तथैव यः यस्मिन् स्थले नास्ति, सः तं स्थलम् आगच्छति एवं भूते सत्येव 'आगमनम्' इति उच्यते । परन्तु देहिनः विषये उक्ते वाक्ये अनुचिते इति । एतस्याः शङ्कायाः समाधानम् अस्ति यत्, यथा कोऽपि बाल्याद् यौवनं प्रति गच्छति, तदा सः कथयति यद्, 'अहं युवा अभवम्' इति । परन्तु वस्तुतः सः युवा न भवति, अपि तु शरीरं युवा भवति । एवं बाल्यकाले यः आसीत्, स एव युवावस्थायां भवति । परन्तु शरीरेण सह तादात्म्ये साधिते शरीरस्य परिवर्तने स्वस्मिन् परिवर्तनम् आरोपयति । एवम् आगमनगमनं वास्तव्ये शरीरधर्मः, परन्तु शरीरेण तादात्म्ये साधिते स्वस्य गमनागमनं मन्यते । अतः वास्तव्येन देही तु न कुत्रापि गच्छति, केवलं शरीरस्य तादात्म्यात् तस्य गमनागमनं प्रतीयते ।

ततः प्रश्नः उद्भवति यत्, अनादिकालाद् यद् जन्ममृत्य्वोः चक्रं चलति, तस्य कारणं किम् ? कर्मदृष्ट्या तु कर्मफलोपभोगाय एव जन्ममरणे भवतः । ज्ञानिनः दृष्ट्या अज्ञानत्वाद् जन्ममरणे भवतः । भक्तिदृष्ट्या भगवतः वैमुख्यं जन्ममरणयोः कारणम् । एतेषु त्रिषु मुख्यकारणम् अस्ति यत्, भगवता जीवाय या स्वतन्त्रता प्रदत्ता, तस्याः दुरुपयोगत्वादेव जन्ममरणे भवतः इति । तर्हि जन्ममरणयोः चक्राद् विमुक्तिः कथम् ? चेत्, प्राप्तस्वतन्त्रतायाः सदुपयोगेन जन्ममरणयोः चक्राद् मुक्तिः शक्यते । तात्पर्यम् अस्ति यत्, स्वार्थपूर्त्यै कर्माणि कृते सति जन्ममरणे भवतः । अतः स्वार्थत्यागं कृत्वा अपरस्य हिताय कर्माणि कृते सति जन्ममरणयोः न भवति इति । स्वज्ञानस्य अनादरेण जन्ममरणे भवतः, अतः स्वज्ञानस्य आदरं कृत्वा जन्ममरणोः नाशः शक्यः । स्वज्ञानस्य अनादरम् इत्युक्ते वयं यद् जानीमः, तदनुगुणं कार्यं न करणीयम् । यद्यपि सत्यं वक्तव्यम्, असत्यभाषणम् अयोग्यम् इत्येतयोः ज्ञानं भवति, तथापि स्वार्थवशेन असत्यभाषणं करोति । एतद् स्वज्ञानस्य अनादरः उच्यते । भगवतः वैमुख्यं जन्ममरणचक्रम् अरचयत् । तर्हि भगवति रतिः एव जन्ममरणचक्रं नाशयिष्यति ।

शाङ्करभाष्यम् [४]संपादित करें

प्रकृतं तु वक्ष्यामः। तत्र आत्मनः अविनाशित्वं प्रतिज्ञातम् । तत्किमिवेति उच्यते -

वासांसि वस्त्राणि जीर्णानि दुर्बलतां गतानि यथा लोके विहाय परित्यज्य नवानि अभिनवानि गृह्णाति उपादत्ते नरः पुरुषः अपराणि अन्यानि तथा तद्वदेव शरीराणि विहाय जीर्णानि अन्यानि संयाति संगच्छति नवानि देही आत्मा पुरुषवत् अविक्रिय एवेत्यर्थः।।

भाष्यार्थःसंपादित करें

इतःपरं वयं प्रकृतविषयं वक्ष्यामः । एतस्मिन् प्रकरणे आत्मनः अविनाशित्वस्य प्रतिज्ञा अभवत्, सा कीदृशी अस्ति ? इति कथयति –

यथा जगति मनुष्यः जीर्णवस्त्राणि त्यक्त्वा नवीनानि वस्त्राणि धरते, तथैव जीवात्मा जीर्णं शरीरं त्यक्त्वा नवीनं शरीरं प्राप्नोति । अभिप्रायः अस्ति यत्, जीर्णवस्त्राणि त्यक्त्वा नवीनवस्त्रधारी पुरुषवद् जीवात्मा सर्वदा निर्विकारी भवति इति ।

रामानुजभाष्यम्संपादित करें

यद्यपि नित्यानाम् आत्मनां शरीरविश्लेषमात्रं क्रियते तथापि रमणीयभोगसाधनेषु शरीरेषु नश्यत्सु तद्वियोगरूपं शोकनिमित्तिम् अस्ति एव इति अत आह।

धर्मयुद्धे शरीरं त्यजतां त्यक्तशरीराद् अधिकतरकल्याणशरीरग्रहणं शास्त्राद् अवगम्यते इति।  जीर्णानि वासांसि विहाय नवानि  कल्याणानि वासांसि गृह्णताम् इव हर्षनिमित्तिम् एव अत्र उपलभ्यते।

भाष्यार्थःसंपादित करें

यद्यपि नित्यानां देहिनां शरीरेभ्यः केवलं वियोगः भवति, तथापि रमणीयभागस्य साधनशरीरस्य नाशे सति तस्माद् शरीराद् वियोगरूपिणः शोकस्य कारणं तु प्रत्यक्षमेवास्ति । एतस्मिन् विषये वदति यत् -

धर्मयुद्धे शरीरत्यागी शरीरापेक्षया (विविधभोगयुक्तस्य नृपशरीरस्य अपेक्षया इत्यर्थः) अधिकतरं कल्याणमयं शरीरं (दिव्यशरीरम्) प्राप्नोति इति शास्त्रेषु लिखितम् अस्ति । अत एव पुरातनवस्त्राणि त्यक्त्वा नवीनवस्त्रधारकवद् एतद् शरीरपरिवर्तनं तु हर्षनिमित्तम् एव प्रतीयते ।


श्रीमद्भगवद्गीतायाः श्लोकाः
  पूर्वतनः
वेदाविनाशिनं नित्यं...
वासांसि जीर्णानि यथा विहाय... अग्रिमः
नैनं छिन्दन्ति शस्त्राणि...
 
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाःसंपादित करें

बाह्यसम्पर्कतन्तुःसंपादित करें

उद्धरणम्संपादित करें

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. गीता, अ. २, श्लो. १३
  3. गीता, अ. २, श्लो. १३
  4. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6

अधिकवाचनायसंपादित करें