वेदाविनाशिनं नित्यं...
वेदाविनाशिनं नित्यम् ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः आत्मा हननक्रियायाः कर्ता उत कर्म न भवति इति बोधयति । पूर्वस्मिन् श्लोके भगवान् आत्मनः निर्विकारित्वम् उक्त्वा अत्र सः आत्मा न घातयति, न मारयति इति अर्जुनं बोधयति । अत्र न मारयति इति तु पूर्वस्मिन् श्लोके उक्तं परन्तु सः आत्मा न घातयति इति एतस्मिन् श्लोके कथयति । सः कथयति यत्, हे पृथानन्दन ! यः मनुष्यः एनं शरीरिणम् अविनाशिनं, नित्यं, जन्मरहितम्, अव्ययं जानाति, सः कथं, कं च घातयति ? सः कथञ्च मारयति ? इति ।
वेदाविनाशिनं नित्यं... आत्मनः अकर्तृत्वम् | |
---|---|
![]() | |
श्लोकसङ्ख्या | २/२१ |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | न जायते म्रियते वा... |
अग्रिमश्लोकः | वासांसि जीर्णानि यथा... |
श्लोकःसंपादित करें
- वेदाविनाशिनं नित्यं य एनमजमव्ययम् ।
- कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥ २१ ॥
पदच्छेदःसंपादित करें
वेद, अविनाशिनम्, नित्यम्, यः, एनम्, अजम्, अव्ययम् । कथम्, सः, पुरुषः, पार्थ, कम्, घातयति, हन्ति, कम् ॥
अन्वयःसंपादित करें
पार्थ, यः एनम् अविनाशिनं नित्यम् अजम् अव्ययं च वेद सः पुरुषः कं कथं घातयति ? कं हन्ति ?
शब्दार्थःसंपादित करें
अन्वयः | विवरणम् | सरलसंस्कृतम् |
पार्थ | अ.पुं.स्मबो.एक. | हे अर्जुन ! |
यः | यद्-द.सर्व.पुं.प्र.एक. | यः पुरुषः |
एनम् | एतद्.द.सर्व.पुं.द्वि.एक. | अमुम् (आत्मानम्) |
अविनाशिनम् | अविनाशिन्-न.पुं.द्वि.एक. | नाशरहितम् |
नित्यम् | अ.पुं.द्वि.एक. | शाश्वतम् |
अजम् | अ.पुं.द्वि.एक. | जन्मरहितम् |
अव्ययम् | अ.पु.द्वि.एक. | क्षयविहीनम् |
वेद | √विद ज्ञाने-पर.कर्तरि, लट्.प्रपु.एक. | जानाति |
सः | तद्-द.सर्व.पुं.प्र.एक. | सः |
पुरुषः | अ.पुं.प्र.एक. | मानवः |
कम् | किम्-म.सर्व.पुं.द्वि.एक. | कं पुरुषम् |
कथम् | अव्ययम् | केन प्रकारेण |
घातयति | हन्(णिच्)पर.कर्तरि, लट्.प्रपु.एक. | विनाशयति |
कं | किम्-म.सर्व.पुं.द्वि.एक. | कं |
हन्ति | √हन हिंसागत्योः-पर.कर्तरि, लट्.प्रपु.एक. | मारयति । |
व्याकरणम्संपादित करें
सन्धिःसंपादित करें
- वेदाविनाशिनम् = वेद + अविनाशिनम् - सवर्णदीर्घसन्धिः
- य एनम् = यः + एनम् – विसर्गनसन्धिः (लोपः)
- स पुरुषः = सः + पुरुषः – विसर्गनसन्धिः (लोपः)
- पुराणो न = पुराणः + न - विसर्गनसन्धिः (सकारः) रेफः, उकारः, गुणः
अर्थःसंपादित करें
अयम् आत्मा विनाशरहितः, नित्यः, जन्मरहितः, अपक्षयरहितश्च इति यः जानाति सः ज्ञानी एव । तादृशज्ञानवान् पुरुषः अन्यं कथं वा हन्ति ? कथं वा हनने अन्यं प्रेरयति ?
भावार्थः [१]संपादित करें
'वेदाविनाशिनम्...घातयति हन्ति कम्' – एतस्य शरीरिणः न कदापि नाशः भवति, तस्मिन् कदापि परिवर्तनं न भवति, तस्य न कदापि जन्म भवति, तस्य कदापि क्षयोऽपि न भवति इत्यादि यः मनुष्यः अनुभवति, सः पुरुषः कं, कथञ्च घातयति, मारयति च ? अर्थात् अन्यस्य घातं कर्तुम्, अन्यञ्च मारयितुं तादृशस्य पुरुषस्य प्रवृत्तिरेव न भवति । सः न कस्यापि क्रियायाः कर्ता भवति न तु कारकः इति ।
शरीरी अविनाशी, नित्यः, अजः, अव्ययश्च इत्युक्त्वा अत्र भगवान् षड्विकाराणां निषेधं करोति । 'अविनाशी' इत्यनेन मृत्युरूपविकारस्य, 'नित्यः' इत्यनेन अवस्थान्तरवृद्धिविकारयोः, 'अजः' इत्यनेन जन्मास्तित्वविकारयोः, 'अव्ययः' इत्यनेन क्षयरूपविकारस्य च निषेधं करोति । 'न हन्यते हन्यमाने शरीरे', 'कं घातयति हन्ति कम्' इत्येताभ्यां वाक्याभ्यां यदि भगवान् आत्मनः कर्तृत्वं, कर्मत्वं च निषेद्धुम् इष्टवान्, तर्हि घातस्य, मृत्योः च चर्चां किमर्थम् अकरोत् ? इत्यस्य प्रश्नस्य उत्तरम् अस्ति यत्, शरीरी युद्धे न म्रियते, किञ्च तस्मिन् कर्तृत्वमेव नास्ति । तर्हि सः क्रियायाः विषयोऽपि भवितुं नार्हति इति युद्धप्रसङ्गत्वाद् अत्र अनिवार्यत्वेन वक्तव्यं भवति । तात्पर्यम् अस्ति यत्, आत्मा न कस्याः अपि क्रियायाः कर्ता उत कर्म भवति । अतः घातस्य, मृत्योः च प्रसङ्गे शोकः अनुचितः । तस्माद् विपरीतं शास्त्रस्य आज्ञानुसारं प्राप्तस्य कर्तव्यस्य पालनं कर्तव्यम् इति ।
शाङ्करभाष्यम् [२]संपादित करें
य एनं वेत्ति हन्तारम् इत्यनेन मन्त्रेण हननक्रियायाः कर्ता कर्म च न भवति इति प्रतिज्ञाय न जायते इत्यनेन अविक्रियत्वं हेतुमुक्त्वा प्रतिज्ञातार्थमुपसंहरति -
वेद विजानाति अविनाशिनम् अन्त्यभावविकाररहितं नित्यं विपरिणामरहितं यो वेद इति संबन्धः। एनं पूर्वेण मन्त्रेणोक्तलक्षणम् अजं जन्मरहितम् अव्ययम् अपक्षयरहितं कथं केन प्रकारेण सः विद्वान् पुरुषः अधिकृतः हन्ति हननक्रिया करोति कथं वा घातयति हन्तारं प्रयोजयति। न कथञ्चित् कञ्चित् हन्ति न कथञ्चित् कञ्चित् घातयति इति उभयत्र आक्षेप एवार्थः प्रश्नार्थासंभवात्। हेत्वर्थस्य च अविक्रियत्वस्य तुल्यत्वात् विदुषः सर्वकर्मप्रतिषेध एव प्रकरणार्थः अभिप्रेतो भगवता। हन्तेस्तु आक्षेपः उदाहरणार्थत्वेन कथितः।।
विदुषः कं कर्मासंभवहेतुविशेषं पश्यन् कर्माण्याक्षिपति भगवान् कथं स पुरुषः इति। ननु उक्त एवात्मनः अविक्रियत्वं सर्वकर्मासंभवकारणविशेषः। सत्यमुक्तः। न तु सः कारणविशेषः अन्यत्वात् विदुषः अविक्रियादात्मनः। न हि अविक्रियं स्थाणुं विदितवतः कर्म न संभवति इति चेत् न विदुषः आत्मत्वात्। न देहादिसंघातस्य विद्वत्ता। अतः पारिशेष्यात् असंहतः आत्मा विद्वान् अविक्रियः इति तस्य विदुषः कर्मासंभवात् आक्षेपो युक्तः कथं स पुरुषः इति। यथा बुद्ध्याद्याहृतस्य शब्दाद्यर्थस्य अविक्रिय एव सन् बुद्धिवृत्त्यविवेकविज्ञानेन अविद्यया उपलब्धा आत्मा कल्प्यते एवमेव आत्मानात्मविवेकज्ञानेन बुद्धिवृत्त्या विद्यया असत्यरूपयैव परमार्थतः अविक्रिय एव आत्मा विद्वानुच्यते। विदुषः कर्मासंभववचनात् यानि कर्माणि शास्त्रेण विधीयन्ते तानि अविदुषो विहितानि इति भगवतो निश्चयोऽवगम्यते।।
ननु विद्यापि अविदुष एव विधीयते विदितविद्यस्य पिष्टपेषणवत् विद्याविधानानर्थक्यात्। तत्र अविदुषः कर्माणि विधीयन्ते न विदुषः इति विशेषो नोपपद्यते इति चेत् न अनुष्ठेयस्य भावाभावविशेषोपपत्तेः। अग्निहोत्रादिविध्यर्थज्ञानोत्तरकालम् अग्निहोत्रादिकर्म अनेकसाधनोपसंहारपूर्वकमनुष्ठेयम् कर्ता अहम् मम कर्तव्यम् इत्येवंप्रकारविज्ञानवतः अविदुषः यथा अनुष्ठेयं भवति न तु तथा न जायते इत्याद्यात्मस्वरूपविध्यर्थज्ञानोत्तरकालभावि किञ्चिदनुष्ठेयं भवति किं तु नाहं कर्ता नाहं भोक्ता इत्याद्यात्मैकत्वाकर्तृत्वादिविषयज्ञानात् नान्यदुत्पद्यते इति एष विशेष उपपद्यते। यः पुनः कर्ता अहम् इति वेत्ति आत्मानम् तस्य मम इदं कर्तव्यम् इति अवश्यंभाविनी बुद्धिः स्यात् तदपेक्षया सः अधिक्रियते इति तं प्रति कर्माणि संभवन्ति। स च अविद्वान् उभौ तौ न विजानीतः इति वचनात् विशेषितस्य च विदुषः कर्माक्षेपवचनाच्च कथं स पुरुषः इति। तस्मात् विशेषितस्य अविक्रियात्मदर्शिनः विदुषः मुमुक्षोश्च सर्वकर्मसंन्यासे एव अधिकारः। अत एव भगवान् नारायणः सांख्यान् विदुषः अविदुषश्च कर्मिणः प्रविभज्य द्वे निष्ठे ग्राहयति ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् इति। तथा च पुत्राय आह भगवान् व्यासः द्वाविमावथ पन्थानौ इत्यादि। तथा च क्रियापथश्चैव पुरस्तात् पश्चात्संन्यासश्चेति। एतमेव विभागं पुनः पुनर्दर्शयिष्यति भगवान् अतत्त्ववित् अहंकारविमूढात्मा कर्ताहमिति मन्यते तत्त्ववित्तु नाहं करोमि इति। तथा च सर्वकर्माणि मनसा संन्यस्यास्ते इत्यादि।।
तत्र केचित्पण्डितंमन्या वदन्ति जन्मादिषड्भावविक्रियारहितः अविक्रियः अकर्ता एकः अहमात्मा इति न कस्यचित् ज्ञानम् उत्पद्यते यस्मिन् सति सर्वकर्मसंन्यासः उपदिश्यते इति। तन्न न जायते इत्यादिशास्त्रोपदेशानर्थक्यप्रसङ्गात्। यथा च शास्त्रोपदेशसामर्थ्यात् धर्माधर्मास्तित्वविज्ञानं कर्तुश्च देहान्तरसंबन्धविज्ञानमुत्पद्यते तथा शास्त्रात् तस्यैव आत्मनः अविक्रियत्वाकर्तृत्वैकत्वादिविज्ञानं कस्मात् नोत्पद्यते इति प्रष्टव्याः ते। करणागोचरत्वात् इति चेत् न मनसैवानुद्रष्टव्यम् इति श्रुतेः। शास्त्राचार्योपदेशशमदमादिसंस्कृतं मनः आत्मदर्शने करणम्। तथा च तदधिगमाय अनुमाने आगमे च सति ज्ञानं नोत्पद्यत इति साहसमात्रमेतत्। ज्ञानं च उत्पद्यमानं तद्विपरीतमज्ञानम् अवश्यं बाधते इत्यभ्युपगन्तव्यम्। तच्च अज्ञानं दर्शितम् हन्ता अहम् हतः अस्मि इति उभौ तौ न विजानीतः इति। अत्र च आत्मनः हननक्रियायाः कर्तृत्वं कर्मत्वं हेतुकर्तृत्वं च अज्ञानकृतं दर्शितम्। तच्च सर्वक्रियास्वपि समानं कर्तृत्वादेः अविद्याकृतत्वम् अविक्रियत्वात् आत्मनः। विक्रियावान् हि कर्ता आत्मनः कर्मभूतमन्यं प्रयोजयति कुरु इति। तदेतत् अविशेषेण विदुषः सर्वक्रियासु कर्तृत्वं हेतुकर्तृत्वं च प्रतिषेधति भगवान्वासुदेवः विदुषः कर्माधिकाराभावप्रदर्शनार्थम् वेदाविनाशिनं৷৷. कथं स पुरुषः इत्यादिना। क्व पुनः विदुषः अधिकार इति एतदुक्तं पूर्वमेव ज्ञानयोगेन सांख्यानाम् इति। तथा च सर्वकर्मसंन्यासं वक्ष्यति सर्वकर्माणि मनसा इत्यादिना।।
ननु मनसा इति वचनात् न वाचिकानां कायिकाना च संन्यासः इति चेत् न सर्वकर्माणि इति विशेषितत्वात्।
मानसानामेव सर्वकर्मणामिति चेत् न मनोव्यापारपूर्वकत्वाद्वाक्कायव्यापाराणां मनोव्यापाराभावे तदनुपपत्तेः। शास्त्रीयाणां वाक्कायकर्मणां कारणानि मानसानि कर्माणि वर्जयित्वा अन्यानि सर्वकर्माणि मनसा संन्यस्येदिति चेत् न नैव कुर्वन्न कारयन् इति विशेषणात्। सर्वकर्मसंन्यासः अयं भगवता उक्तः मरिष्यतः न जीवतः इति चेत् न नवद्वारे पुरे देही आस्ते इति विशेणानुपपत्तेः। न हि सर्वकर्मसंन्यासेन मृतस्य तद्देहे आसनं संभवति। अकुर्वतः अकारयतश्च देहे संन्यस्य इति संबन्धः न देहे आस्ते इति चेत् न सर्वत्र आत्मनः अविक्रियत्वावधारणात् आसनक्रियायाश्च अधिकरणापेक्षत्वात् तदनपेक्षत्वाच्च संन्यासस्य। संपूर्वस्तु न्यासशब्दः अत्र त्यागार्थः न निक्षेपार्थः। तस्मात् गीताशास्त्रे आत्मज्ञानवतः संन्यासे एव अधिकारः न कर्मणि इति तत्र तत्र उपरिष्टात् आत्मज्ञानप्रकरणे दर्शयिष्यामः।।
भाष्यार्थःसंपादित करें
'य एनं वेत्ति हन्तारम्' इत्यनेन श्लोकेन आत्मनः हननक्रियाम् अकर्तृत्वम्, अकर्मत्वं च उक्त्वा 'न जायते' इत्यनेन आत्मनः निर्विकारितायाः हेतुञ्च उक्त्वा अत्र प्रतिज्ञापूर्वकम् उक्तस्य अर्थस्य उपसंहारं करोति –
पूर्वोक्तश्लोकानुसारं शरीरी अविनाशी, नित्यः, अजः, अव्ययश्च इति यः जानाति, सः आत्मतत्त्वज्ञाता पुरुषः कथं, कञ्च घातयति ? तथा च कं मारयति ? अत्राभिप्रायः अस्ति यत्, सः न कमपि घातयति, न मारयति च । अत्र 'किं', 'कथम्' इत्येते पदे आक्षेपबोधके स्तः । यतो हि प्रश्नार्थेऽत्र तयोः प्रयोगः असम्भवः । अर्थात् आत्मा न कमपि मारयितुं, घातयितुं वा शक्नोति इति वक्तुमेव अत्र 'किं', 'कथम्' इत्येतयोः पदयोः उपयोगः कृतः ।
सर्वेषां कर्मणां प्रतिषेधः इति निर्विकारितारूपिणः हेतोः तात्पर्यम् । अनेन प्रकरणेन मुख्यार्थत्वेन भगवान् एतदेव उपस्थापयितुम् इच्छति यत्, "आत्मवेत्ता न किमपि कर्म करोति, न च कारकः भवति" इति । अत्र हननक्रियायाः विषये आक्षेपः केवलम् उदाहरणत्वेन कृतः अस्ति । अर्थात् ज्ञानी केवलं हननक्रियायाम् अकर्ता, अकर्म च न भवति, अपि तु आत्मा निर्विकारित्वात्, नित्यत्वाच्च सर्वप्रकारकक्रियायाः कर्ता उत कर्म भवितुं नार्हति । अतः न केवलं हननक्रियाः प्रतिषेधः अस्ति, अपि तु सर्वासां क्रियाणां प्रतिषेधः इति बोध्यम् ।
पू. – 'कथं स परुषः' इत्यनेन भगवान् कर्मासम्भवे कं हेतुविशेषं पश्यन् कर्मविषयकम् आक्षेपं करोति ?
उ. – पूर्वमेव उक्तम् अस्ति यत्, आत्मनः निर्विकारिता एव सम्पूर्णकर्मणाम् अभावाय मुख्यहेतुः अस्ति इति ।
पू. – उक्तम् अस्ति इति उचितं, परन्तु अविक्रियाद् (यस्मिन् परिवर्तनं न भवति, तस्मात्) आत्मनः तस्य ज्ञाता भिन्नः भवति । अतः उपर्युक्तं मुख्यकारणम् उपयुक्तं नास्ति । यतो हि यः स्थाणुम् (स्थिरम्) अविक्रियत्वेन जानाति, तस्य ज्ञातुः कर्म न भवति इति नास्ति । एतादृशी शङ्का भवति चेत् ?
उ. एतत्कथनं न योग्यम् । यतो हि आत्मा स्वयमेव ज्ञाता अस्ति । देहादीनां सङ्घातत्वाद् (जडत्वात्) तेषु ज्ञातृत्वम् असम्भवम् । अतः अन्ततो गत्वा देहादिसङ्घाताद् भिन्नः आत्मा एव अविक्रियः सिद्ध्यति । स एव ज्ञाता अस्ति । एवं तस्मिन् ज्ञानिनि कर्म असम्भवम् अस्ति । अतः 'कथं स पुरुषः' इति आक्षेपः उचित एव । यथा निर्विकारिणि सत्यपि आत्मा बुद्धिवृत्तेः, आत्मभेदज्ञानस्य च अभावत्वाद् अविद्यायाः सम्बन्धेन बुद्ध्यादीन्द्रियैः गृह्यमाणानां शब्दादिविषयाणां स्वं ग्राहकत्वेन आरोपयति, तथैव आत्मानात्मविषयिणी या विवेकज्ञानरूपिणी बुद्धिवृत्तिः अस्ति, या विद्यात्वेन प्रसिद्धा, सा यद्यपि असद्रुपा एव, तथापि तया सह सम्बन्धत्वाद् वास्तव्येन अविकारी आत्मा एव विद्वान् उच्यते । ज्ञानिने सर्वाणि कर्माणि सम्भवानि उक्तानि । अतः भगवतः निश्चयः स्पष्टः अस्ति यत्, शास्त्रद्वारा येषां कर्मणां विधानानि कृतानि, तानि अज्ञानिभ्यः एव विहितानि इति ।
पू. – विद्या अपि अज्ञानिभ्यः एव विहिता । यतो हि येन विद्या ज्ञाता, तस्मै पिष्टपेषणवद् (अर्थात् यद् पूर्वस्मादेव पिष्टमस्ति, तस्य पेषणं यथा व्यर्थं तथा) विद्यायाः विधानं व्यर्थं भवति । अतः अज्ञानिभ्यः कर्माणि उक्तानि, न तु ज्ञानिभ्यः एतादृशः विभागः न शक्यते ।
उ. – तन्नोचितम् । यतः कर्तव्यस्य भावाद्, अभावाच्च भिन्नता सिद्ध्यति । अर्थात् अग्निहोत्रादिकर्मणां विधायकानां वाक्यानाम् अर्थज्ञाने सति 'अनेकसाधनानाम्, उपसंहाराणां च सहितम् अमुकम् अग्निहोत्रादिकर्म अनुष्ठानीयम्', 'अहं कर्ता', 'मम अमुकं कर्तव्यम्' इत्यादि ज्ञात्रे अज्ञानिने तद् कर्तव्यस्वरूपं भवति, तथैव 'न जायते' इत्यादीनाम् आत्मस्वरूपविधायकानां वाक्यानाम् अर्थज्ञाने सति ज्ञानिने किमपि कर्तव्यं नावशिष्यते । यतो हि ज्ञानिनः 'अहं न कर्ता', 'अहं न भोक्ता' इत्यादि विहाय किमपि ज्ञानं न भवति । तस्मिन् तु आत्मनः एकत्वस्य, अकर्तृत्वस्यैव ज्ञानं भवति । एवम् उक्ते ज्ञानिनः, अज्ञानिनश्च कर्तव्यस्य विभागः सिद्ध्यति । अर्थात् अज्ञानिने कर्तव्यम् अवशिष्यते, ज्ञानिने च किमपि कर्तव्यं नावशिष्यते । अतः ज्ञानिनां कर्मणि अधिकारः नास्ति, परन्तु अज्ञानिनाम् अस्ति । एषः भेदः उचितः अस्ति ।
'अहं कर्ता' इति यः चिन्तयति, तस्य अवश्यमेव बुद्धिः (चिन्तनं) स्याद् यत्, 'मम अमुकं कर्तव्यम् अस्ति' इति । तस्याः बुद्धेः अपेक्षया सः कर्मणाम् अधिकारी भवति । अतः तस्य कृते कर्म विद्यते । एवम् 'उभौ तौ न विजानीतः' इत्यस्य वाक्यस्य अनुसारं स एव अज्ञानी उच्यते । यतो हि पूर्वोक्तविशेषणद्वारा वर्णिताय ज्ञानिने तु 'कथं स पुरुषः' इत्यादीनि कर्मनिषिद्धानि वचनानि सन्ति । सुतरां सिद्ध्यति यत्, आत्मा निर्विकारी इति ज्ञातुः विशिष्टविदुषः, मुमुक्षोश्चापि सर्वकर्मसंन्यासे एव अधिकारः अस्ति इति । अतः भगवान् नारायणः 'ज्ञानयोगेन साङख्यानां, कर्मयोगेन योगिनाम्' इत्यादिना साङ्ख्ययोगिनः ज्ञानी, कर्मयोगिनः अज्ञानी च इति विभागौ कृत्वा द्वे निष्ठे गृह्णाति । तथैव वेदव्यासः स्वपुत्रं कथयति यत्, 'एतौ द्वौ मार्गौ स्तः' [३] इति । 'प्रप्रथमं तु क्रियामार्गः, ततश्च संन्यासः' [४] इत्यपि सः कथयति ।
तौ विभागौ एव पौनःपुन्येन भगवान् दर्शयिष्यति । यथा 'अहङ्काराद् मोहितः अज्ञानी अहं कर्ता इति मन्यते' [५], 'तत्त्ववेत्ता अहं न कर्ता इति मन्यते' [६], 'सर्वाणि कर्माणि मनसः त्यक्त्वा तिष्ठति' [७] इत्यादि ।
एतस्मिन् सन्दर्भे पण्डितम्मन्यमानाः वदन्ति यत्, जन्मादिभ्यः षड्विकारेभ्यः रहितः निर्विकारी, अकर्ता, एकः, आत्मा अहमेवास्मि इति ज्ञानं न कस्यापि भवति । एतस्य ज्ञानस्योत्तरमेव सर्वकर्मसन्न्यासस्य उपदेशः सम्भवति इति । तत्कथनम् अनुचितम् । यतो हि उक्तस्य विचारस्य स्वीकारे सति 'न जायते' इत्यादयः शास्त्रोपदेशाः व्यर्थाः भविष्यन्ति । अत्र ते पण्डितम्मन्याः प्रष्टव्याः यत्, यथा शास्त्रोपदेशस्य सामर्थ्याद् कर्म कर्ता मनुष्यः धर्मास्तित्वस्य ज्ञानं, देहान्तरप्राप्तेः ज्ञानं च प्राप्नोति, तथैव तम् एव पुरुषं शास्त्रेभ्यः आत्मनः निर्विकारिताम्, अकर्तृत्वम्, एकत्वम् इत्यादीनां विज्ञानं न भवितुम् अर्हति ?
यदि ते कथयन्ति यत्, मनोबुद्ध्यादिकारणाद् आत्मनः अगोचरत्वाद् तस्य ज्ञानं न भवतीति, तर्हि तथा कथनम् अयोग्यम् । यतो हि 'मनसा तस्य आत्मनः दर्शनं करणीयम्' [८] [९] इत्यादीनि श्रुतिवाक्यानि सन्ति । अतः शास्त्राणाम्, आचार्याणां च उपदेशैः, शमदमादिभिश्च शुद्धीकृतं मनः आत्मदर्शने 'करणम्' अर्थात् साधनम् अस्ति इति । एवं ज्ञानप्राप्तेः तस्मिन् विषये अनुमानम्, आगमश्च प्रमाप्रमयोः सदसतोः अपि ज्ञानं न शक्यते इति साहसमात्रम् एव । एतत्तु स्वीकरणीयं यत्, उत्पन्नं ज्ञानं स्वस्माद् विपरीतं ज्ञानं नाशयति एव ।
'अहं घातकः', 'अहं मृतः' इत्यादि अज्ञानं तु पूर्वमेव 'तौ उभौ न जानीतः आत्मतत्त्वम्' [१०] वाक्येन प्रदर्शितम् । अत्रापि उक्तम् अस्ति यत्, आत्मनि हननक्रियायाः कर्तृत्वस्य, कर्मत्वस्य, हेतुत्वस्य च आरोपणम् अज्ञानजनितम् अस्ति इति । आत्मनः निर्विकारित्वाद् 'कर्तृत्वादीनां' भावानाम् अविद्यामूलकत्वे सिद्धे सति सर्वासु क्रियासु समानः अस्ति । यतो हि 'त्वम् अमुकं कर्म कुरु' इति विकारवान् एव स्वयं कर्ता भूत्वा स्वकर्मद्वारा अन्यान् कर्मणि नियोजयति ।
'वेदाविनाशिनम्', 'कथं स पुरुषः' इत्यादिभ्यः वाक्येभ्यः भगवान् सर्वासु क्रियासु समानभावेन विदुषां कर्तृत्वेन, प्रयोजककर्तृत्वेन च प्रतिषेधं करोति । एवं सः ज्ञानिनः कर्मसु अधिकारः नास्ति इति उपस्थापयति । ज्ञानिनः अधिकारः कुत्र ? इति तु 'ज्ञानयोगेन साङ्ख्यानाम्' इत्यादिवचनैः पूर्वमेव उक्तम् अस्ति । तथापि भगवान् 'सर्वकर्माणि मनसा' इत्यादिना सर्वकर्मणां सन्न्यासं कथयिष्यति ।
पू. – उक्ते श्लोके 'मनसा' इत्येव शब्दः उपयुक्तः । अतः मानसिककर्मणाम् एव त्यागः उक्तः । शरीरवाणीसम्बद्धानां कर्मभ्यः सन्न्यासः न इति कोऽपि तर्कयति चेत् ?
उ. – तत्कथनं न योग्यम् । यतो हि 'सर्वकर्माणि त्यक्त्वा' इति कर्मणा सह 'सर्व' इत्यस्य विशेषणस्य प्रयोगः कृतः ।
पू. – यदि मनस्सम्बन्धिनां कर्मणां त्यागः मन्यामश्चेत् ?
उ. – नोचितम् । यतो हि वाण्याः, शरीरस्य च क्रिया मनोव्यापारपूर्वकमेव भवति । मनोव्यापरस्य अभावे क्रिया असम्भवा ।
पू. - शास्त्रविहितीनि कायिक-वाचिककर्माणि कारणरूपमानसिककर्माणि विहाय अन्यसर्वेषां कर्मणां मनसा सन्न्यासः मन्यामश्चेत् ?
उ. – तन्नोचितम् । यतः 'न करोति, न च कारयति' इति विशेषणम् अस्ति । एवं त्रिधा कर्मभ्यः सन्न्यासः सिद्ध्यति ।
पू. – भगवता उक्तः सर्वकर्म सन्न्यासः तु मुमूर्षुभ्यः अस्ति, न तु जीवतेभ्यः इति मन्यते चेत् ?
उ. – अयोग्यम् । यतो हि तथा मन्यमाने सति 'नव द्वारयुते शरीररूपिणि पुरे आत्मा निवसति' [११] इति विशेषणम् अनुपयुक्तं सिद्ध्यति । किञ्च यः सर्वकर्म सन्न्यस्य मृतः, तस्य कर्तृत्वेन, कारकत्वेन च शरीरे अवस्थितिः असम्भवा एव ।
पू. – 'शरीरे कर्माणि संस्थाप्य तथा सम्बन्धः अस्ति' इति पूर्वस्माद् वाक्याद् स्वीकुर्मः । परन्तु 'शरीरे निवसति' एतादृशं सम्बन्धं न स्वीकर्मः चेत् ?
उ. – तन्नयोग्यम् । यतो हि आत्मा निर्विकारी इति सर्वत्र उक्तम् अस्ति । तथा 'आसन'-क्रियायाम् आधारस्य अपेक्षा अस्ति तथा च 'संन्यासाय' आधारस्य अपेक्षा नास्ति । एवं 'सम्' पूर्वकं 'न्यास' इत्यस्य शब्दस्य अत्रार्थः त्यागः इत्यवेन, न तु निक्षेपः (स्थापनम्) इति । सम्पूर्णे गीताशास्त्रे आत्मज्ञानिनः सन्न्यासे एव अधिकारः, नैव कर्मणि इति उक्तम् । अग्रिमप्रकरणेष्वपि वयम् एतदेव प्रदर्शयिष्यामः ।
रामानुजभाष्यम्संपादित करें
एवम् अविनाशित्वेन अजत्वेन व्ययानर्हत्वेन च नित्यम् एनम् आत्मानं यः पुरुषो वेद स पुरुषो देवमनुष्यतिर्यक्स्थावरशरीरावस्थितेषु आत्मसु कम् अपि आत्मानं कथं घातयति कं वा कथं हन्ति कथं नाशयति कथं वा तत्प्रयोजको भवति इत्यर्थः। एतान् आत्मनो घातयामि हन्मि इति अनुशोचनम् आत्मस्वरूपयाथात्म्याज्ञानमूलम् एव इत्यभिप्रायः।
भाष्यार्थःसंपादित करें
एवं यः पुरुषः आत्मानमेनं जन्मरहितत्वाद्, विनाशरहितत्वाद्, व्ययरहितत्वाच्च नित्यं जानाति, सः पुरुषः देव-मनुष्य-तिर्यक्-स्थावरादिषु शरीरेषु स्थितेषु आत्मषु कञ्चन आत्मानं कथं घातयितुं शक्नोति ? अथवा कथं घन्तुं शक्नोति ? भिन्नशब्देषु वदामः चेत्, सः कथं कस्यापि नाशं कर्तुं शक्नोति, कथं वा अन्यम् एतस्मिन् कार्ये योजयितुं शक्नोति ? अभिप्रायः अस्ति यत्, एनम् आत्मानम् 'अहं घातयामि, मारयामि' एतादृशस्य शोकस्य कर्ता आत्मस्वरूपस्य यर्थाथं ज्ञानं न वहति इति ।
|
सम्बद्धाः लेखाःसंपादित करें
बाह्यसम्पर्कतन्तुःसंपादित करें
विकिमीडिया कॉमन्स् मध्ये वेदाविनाशिनं नित्यं... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्संपादित करें
- ↑ श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
- ↑ श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
- ↑ द्वाविमावथ पन्थानौ, महाभारतम्, शान्तिपर्व, २४१/६
- ↑ क्रियापथश्चैव पुरस्तात्पश्चात् सन्न्यासश्च
- ↑ अतत्त्ववित्तु अहङ्कारविमूढात्मा कर्ता अहम् इति मन्यते
- ↑ तत्त्ववित्तु न अहं करोमि
- ↑ सर्वकर्माणि मनसा सन्न्यस्यास्ते
- ↑ मनसैवानुद्रष्टव्यम्, बृ. ४/४/१९
- ↑ वाचस्पत्यम्
- ↑ उभौ तौ न विजानीतः
- ↑ नवद्वारे पुरे देही आस्ते
अधिकवाचनायसंपादित करें
- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च