नेहाभिक्रमनाशोऽस्ति...

नेहाभिक्रमनाशोऽस्ति () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः समतायाः महत्त्वं वर्णयति । पूर्वस्मिन् श्लोके समतायाः महत्त्ववर्णनम् आरभमाणः भगवान् कर्मयोगानुसारं समतायाः वर्णनम् आरभ्य अत्र भगवान् सा समता महाभयत्री इति वदति । सः कथयति यद्, मनुष्यलोके समबुद्धिरूपिणः धर्मस्य अनुष्ठानारम्भोत्तरं तस्य अनुष्ठानस्य नाशः न भवति । तस्य अनुष्ठानस्य प्रत्युत फलं (विपरीतफलम्) अपि न भवति । समबुद्धेः स्वल्पम् अनुष्ठानम् अपि महाभयाद् (जन्ममरणयोः चक्राद्) त्रायते इति ।

नेहाभिक्रमनाशोऽस्ति...


समतायाः महत्त्वम्
श्लोकसङ्ख्या २/४०
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः एषा तेऽभिहिता साङ्ख्ये...
अग्रिमश्लोकः व्यवसायात्मिका बुद्धिः...
 
गीतोपदेशः
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ ४० ॥

पदच्छेदः

सम्पादयतु

न, इह, अभिक्रमनाशः, अस्ति, प्रत्यवायः, न, विद्यते । स्वल्पम्, अपि, अस्य, धर्मस्य, त्रायते, महतः, भयात् ॥

इह अभिक्रमनाशः नास्ति, प्रत्यवायः न विद्यते, अस्य धर्मस्य स्वल्पमपि महतः भयात् त्रायते ।

शब्दार्थः

सम्पादयतु
अन्वयः विवरणम् सरलसंस्कृतम्
इह अव्ययम् अत्र
अभिक्रमनाशः अ.पुं.प्र.एक. प्रारम्भहानिः
नास्ति √अस भूवि-पर.कर्तरि, लट्.प्रपु.एक. न विद्यते
प्रत्यवायः अ.पुं.प्र.एक. विघ्नः
न विद्यते √विद ज्ञाने-आत्म.कर्तरि, लट्.प्रपु.एक. न भवति
अस्य एतत्-त.सर्व.पुं.ष.एक. एतस्य
धर्मस्य अ.पुं.प्र.एक. कर्ममार्गस्य
स्वल्पम् अ.पुं.प्र.एक. किञ्चिद्
अपि अव्ययम् अपि
महतः महत्-त.पुं.ष.एक. अधिकात्
भयात् अ.पुं.प्र.एक. भीतेः
त्रायते √त्रा पीडने-आत्म.कर्तरि, लट्.प्रपु.एक. रक्षति ।

व्याकरणम्

सम्पादयतु
  1. नेहाभिक्रमनाशोऽस्ति = न + इहाभिक्रमनाशः – गुणसन्धिः
  2. नेह + अभिक्रमनाशः - सवर्णदीर्घसन्धिः
  3. नेहाभिक्रमनाशः + अस्ति – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः, पूर्वरूपं च
  4. प्रत्यवायो न = प्रत्यवायः + न – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः
  5. स्वल्पमप्यस्य = स्वल्पमपि + अस्य – यण्सन्धिः
  6. महतो भयात् = महतः + भयात् – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः
  1. अभिक्रमनाशः = अभक्रमस्य नाशः – षष्ठीतत्पुरुषः ।

अस्य कर्मयोगस्य आचरणे अभिक्रमस्य (प्रारम्भस्य) नाशः न भवति । अवश्यं फलं लभ्यते इत्यर्थः। विघ्नोऽपि न सम्भवति । अस्य धर्मस्य किञ्चिन्मात्रेण अनुसरणमपि महतः भयात् अस्मान् रक्षति ।

भावार्थः []

सम्पादयतु

'नेहाभिक्रमनाशोऽस्ति' - पूर्वस्य श्लोकस्य उत्तरार्धे, एतस्मिन् श्लोके च समबुद्धेः महत्त्वं भगवता चतुर्धा वर्णितम् ।

१. समतया मनुष्यः कर्मबन्धनात् मुक्तः भवति ।

२. समतायाः आरम्भस्य नाशः न भवति ।

३. समतायाः विपरीतं फलं न भवति ।

४. समतायाः लघ्वनुष्ठानम् अपि महाभयाद् रक्षति ।

समतायाः केवलम् आरम्भे सति तस्याः कदापि नाशः न भवति । मनसि समताप्राप्त्यै या लालसा, उत्कण्ठा च जागर्ति, सा एव समतायाः आरम्भः मन्यते । तस्य आरम्भस्य कदापि अभावः न भवति । किञ्च सत्यवस्तोः लालसा अपि सत्या एव । अत्र 'इह' इत्यस्य पदस्य उपयोगः कृतः । तस्य तात्पर्यम् अस्ति यद्, एतस्मिन् मनुष्यलोके मनुष्यस्य एव एषा समताबुद्धेः प्राप्तेः अधिकारः अस्ति इति । मनुष्यं विहाय सर्वाः योनयः भोगयोनयः । अतः तासु योनिषु विषमतायाः (रागद्वेषयोः) नाशं कर्तुम् अवसरः एव नास्ति । यतो हि भोगः रागद्वेषपूर्वकम् एव भवति । रागद्वेषयोः अभावे कृतः भोगः भोगत्वेन न अपि तु साधनत्वेन मन्यते ।

'प्रत्यवायो न विद्यते' – सकामभावपूर्वकं कृतं कर्म यदि क्षतियुक्तं स्यात्, तर्हि तस्माद् कार्याद् विपरीतफलप्राप्तिः भवति । यथा मन्त्रोच्चारपूर्वकं यज्ञादिविधौ कृतं सकामकर्म शुद्धोच्चारपूर्वकं, विधिपूर्वकं, कालानुसारं च न क्रियते, तर्हि तस्य कर्मणः विपरीतफलप्राप्तिः अपि भवति । परन्तु यः समबुद्धेः अनुष्ठानाय प्रयतते, तस्य कृतम् अनुष्ठानं कदापि विपरीतफलदायकं न भवति । किञ्च तस्य अनुष्ठाने फलस्य इच्छा न भवति । यावता इच्छाफलं भवति, तावता समतायाः अभावः भवति । प्रत्युत समतायां साधितायां सत्यां कदापि फलेच्छा न भवति । अतः तस्य अनुष्ठानस्य विपरीतफलस्य सम्भावना एव नास्ति । विपरीतफलम् इत्युक्ते किम् ? संसारे विषमतायाः उपस्थितिरेव विपरीतफलम् उच्यते । सांसारिकेषु कार्येषु कुत्रिचद्रागः, कुत्रचिद् द्वेषः एव विषमता । सा विषमता एव जन्ममरणयोः कारणीभूता भवति । परन्तु मनुष्ये यदा समतायाः उद्भवः भवति, तदा रागद्वेषौ न भवतः । रागद्वेषयोः अभावे सति विषमता अपि न भवति । ततश्च विपरीतफलप्राप्तेः किमपि कारणं न भवति ।

'स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्' – एतस्य समबुद्धिरूपिणः धर्मस्य किञ्चिदपि अनुष्ठानं भवति, किञ्चिदपि समतायाः अवस्थितिः जीवने प्रतीयते उत आचर्यते चेद्, मनुष्यस्य जन्ममरणरूपि महाभयं व्यपगच्छति । यथा सकामकर्म फलं दत्त्वा नष्टं भवति, तथा धनसम्पत्त्यादिकं दत्त्वा समतायाः फलं नष्टं न भवति । अर्थाद् समतायाः फलं धनसम्पत्त्यादिकं न भवति । साधकस्य अन्तःकरणे अनुकूलप्रतिकूलवस्तु-व्यक्ति-घटना-परिस्थित्यादिषु समता भवति । तस्याः समतायाः मात्रा यावती भवति, तावती अचला भवति । तस्यां समतायां न्यूनता न भवति । योगभ्रष्टः कश्चन योगी यदि स्वर्गादिषु अनेकान् भोगान् उपभुङ्क्ते, मनुष्यलोके अनेकेषां श्रीमतां गृहेऽपि भोगानाम् उपभोगं करोति, तथापि तस्य समतायाः नाशः न भवति [] । तस्याः समतायाः कदापि व्ययः न भवति । प्रत्युत सा समता सुरक्षिता सती वृद्धिम् एव गच्छति । किञ्च सा समता सदस्ति । सा सर्वदा भवति ।

'धर्म' इत्येतस्य द्वौ अर्थौ उच्येते । एकं तु दानम् । अपरं वर्णोचितं कर्तव्यपालनम् । तयोः धर्मयोः निष्कामभावेन पालनं कृते सति समतारूपिणः धर्मस्य अनुष्ठानं स्वतः एव भवति । किञ्च समताधर्म एव स्वधर्म अस्ति । अत एव अत्र समबुद्धिः धर्मः इति उक्तम् ।

सर्वेषां हृदये काचिद् धारणा दृढा अस्ति यद्, मनस्संयोगे कृतम् ईश्वरस्मरणमेव योग्यम् । मनस्संयोगाभावे कृतम् ईश्वरस्मरणं व्यर्थं भवति इति । परन्तु गीताशास्त्रानुसारं मनस्संयोगः कामपि विशेषतां न वहति । गीतायाः दृष्ट्या मनस्संयोगादपि विशेषावश्यकम् अस्ति समता । अन्यानि लक्षणानि सन्ति उत न इत्यस्य किमपि महत्त्वं नास्ति । येन समता साधिता, तेन गीताशास्त्रं साधितम् । सः समतायुक्तः मनुष्यः एव गीतायां सिद्धः इति उक्तः । यस्मिन् मनुष्ये समतां विहाय सर्वेऽपि गुणाः भवेयुः, परन्तु सः गीताशास्त्रेण सिद्धः न उक्तः ।

समता द्विधा उक्ता । अन्तःकरणस्य समता, स्वरूपस्य समता च । समरूपः परमात्मा अखिले संसारे व्याप्तः अस्ति इति येन ज्ञातं तेन विश्वविजयः कृतः । सः जीवनमुक्तश्चाभवत् । परन्तु सः जीवनमुक्तः इति कथं ज्ञायते चेद्, तस्य अन्तःकरणस्य समतया ज्ञायते [] । अन्तःकरणस्य समता अर्थाद्, सिद्ध्यसिद्ध्यौ समत्वम् [] । प्रशंसा-निन्दा-लाभ-हानि-सफलता-असफलतासु अन्तःकरणे प्रभावः न भवेत् [] । सा समता कदापि न नश्यति । कल्याणं विहाय समतायाः किमपि फलं न भवति । मनुष्यः तपोदानतीर्थव्रतादिकं यत्किमपि पुण्यकार्यं कुर्यात्, परन्तु तत्कर्म फलं दत्त्वा नश्यति । परन्तु साधनायाम् अन्तःकरणे किञ्चदपि समता (निर्विकारिता) सिध्यति चेद्, सा नष्टा न भवति ।

शाङ्करभाष्यम् []

सम्पादयतु

किञ्च अन्यत् 

न इह  मोक्षमार्गे कर्मयोगे  अभिक्रमनाशः  अभिक्रमणमभिक्रमः प्रारम्भः तस्य नाशः नास्ति यथा कृष्यादेः। योगविषये प्रारम्भस्य न अनैकान्तिकफलत्वमित्यर्थः। किञ्चनापि चिकित्सावत् प्रत्यवायः विद्यते भवति। किं तु  स्वल्पमपि अस्य धर्मस्य  योगधर्मस्य अनुष्ठितं  त्रायते  रक्षति  महतः भयात्  संसारभयात् जन्ममरणादिलक्षणात्।।

भाष्यार्थः

सम्पादयतु

अन्यच्च शृणु –

आरम्भ इत्युक्ते अभिक्रमः । तस्य अभिक्रमस्य कर्मयोगरूपिणि मोक्षमार्गे नाशो न भवति, यथा प्रारम्भिककृष्यादिकार्याणां भवति । अभिप्रायः अस्ति यद्, योगविषयकः प्रारम्भः अफलः (अनैकान्तिकः, संशययुक्तः वा) न भवति । तथा च सः आरम्भः चिकित्सादिवद् विपरीतफलदः अपि न भवति । तर्हि किं भवति ? इति चेद्, एतस्य कर्मयोगरूपिणः धर्मस्य किञ्चिदपि अनुष्ठाने कृते जन्ममरणरूपिणः महतः भयात् रक्षा भवति इति ।

रामानुजभाष्यम् []

सम्पादयतु

वक्ष्यमाणबुद्धियुक्तस्य कर्मणो माहात्म्यम् आह -

इह  कर्मयोगे  न अभिक्रमनाशः अस्ति।  अभिक्रम आरम्भः नाशः फलसाधनभावनाशः। आरब्धस्य असमाप्तस्य विच्छिन्नस्य अपि न निष्फलत्वम्। आरब्धस्य विच्छेदे  प्रत्यवायः  अपि  न विद्यते।   अस्य  कर्मयोगाख्यस्य स्व धर्मस्य  स्वल्पांशः  अपि महतो भयात्  संसारभयात्  त्रायते।  अयम् अर्थः पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते। (गीता 6।40) इति उत्तरत्र प्रपञ्चयिष्यते। अन्यानि हि लौकिकानिवैदिकानि च साधनानि विच्छिन्नानि न हि फलप्रसवाय भवन्ति प्रत्यवायाय च भवन्ति।

भाष्यार्थः

सम्पादयतु

अग्रे उच्यमानायाः बुद्ध्याः युक्तानां कर्मणां माहात्म्यं कथयति –

एतस्मिन् कर्मयोगे अभिक्रमस्य नाशः न भवति । अभिक्रमः अर्थाद् आरम्भः । फलसाधनतायाः नाशः एव नाशः उच्यते । आरब्धस्य कर्मयोगस्य मध्ये विच्छेदे सति सः निष्फलः न भवति । तथा च आरम्भोत्तरं खण्डिते सति साधकस्य कृते प्रत्यवायः (विपरीतफलदः) अपि न भवति । एतस्य कर्मयोगरूपस्य स्वधर्मस्य किञ्चिद् अंशम् अपि महतः भयाद् (संसारभयाद्) त्रातुं शक्नोति । एतदेव कथनम् अग्रे गत्वा उच्यते यद्, हे पार्थ ! तस्य कर्मयोगिनः एतस्मिन् लोके उत परलोके कुत्रापि नाशः न भवति इति । अन्यानि सकाम-लौकिक-वैदिककार्याणि सन्ति, तेषां पूर्णतायाः प्राक् मध्ये यदि खण्डनं भवति, तर्हि तानि कर्माणि फलदानि न भवन्ति । प्रत्युत पापस्य हेतवः अपि भवन्ति ।


श्रीमद्भगवद्गीतायाः श्लोकाः
  पूर्वतनः
एषा तेऽभिहिता साङ्ख्ये...
नेहाभिक्रमनाशोऽस्ति... अग्रिमः
व्यवसायात्मिका बुद्धिः...
 
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः

सम्पादयतु

बाह्यसम्पर्कतन्तुः

सम्पादयतु

उद्धरणम्

सम्पादयतु
  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. गीता, अ. ६, श्लो. ४१, ४४
  3. गीता, अ. ५, श्लो. १९
  4. गीता, अ. २, श्लो. ४८
  5. गीता, अ. ५, श्लो. २०
  6. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  7. रामानुजभाष्यम्

अधिकवाचनाय

सम्पादयतु