प्रसादे सर्वदुःखानां...
प्रसादे सर्वदुःखानाम् ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः प्रसादफलं (प्रसन्नतायाः फलं) भगवत्प्राप्तिः इति कथयति । पूर्वस्मिन् श्लोके प्रसादप्राप्तेः विवरणं कृत्वा अत्र प्रसादप्राप्तेः सर्वेभ्यः दुःखेभ्यः मुक्तिः, परमात्मनि बुद्धेः अवस्थितिः इति फलं वदति ।
प्रसादे सर्वदुःखानां... प्रसादस्य फलं भगवत्प्राप्तिः | |
---|---|
![]() | |
श्लोकसङ्ख्या | २/६५ |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | रागद्वेषवियुक्तैस्तु... |
अग्रिमश्लोकः | नास्ति बुद्धिरयुक्तस्य... |
श्लोकःसंपादित करें
- प्रसादे सर्वदुःखानां हानिरस्योपजायते ।
- प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥ ६५ ॥
पदच्छेदःसंपादित करें
प्रसादे, सर्वदुःखानाम्, हानिः, अस्य, उपजायते । प्रसन्नचेतसः, हि, आशु, बुद्धिः, पर्यवतिष्ठते ॥
अन्वयःसंपादित करें
प्रसादे (सति) अस्य सर्वदुःखानां हानिः उपजायते । प्रसन्नचेतसः हि बुद्धिः आशु पर्यवतिष्ठते ।
शब्दार्थःसंपादित करें
अन्वयः विवरणम् सरलसंस्कृतम् प्रसादे अ.पुं.स.एक चित्तनैर्मल्ये अस्य इदम्-म.सर्व.पुं.ष.एक. एतस्य सर्वदुःखानाम् अ.नपुं.ष.बहु. सकलविषादानाम् हानिः इ.स्त्री.प्र.एक. नाशः उपजायते उप+√जनी प्रादुर्भावे-आत्म.कर्तरि, लट्.प्रपु.एक. सम्भवति प्रसन्नचेतसः प्रसन्नचेतस्-स.पुं.ष.एक. निर्मलचित्तस्य हि अव्ययम् हि बुद्धिः इ.स्त्री.प्र.एक. मनः आशु अव्ययम् शीघ्रम् पर्यवतिष्ठते परि+अव+√ ष्ठा (स्था) गतिनिवृत्तौ-आत्म.कर्तरि, लट्.प्रपु.एक. निश्चलं भवति ।
व्याकरणम्संपादित करें
सन्धिःसंपादित करें
- हानिरस्य = हानिः + अस्य – विसर्गसन्धिः (रेफः)
- अस्योपजायते = अस्य + उपजायते – गुणसन्धिः
- प्रसन्नचेतसो हि = प्रसन्नचेतसः + हि – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः
- ह्याशु = हि + आशु – यण्-सन्धिः
समासःसंपादित करें
प्रसन्नचेतसः = प्रसन्नं चेतः यस्य सः, तस्य - बहुव्रीहिः
अर्थःसंपादित करें
तस्यां प्रसन्नतावस्थायाम् अस्य सर्वदुःखानां नाशः भवति । प्रसन्नचेतसः तस्य बुद्धिः भगवति निश्चला तिष्ठति ।
भावार्थः [१]संपादित करें
'प्रसादे सर्वदुःखानां हानिरस्योपजायते' – चित्तस्य प्रसन्नतायाः (स्वच्छतायाः) कारणेन सर्वेभ्यः दुःखेभ्यः मुक्तः भवति । यतः रागे सत्येव चित्ते खिन्नता भवति । खिन्नतायाः कारणेन कामना उत्पद्यते । कामना एव सर्वेषां दुःखानां मूलम् । परन्तु यदा रागो दूरीभवति, तदा चित्ते प्रसन्नता जायते । सा प्रसन्नता सर्वान् दुःखान् नाशयति । यावन्तः दुःखाः सन्ति, तावन्तः सर्वे संसारस्य (शरीरस्य) सम्बन्धे सत्येव भवन्ति । संसारेण सह सम्बन्धः सुखस्य लालसया जायते । सुखलालसायाः अभावेन संसारेण सह सम्बन्धः विच्छिनत्ति । सम्बन्धाभावे सर्वेषां दुःखानां नाशो जायते । अतः अत्र 'सर्वदुःखानां हानिः' इत्यस्य पदस्य उपयोगः कृतः । तस्य तात्पर्यम् अस्ति यत्, प्रसन्नतायाः कारणेन फलद्वयं प्राप्यते । प्रथमं तु संसारात् सम्बन्धविच्छेदः, द्वितीयं परमात्मनि बुद्धिस्थिरता । एतदेव पूर्वं भगवता 'निश्चला', 'अचला' इत्येताभ्यां पदाभ्याम् उक्तम् [२] ।
'सर्वदुःखानां हानिः' इत्यस्य पदस्य तात्पर्यम् एवं न भवति यत्, तादृशस्य मनुष्यस्य सम्मुखं दुःखदा परिस्थितिः कदापि नोद्भवष्यति इति । अपि तु कर्मानुगुणं तस्य समक्षं दुःखदायिनी परिस्थितिः उद्भवितुम् अर्हति, परन्तु तेन स्थितप्रज्ञस्य अन्तःकरणे दुःखं, सन्तापः, भयम् इत्यादयः विकाराः नोद्भवन्ति ।
'प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठति' – प्रसन्नचित्तस्य बुद्धिः शीघ्रं हि परमात्मनि स्थिरा भवति । अर्थात् साधकः स्वयं परमात्मनि स्थिरः भवति । तस्य बुद्धौ किञ्चिदपि सन्देहः न अवशिष्यते ।
मर्मःसंपादित करें
भगवत्सम्बद्धायाः व्याकूलतायाः, प्रसन्नतायाः वा यदा अतिशयित्वं भवति, तदा शीघ्रं हि परमात्मप्राप्तिः सिद्ध्यति । यथा – यदा भगवतः समीपं गच्छन्तीनां गोपीनां परिवारजनाः ताः अवरुन्धन्ति, तदा तासु भगवन्तं प्रति व्याकूलता उत्पद्यते । तया व्याकूलतया तासां सर्वाणि पापानि अनश्यन् । ततः भगवतः चिन्तने कृते या प्रसन्नता सञ्जाता, तया तेषां सर्वाणि पुण्यानि व्यनश्यन् । एवं पुण्यपापरिहताः ताः शरीरं त्यक्त्वा अविलम्बेन भगवन्तं प्राप्तवत्यः [३] । अत्र ध्यातव्यं यत्, सांसारिकविषयैः ये प्रसन्नता, व्याकूलता (खिन्नता) च भवतः, ते भोगसंस्कारान् दृढयतः । संसारस्य सामान्यमनुष्याः प्रसन्नतायाः, खिन्नतायाः च कारणेन संसारेऽस्मिन् बद्धाः सन्ति ।
प्रसन्नतायाः, व्याकूलतायाः च कारणेन अन्तःकरणं द्रवितं भवति । यथा द्रवितायां सिक्थवर्तिकायां (Candle) रङ्गे मिश्रिते कृते सः रङ्गः सिक्थवर्तिकायां स्थायी भवति, तथैव द्रवितान्तःकरणे भगवत्सम्बन्धिभावः उत संसारसम्बन्धिभावे मिश्रिते कृते सः भावः अन्तःकरणे स्थायी भवति । सः स्थायिभाव एव मनुष्यस्य उत्थानस्य, पतनस्य च कारणं भवति । अतः साधकः संसारस्य इष्टतमं वस्तु प्राप्यापि प्रसन्नो मा भूयात् । तथैव अप्रियतमं वस्तु प्राप्य उद्विग्नो मा भूयात् इति ।
शाङ्करभाष्यम् [४]संपादित करें
प्रसादे सति किं स्यात् इत्युच्यते - प्रसाद इति ।
प्रसादे सर्वदुःखानाम् आध्यात्मिकादीनां हानिः विनाशः अस्य यतेः उपजायते । किञ्च प्रसन्नचेतसः स्वस्थान्तःकरणस्य हि यस्मात् आशु शीघ्रं बुद्धिः पर्यवतिष्ठते आकाशमिव परि समन्तात् अवतिष्ठते आत्मस्वरूपेणैव निश्चलीभवतीत्यर्थः ।। एवं प्रसन्नचेतसः अवस्थितबुद्धेः कृतकृत्यता यतः तस्मात् रागद्वेषवियुक्तैः इन्द्रियैः शास्त्राविरुद्धेषु अवर्जनीयेषु युक्तः समाचरेत् इति वाक्यार्थः ।।
भाष्यार्थःसंपादित करें
प्रसन्नतायां सत्यां किं भवति ? चेत् फलं वदति –
प्रसन्नतायां सत्यां यतेः आध्यात्मिकादीनि त्रिविधानि दुःखानि विनष्टानि जायन्ते । यतः तस्य प्रसन्नचित्तस्य अर्थात् स्वस्थान्तःकरणयुक्तस्य पुरुषस्य बुद्धिः शीघ्रं हि आकाशवत् स्थिरा भवति । एवं तस्य बुद्धिः आत्मस्वरूपे निश्चला भवति । एतस्य वाक्यस्य अभिप्रायः अस्ति यत्, प्रसन्नचित्तः, स्थितबुद्धिः पुरुषः कृतकृत्यतां प्राप्नोति इति । अतः साधकपुरुषः रागद्वेषयोः रहितैः इन्द्रियैः शास्त्राविरोधिनाम् अनिवार्यविषयाणां सेवनं कुर्यात् ।
रामानुजभाष्यम् [५]संपादित करें
अस्य पुरुषस्य मनसः प्रसादे सति प्रकृतिसंसर्गप्रयुक्तसर्वदुःखानां हानिः उपजायते। प्रसन्नचेतसः आत्मावलोकनविरोधिदोषरहितमनसः तदानीम् एव हि विविक्तात्मविषया बुद्धिः मयि पर्यवतिष्ठते अतो मनःप्रसादे सर्वदुःखानां हानिः भवति एव।
भाष्यार्थःसंपादित करें
एतादृशस्य निर्मलमनस्कस्य पुरुषस्य प्रकृतिसंसर्गजनितानि सर्वाणि दुःखानि नश्यन्ति । तस्य प्रसन्नचित्तस्य आत्मसाक्षात्कारविरोधिदोषरहितस्य पुरुषस्य प्रकृतिसंसर्गरहिता आत्मविषयिणी बुद्धिः तस्मिन् एव क्षणे मयि सर्वथा स्थिरीभवति । एवं मनसः प्रसादेन अर्थाद् मनसः निर्मलतायाः कारणेन समस्तदुःखानां नाशः निश्चयेन भवति ।
|
सम्बद्धाः लेखाःसंपादित करें
बाह्यसम्पर्कतन्तुःसंपादित करें
विकिमीडिया कॉमन्स् मध्ये प्रसादे सर्वदुःखानां... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्संपादित करें
- ↑ श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
- ↑ गीता, अ. २, श्लो. ५३
- ↑ अन्तर्गृहगताः काश्चिद् गोप्योऽलब्धविनिर्गमाः । कृष्णं तद्भावनायुक्ता दध्युर्मीलितलोचनाः ।। दुःसहप्रेष्ठविरहतीव्रतापधुताशुभाः । ध्यानप्राप्ताच्युताश्लेषनिर्वृत्या क्षीणमङ्गलाः ।। तमेव परमात्मानं जारबुद्ध्यापि सङ्गताः । जहुर्गुणमयं देहं सद्यः प्रक्षीणबन्धनाः ।। श्रीमद्भागवतमहापुराणम्, १०/२९/९-११
- ↑ श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
- ↑ रामानुजभाष्यम्
अधिकवाचनायसंपादित करें
- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च