तस्माद्यस्य महाबाहो...
तस्माद्यस्य महाबाहो ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः युक्तपुरुषस्य बुद्धिस्थिरतां वर्णयति । पूर्वस्मिन् श्लोके भगवान् अयुक्तस्य मनुष्यस्य बुद्धिः कथम् अस्थिरा भवति इत्यस्य वर्णनम् अकरोत् । अत्र युक्तस्य पुरुषस्य बुद्धिः कथं स्थिरा भवति इति कथयति ।
तस्माद्यस्य महाबाहो... इन्द्रियनिगृहीतस्य बुद्धिः प्रतिष्ठिता | |
---|---|
श्लोकसङ्ख्या | २/६८ |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | इन्द्रियाणां हि चरतां... |
अग्रिमश्लोकः | या निशा सर्वभूतानां... |
श्लोकः
सम्पादयतु- तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।
- इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ ६८ ॥
पदच्छेदः
सम्पादयतुतस्मात्, यस्य, महाबाहो, निगृहीतानि, सर्वशः । इन्द्रियाणि, इन्द्रियार्थेभ्यः, तस्य, प्रज्ञा, प्रतिष्ठिता ॥
अन्वयः
सम्पादयतुमहाबाहो ! तस्मात् यस्य इन्द्रियाणि इन्द्रियार्थेभ्यः सर्वशः निगृहीतानि तस्य प्रज्ञा प्रतिष्ठिता (भवति) ।
शब्दार्थः
सम्पादयतुअन्वयः विवरणम् सरलसंस्कृतम् महाबाहो उ.पुं.सम्बो.एक. हे अर्जुन ! तस्मात् तद्-द.सर्व.नपुं.पं.एक. ततः यस्य यद्-द.सर्व.पुं.ष.एक. यस्य पुरुषस्य इन्द्रियाणि अ.नपुं.प्र.बहु. चक्षुरादीनि इन्द्रियार्थेभ्यः अ.पुं.पं.बहु. रूपादिविषयेभ्यः सर्वशः अव्ययम् सर्वथा निगृहीतानि अ.नपुं.प्र.बहु. नियन्त्रितानि तस्य तद्-द.सर्व.पुं.ष.एक. तस्य पुरुषस्य प्रज्ञा आ.स्त्री.प्र.एक. बुद्धिः प्रतिष्ठिता आ.स्त्री.प्र.एक. अतिस्थिरा ।
व्याकरणम्
सम्पादयतुसन्धिः
सम्पादयतु- तस्माद्यस्य = तस्मात् + यस्य – जश्त्वसन्धिः
- इन्द्रियाणीन्द्रियार्थेभ्यः = इन्द्रियाणि + इन्द्रियार्थेभ्यः - सवर्णदीर्घसन्धिः
- इन्द्रियार्थेभ्यस्तस्य = इन्द्रियार्थेभ्यः + तस्य – विसर्गसन्धिः (सकारः)
- युक्तो यया = युक्तः + यया – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः
कृदन्तः
सम्पादयतु- निगृहीतानि = नि + ग्रह् + क्त (कर्मणि)
अर्थः
सम्पादयतुहे महाबाहो अर्जुन ! तस्मात् त्वं जानीहि यत् यस्य इन्द्रियाणि रूपरसादिभ्यः इन्द्रियार्थेभ्यः सर्वशः निगृहीतानि भवन्ति तस्य प्रज्ञा प्रतिष्ठिता भवति ।
अतः हे महाबाहो ! यस्य मनुष्यस्य इन्द्रियाणि इन्द्रियविषयेभ्यः सर्वथा निगृहीतानि (वशीकृतानि) सन्ति, तस्य बुद्धिः स्थिरा अस्ति । अत्र इन्द्रियाणां वशीकरणस्य यः विषयः षष्टतमात् श्लोकात् आरब्धः आसीत्, तस्य विषयस्य "तस्मात्" इत्यनेन शब्देन उपसंहारं करोति । एवम् उपसंहारं कुर्वन् भगवान् वदति यत्, यस्य मनः, इन्द्रियाणि च संसारात् आसक्तानि न सन्ति, तस्य बुद्धिः प्रतिष्ठिता अस्ति इति ।
अत्र 'सर्वशः' इत्यस्य शब्दस्य तात्पर्यम् अस्ति यत्, सांसारिकप्रवृत्तिषु उत एकान्तचिन्तने कस्याञ्चित् अवस्थायाम् अपि तस्य मनुष्यस्य इन्दियाणि भोगेषु उत विषयेषु प्रवृत्तानि न भवन्ति । व्यवहारकाले अनेके विषयाः तस्य सम्मुखम् उपस्थिताः भवन्ति, परन्तु सः विचलितः न भवति । तस्य मनः अपि इन्द्रियैः सह युक्तं सत् बुद्धिं विचलितां कर्तुं न प्रभवति । यथा पर्वतं कोऽपि चालयितुं न सम्भवति, तथैव तस्य बुद्धिः दृढा भवति । तां बुद्धिं कोऽपि विचालयतुं न शक्नोति । किञ्च तस्य मनसि विषयाणां महत्त्वं नास्ति ।
'निगृहीतानि' – इत्यस्य तात्पर्यम् अस्ति यत्, इन्द्रियाणि विषयेभ्यः पूर्णतया विमुखीनि भवन्ति । अर्थात् विषयेषु इन्द्रियाणां किञ्चिदपि रागः, आसक्तिः, आकर्षणं च नावशिष्यते । यथा सर्पस्य दन्ते निष्काषिते सति तस्मिन् विषं न भवति, तथैव इन्द्रियाणां रागद्वेषेभ्यः मुक्तिः विषयुक्तदन्तेभ्यः मुक्तिवत् अस्ति । यथा विषदन्ते गते सति यद्यपि सर्पः दंशति, तथापि तस्य प्रभावः न भवति, तथैव इन्द्रियाणां रागद्वेषरहिते सति साधकस्य पतनं न भवति ।
एतस्य सम्पूर्णस्य श्लोकस्य तात्पर्यम् अस्ति यत्, साधकेन दृढतया स्वपरमात्मप्राप्तेः लक्ष्यं प्राप्तुं सङ्कल्पः करणीयः । भोगः, सङ्ग्रहः च न मे लक्ष्यम् इति तेन साधकेन सावधानतया चिन्तनीयम् । एवं यदि सावधानतया सङ्कल्पं नैरन्तर्येण पालयति, तर्हि तस्य साधकस्य बुद्धिः स्थिरा भवति ।
यततो हि इत्युपन्यस्तस्यार्थस्य अनेकधा उपपत्तिमुक्त्वा तं चार्थमुपपाद्य उपसंहरति -
इन्द्रियाणां प्रवृत्तौ दोष उपपादितो यस्मात् तस्मात् यस्य यतेः हे महाबाहो निगृहीतानि सर्वशः सर्वप्रकारैः मानसादिभेदैः इन्द्रियाणि इन्द्रियार्थेभ्यः शब्दादिभ्यः तस्य प्रज्ञा प्रतिष्ठिता ।।
भाष्यार्थः
सम्पादयतु'यततो ह्यपि' इत्यनेन श्लोकेन प्रतिपादितस्य अर्थस्य अनेकधा उपपत्तिं प्रदर्श्य तम् अभिप्रायं साधयितुं अत्र उपसंहारं करोति –
यतः इन्द्रियाणां प्रवृत्तौ दोषः सिद्धः अस्ति, अतः हे महाबाहो ! यस्य साधकस्य इन्द्रियाणि विषयेभ्यः सर्वथा अर्थात् मानसिकादिभेदेभ्यः निगृहीतानि सन्ति, तस्य बुद्धिः प्रतिष्ठिता अस्ति ।
तस्माद् उक्तेन प्रकारेण शुभाश्रये मयि निविष्टमनसो यस्य इन्द्रियाणि इन्द्रियार्थेभ्यः सर्वशो निगृहीतानि तस्य एव आत्मनि प्रज्ञा प्रतिष्ठिता भवति।
भाष्यार्थः
सम्पादयतुअत एव पूर्वोक्तेन विधिना शुभाश्रयरूपिणि मयि (परमेश्वरे) सँल्लग्नमनस्कस्य यस्य पुरुषस्य इन्द्रियाणि इन्द्रियविषयेभ्यः सर्वथा निगृहीतानि सन्ति, तस्य बुद्धिः आत्मनि स्थिरा भवति ।
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये तस्माद्यस्य महाबाहो... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्
सम्पादयतु- ↑ साधकसंजीवनी, स्वामी रामसुखः, गीताप्रेस
- ↑ श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
- ↑ रामानुजभाष्यम्
अधिकवाचनाय
सम्पादयतु- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च