दुःखेष्वनुद्विग्नमनाः...
दुःखेष्वनुद्विग्नमनाः ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अर्जुनस्य द्वितीयप्रश्नस्य उत्तरं ददाति । "किं प्रभाषेत" इति अर्जुनस्य द्वितीयः प्रश्नः आसीत् । तस्य उत्तरं यच्छन् अत्र भगवान् श्रीकृष्णः स्थितप्रज्ञं द्वन्द्वतं वदति ।
दुःखेष्वनुद्विग्नमनाः... "किं प्रभाषेत" इत्यस्य उत्तरम् १ | |
---|---|
![]() | |
श्लोकसङ्ख्या | २/५६ |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | प्रजहाति यदा कामान् |
अग्रिमश्लोकः | यः सर्वत्रानभिस्नेहः |
अर्जुनः अपृच्छत् यत्, स्थितप्रज्ञः कथं वदतीति । तस्य प्रश्ने क्रियायाः प्रधानता आसीत्, परन्तु भगवान् भावं प्रधानत्वेन स्वीकृत्य उत्तरं ददाति । यतो हि क्रियासु भाव एव मुख्यः । क्रियामात्रं भावपूर्वकमेव भवति । भावानां परिवर्तने सति क्रियासु अपि परिवर्तनं जायते । अर्थात्, क्रियायाः बाह्यस्वरूपं मूलोद्देश्यानुसारं दरीदृश्यते, परन्तु वस्तुतः क्रिया तथा भाववाहिनी न भवति । अतः अर्जुनस्य प्रश्ने क्रियाप्राधान्ये सत्यपि श्रीभगवान् अत्र भावप्रधानं स्वीकृत्य उत्तरं ददाति । केवलम् अत्र न अपि तु सम्पूर्णायां गीतायां भगवान् अर्जुनस्य क्रियाप्रधानस्य प्रश्नस्य भावप्रधानत्वेन स्वीकृत्य उत्तरं ददाति [१] ।
श्लोकः
सम्पादयतु- दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
- वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ ५६ ॥
पदच्छेदः
सम्पादयतुदुःखेषु, अनुद्विग्नमनाः, सुखेषु, विगतस्पृहः । वीतरागभयक्रोधः, स्थितधीः, मुनिः, उच्यते ॥
अन्वयः
सम्पादयतुदुःखेषु अनुद्विग्नमनाः सुखेषु विगतस्पृहः वीतरागभयक्रोधः मुनिः स्थितधीः उच्यते ।
शब्दार्थः
सम्पादयतुदुःखेषु अ.नुपुं.स.बहु. आपत्सु अनुद्विग्नमनाः अनुद्विग्नमनस्-स.पुं.प्र.एक. उद्वेगशून्यचित्तः सुखेषु अ.नपुं.स.बहु. सम्पत्सु विगतस्पृहः अ.पुं.प्र.एक. नष्टाभिलाषः वीतरागभयक्रोधः अ.पुं.प्र.एक. रागद्वेषभयरहितः मुनिः इ.पुं.प्र.एक. मौनी स्थितधीः ई.पुं.प्र.एक. दृढबुद्धिः उच्यते √वच् परिभाषणे-पर.कर्मणि, लट्.प्रपु.एक. कथ्यते ।
व्याकरणम्
सम्पादयतुसन्धिः
सम्पादयतु- दुःखेष्वनुद्विग्नमनाः = दुःखेषु + अनुद्विग्नमनाः यण्सन्धिः ।
- स्थितधीर्मुनिरुच्यते = स्थितधीः + मनुः - स्थितधीर्मुनिः विसर्गसन्धिः (रेफः) । स्थितधीर्मुनिः + उच्यते - विसर्गसन्धिः (रेफः)
समासः
सम्पादयतु- अनुद्विग्नमनाः = अनुद्विग्नं मनः यस्य सः - बहुव्रीहिः ।
- विगतस्पृहः = विगता स्पृहा यस्मात् सः - बहुव्रीहिः ।
- वीतरागभयक्रोधः = रागः भयं क्रोधः च रागभयक्रोधाः - द्वन्द्वः । वीताः रागभयक्रोधाः यस्मात् सः - बहुव्रीहिः ।
- स्थितधीः - स्थिता धीः यस्य सः - बहुव्रीहिः ।
कृदन्तः
सम्पादयतुविगतः = वि + गम्लृ + क्त (कर्तरि)
तात्पर्यम्
सम्पादयतुस्थितप्रज्ञस्य मनः दुःखेषु अनुद्विग्नं भवति । सः सुखेषु स्पृहावान् न भवति । रागात् भयात् क्रोधात् च सः अतीतः भवति ।
भाष्यार्थः
सम्पादयतु'सुखेषु विगतस्पृहः' – सुखे सति, सुखस्य सम्भावनायां सत्याम् अपि यस्य मनसि स्पृहा न भवति । अर्थात्, वर्तमानकाले अनुकूलतायाः परिस्थितौ सत्यपि "एषा स्थितिः सर्वदा एवमेव भवेत्" इति स्पृहा तस्य अन्तःकरणे नोद्भवति ।
'वीतरागभयक्रोधः' – संसारस्य पदार्थान् प्रति ममत्वं 'रागः' उच्यते । पदार्थेषु रागस्य स्थितौ अपरः कश्चन तस्य पदार्थस्य हानिं कुर्यात्, तं पदार्थं दूरीकुर्यात् इत्यादिभिः 'भयम्' उद्भवति । तस्मात् भयात् 'क्रोधः' समुद्भवति । परन्तु यस्य मनसि अन्यं सुखिनं कर्तुं भावः अस्ति, तस्य रागः स्वाभाविकतया दूरीभवति । रागः भयस्य, क्रोधस्य च मूलं भवति । रागे व्यपगते सः मनुष्यः भयात्, क्रोधात् अपि रहितः भवति । यावत्पर्यन्तम् आंशिकरूपेण उद्वेगः, स्पृहा, रागः, भयं, क्रोधः च भवति, तावत्पर्यन्तं सः साधकः उच्यते । तेभ्यः सर्वदा रहिते सति सः सिद्धः उच्यते ।
'स्थितधीर्मुनिरुच्यते' – तादृशस्य मननशीलस्य कर्मयोगिनः बुद्धिः स्थिरा, अचला च भवति । 'मुनि' इत्यस्य शब्दस्य वाण्या सह सम्बन्धः अस्ति । अतः भगवान् 'किं प्रभाषेत' इत्यस्य उत्तरत्वेन 'मुनि' इत्यस्य शब्दस्य उपयोगं करोति । परन्तु वस्तुतः 'मुनि' इत्यस्य शब्दस्य अर्थः केवलं वाण्याम् एव अवलम्बितः नास्ति । अतः भगवान् अग्रे 'मौन' इत्यस्य शब्दस्य प्रयोगः मानासिकतपसः अर्थे अपि करोति [२] ।
मर्मः
सम्पादयतुवासना, कामना इत्यादीनि रागस्य एव स्वरूपाणि भवन्ति । केवलं वासनायाः तारतम्यत्वात् (अनुपातानुसारेण) तस्याः विभिन्नानि नामानि सन्ति । यथा अन्तःकरणे गूढः 'रागः' 'वासना'त्वेन सम्बोद्ध्यते । वासनायाः अपरे नामनी 'आसक्तिः', 'प्रीतिः', 'आशा', 'लोभः', 'तृष्णा' च । किञ्चित् वस्तु अहं प्राप्नोमि इति वासना 'कामना' उच्यते । कामनासिद्धेः सम्भावना 'आशा' कथ्यते । कामनायाः परिपूर्तौ अपि अधिकं प्राप्तुम् इच्छा 'लोभः' मन्यते । लोभस्य अति 'तृष्णा' उच्यते । अस्य तात्पर्यम् अस्ति यत्, उत्पत्तिविनाशशीलपदार्शेषु ममत्वं वासना, कामाना इत्यादिभिः भिन्ननामभिः परिलक्ष्यते ।
कर्मयोगस्य विषयत्वात् अत्र मननशीलं कर्मयोगी 'मुनिः' इति उक्तः । मननशीलातायाः तात्पर्यम् अस्ति यत्, सावधानतया मननम् । यस्य मनसि कामना, आसक्तिः इत्यादयः न भवेयुः । नैरन्तर्येण अनासक्तिः एव सिद्धकर्मयोगिनः सावधानत्वम् अस्ति । यतो हि अग्रे साधकावस्थायाम् अपि सः सावधानः आसीत्, तस्य फलस्वरूपमेव सः परमात्मतत्त्वे स्थिरः अस्ति [३] ।
किञ्च दुःखेष्विति ।
दुःखेषु आध्यात्मिकादिषु प्राप्तेषु न उद्विग्नं न प्रक्षुभितं दुःखप्राप्तौ मनो यस्य सोऽयम् अनुद्विग्नमनाः। तथा सुखेषु प्राप्तेषु विगता स्पृहा तृष्णा यस्य न अग्निरिव इन्धनाद्याधाने सुखान्यनु विवर्धते स विगतस्पृहः। वीतरागभयक्रोधः रागश्च भयं च क्रोधश्च वीता विगता यस्मात् स वीतरागभयक्रोधः। स्थितधीः स्थितप्रज्ञो मुनिः संन्यासी तदा उच्यते।।
भाष्यार्थः
सम्पादयतुआध्यामिकादीनां त्रिविधानां दुःखानां प्राप्तौ यस्य मनः उद्विग्नं न भवति, अर्थात् क्षोभः न भवति, सः 'अनुद्विग्नमनाः' उच्यते । तथा च सुखानां प्राप्तौ स्पृहा, तृष्णा च न भवति, अर्थात् यथा ईन्धनक्षेपणे सति यथा अग्निः उग्रः भवति, तथा सुखप्राप्त्युतत्तरं यस्य लालसा न वर्धते, सः 'विगतस्पृहः' उच्यते ।
एवम् आसक्तिः, भयः, क्रोधश्च यस्य नष्टाः सन्ति, सः 'वीतरागभयक्रोधः' उच्यते । यदा कश्चन एतादृशैः गुणैः युक्तः भवति, तदा सः स्थितधीः अर्थात् स्थितप्रज्ञः, मुनिः, संन्यासी वा उच्यते ।। ५६ ।।
अनन्तरं ज्ञाननिष्ठस्य ततः अर्वाचीना अदूरविप्रकृष्टावस्था उच्यते -
प्रियविश्लेषादि दुःखनिमित्तेषु उपस्थितेषु अनुद्विग्नमनाः न दुःखी भवति सुखेषु विगतस्पृहः प्रियेषु सन्निहितेषु अपि निःस्पृहः वीतरागभयक्रोधः अनागतेषु स्पृहा रागस्तद्रवितः प्रियविश्लेषाप्रियागमनहेतुदर्शननिमित्तिं दुःखं भयम् तद्रहितः प्रियविश्लेषाप्रियागमनहेतुभूतचेतनान्तरगतो दुःखहेतुः स्वमनोविकारः क्रोधः तद्रहितः एवंभूतो मुनिः आत्ममननशीलः स्थितधीः इति उच्यते।
भाष्यार्थः
सम्पादयतुइतः परम् अत्र ज्ञाननिष्ठस्य पुरुषस्य अर्वाचीनां स्थितिम् अर्थाद् अन्तिमस्थितेः समीपस्था या अवस्था अस्ति, ताम् उपस्थापयति –
प्रियवियोगादीनां दुःखनिमित्तकानाम् उपस्थित्यां सत्याम् अपि यः अनुद्विग्नचित्तः भवति अर्थाद् दुःखी न भवति, यः सुखेषु स्पृहारहितः भवति अर्थाद् प्रियपदार्थानां सन्नैकट्ये प्राप्तेऽपि यः तेषाम् इच्छां न करोति, यः रागभयक्रोधादिभ्यः रहितः भवति, तादृशः मुनिः स्थितप्रज्ञः उच्यते । अप्राप्तपदार्थेषु स्पृहा 'रागः' इति । प्रियवियोगस्य, अप्रियप्राप्तेः निमित्तं दृष्ट्वा यद् दुःखम् उत्पद्यते, तद् 'भयम्' इति । एवं प्रियवियोगस्य, अप्रियप्राप्तेः च निमित्ताद् अपरेषु जीवेषु जातस्य दुःखस्य हेतुभूतं यः मनसः विकारः अस्ति, सः क्रोधः इति । यः एतेभ्यः त्रिभ्यः दोषेभ्यः रहितः अस्ति, तादृशः मुनिः अर्थाद् आत्ममननशीलः पुरुषः स्थितप्रज्ञः उच्यते ।
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये दुःखेष्वनुद्विग्नमनाः... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्
सम्पादयतुअधिकवाचनाय
सम्पादयतु- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च