यः सर्वत्रानभिस्नेहः...
यः सर्वत्रानभिस्नेहः ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अर्जुनस्य द्वितीयप्रश्नस्य उत्तरं ददाति । पूर्वस्मिन् श्लोके स्थितप्रज्ञः कथं वदतीति उक्त्वा अस्मिन् श्लोकेऽपि स्थितप्रज्ञस्य लक्षणं वदति ।
यः सर्वत्रानभिस्नेहः... "किं प्रभाषेत" इत्यस्य उत्तरम् २ | |
---|---|
श्लोकसङ्ख्या | २/५७ |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | दुःखेष्वनुद्विग्नमनाः |
अग्रिमश्लोकः | यदा संहरते चायं |
श्लोकः
सम्पादयतु- यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ।
- नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ ५७ ॥
पदच्छेदः
सम्पादयतुयः, सर्वत्र, अनभिस्नेहः, तत्, तत्, प्राप्य, शुभाशुभम् । न, अभिनन्दति, न, द्वेष्टि, तस्य, प्रज्ञा, प्रतिष्ठिता ॥
अन्वयः
सम्पादयतुयः सर्वत्र अनभिस्नेहः तत् तत् शुभाशुभम् प्राप्य न अभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता (भवति) ।
शब्दार्थः
सम्पादयतुयः यद्-द.सर्व.पुं.प्र.एक. यः पुरुषः सर्वत्र अव्ययम् सर्वदा अनभिस्नेहः अ.पुं.प्र.एक. अननुरागः तत् तत् तद्-द.सर्व.नपुं.प्र.एक. तत् तत् शुभाशुभम् अ.नपुं.द्वि.एक. साधु असाधु वा प्राप्य ल्यबन्तम् अव्ययम् लब्ध्वा न अव्ययम् न अभिनन्दति अभि+√(टु)नदि समृद्धौ-पर.कर्तरि, लट्.प्रपु.एक प्रहृष्यति न अव्ययम् न द्वेष्टि द्विष् अप्रीतौ-पर.कर्तरि लट्.प्रपु.एक कलहायते तस्य तद्-द.सर्व.पुं.ष.एक. तादृशस्य प्रज्ञा आ.स्त्री.एक. बुद्धिः प्रतिष्ठिता आ.स्त्री.एक. अतिस्थिरा ।
व्याकरणम्
सम्पादयतुसन्धिः
सम्पादयतु- सर्वत्रानभिस्नेहः = सर्वत्र + अनभिस्नेहः - सवर्णदीर्घसन्धिः ।
- अनभिस्नेहस्तत् = अनभिस्नेहः + तत् – विसर्गसन्धिः (सकारः)
- नाभिनन्दति = न + अभिनन्दति – सवर्णदीर्घसन्धिः
समासः
सम्पादयतु- अनभिस्नेहः = न विद्यते अभिस्नेहः यस्य सः – नञ्-बहुव्रीहिः ।
- शुभाशुभम् = शुभं च अशुभं च अनयोः समाहारः – द्वन्द्वः ।
कृदन्तः
सम्पादयतु- प्राप्य = प्र + आप् + ल्यप् ।
- प्रतिष्ठिता = प्रति + स्था + क्त (कर्तरि)
तात्पर्यम्
सम्पादयतुस्थितप्रज्ञः देहजीवितादिषु सर्वत्र स्नेहरहितः भवति । सः शुभं प्राप्य न अभिनन्दति । अशुभं प्राप्य न द्वेष्टि । शुभाशुभयोः विषये सः निर्लिप्तः भवति ।
भाष्यार्थः
सम्पादयतु'यः सर्वत्रानभिस्नेहः' – यस्य सांसारिकवस्तुषु ममत्वं नास्ति । धनवैभवानां प्राप्तिः सर्वोपरितायाः, ततः धनवैभवानां नाशश्च सर्वस्वनाशस्य च बोधं जनयति इति वस्तुभिः सह एकात्मयुक्तः स्नेहः एव 'अभिस्नेहः' उच्यते । स्थितप्रज्ञस्य कर्मयोगिनः कस्मिँश्चित् वस्तुनि किञ्चिदपि अभिस्नेहः न भवति । वस्तु-व्यक्ति-पदार्थादीनां बाह्यसंयोगे सत्यपि आन्तरिकनिर्लिप्तता सर्वदा भवति ।
'तत्तत्प्राप्य शुभाशुभं नाभिनन्दति न द्वेष्टि' – यदा पूर्वप्रारब्धवशात् मनुष्यस्य जीवने अनुकूला, प्रतिकूला च परिस्थितिः उद्भवति, तदा सः अनुकूलपरिस्थितौ आनन्दितः, प्रतिकूलपरिस्थितौ दुःखी च न भवति । परन्तु यः साधकः परिस्थित्यनुसारम् आनन्दितः, दुःखी च न भवति, तस्य अन्तरं निर्लिप्तं भवति । 'तत्तत्' इत्यस्य तात्पर्यम् अस्ति यत्, साधकस्य जीवने याः अनूकूलाः, प्रतिकूलाः च परिस्थितयः समुद्भवन्ति, तासु परस्थितिषु कदापि साधकः हर्षद्वेषयुक्तः न भवति इति ।
'तस्य प्रज्ञा प्रतिष्ठिता' – तस्य बुद्धिः प्रतिष्ठता अर्थात् एकरूपा अस्ति । साधनावस्थायां तस्य या व्यवसायात्मिका बुद्धिः आसीत्, सा अधुना परमात्मनि निश्चला, अचला च अस्ति । तस्य बुद्धौ विवेकः पूर्णतया प्रबुद्धः अस्ति । तेन सः जानाति यत्, संसारे यत्किमपि प्रतिकूलमनुकूलं च जायमानम् अस्ति, तेन सह मम कोऽपि सम्बन्धः नास्ति इति । वस्तुतः भेदः शरीरे, इन्द्रियेषु, मनसि, स्वरूपे वा न भवति । किञ्च, स्वरूपस्य परिवर्तनं किञ्चिदपि न भवति । प्रकृतिः, प्रकृतेः कार्याणि च परिवर्तनशीलानि भवन्ति । अतः शरीरादिषु परिवर्तनं स्वाभाविकम् अस्ति । तत्र तु परिवर्तनं जायते एव । अतः तत्रापि परिवर्तनम् अभवत् इति वक्तुं न शक्यते । अर्थात् शरीरादिभिः स्वस्वभावः न त्यक्तः । स्वरूपेण स्वस्वभावः न त्यक्तः । तर्हि कस्य स्वभावे परिवर्तनम् अभवत् ? चेत्, बुद्धेः स्वभावे परिवर्तनम् अभवत् । शरीरादिभिः सह तादात्म्यस्य कारणेन यथा सांसारिकघटनानां प्रभावः बुद्धौ भवति स्म, तथा तादात्म्याभावे सांसारिकघटनानां, परिवर्तनस्य च प्रभावः बुद्धौ न भवति । एवं बुद्धिः प्रतिष्ठिता भवति ।
एतस्य द्वितीयायामः अपि अस्ति यत्, कस्यचित् मनुष्यस्य बुद्धिः यावती बलवती, तीव्रा वा स्यात्, परन्तु सा बुद्धिः परमात्मानं बुद्धेः, विचारस्य च स्तरे आनेतुं न शक्नोति । यतो हि बुद्धिः सीमिता अस्ति, परमात्मा च असीमितः । परन्तु तस्मिन् असीमिते परमात्मनि यदा बुद्धिः लीना भवति, तदा तस्यां सीमितायां बुद्धौ परमात्मानं विहाय किमपि न भवति । बुद्धेः तादृशी अवस्था एव प्रतिष्ठतावस्था उच्यते ।
मर्मः
सम्पादयतुकर्मयोगी क्रियाशीलः भवति । अतः भगवान् कर्मसिद्ध्यसिद्ध्ययोः निःस्पृहः, उद्वेगरहितश्च भवितुं कथयति [१] । तथा च प्रारब्धानुसारं सम्प्राप्तायाः परिस्थित्याः च अभिनन्दनं, द्वेषः च न कर्तव्यः इति अत्र उक्तवान् ।
किञ्च - यः सर्वत्रेति ।
यः मुनिः सर्वत्र देहजीवितादिष्वपि अनभिस्नेहः अभिस्नेहवर्जितः तत्तत् प्राप्य शुभाशुभं तत्तत् शुभं अशुभं वा लब्ध्वा न अभिनन्दति न द्वेष्टि शुभं प्राप्य न तुष्यति न हृष्यति अशुभं च प्राप्य न द्वेष्टि इत्यर्थः। तस्य एवं हर्षविषादवर्जितस्य विवेकजा प्रज्ञा प्रतिष्ठिता भवति।।
भाष्यार्थः
सम्पादयतुयः मनुष्यः सर्वत्र अर्थात् शरीरे ,जीवने च स्नेहरहितः जातः अस्ति, यः शुभाशुभं प्राप्यापि प्रसन्नः, द्वेषी च न भवति, तस्य विवेकविषादरहितस्य मनुष्यस्य विवेकजनिता बुद्धिः प्रतिष्ठिता भवति ।
ततः अर्वाचीनदशा प्रोच्यते -
यः सर्वत्र प्रियेषु अनभिस्नेहः उदासीनः प्रियसंश्लेषविश्लेषरूपं शुभाशुभं प्राप्य अभिनन्दनद्वेषरहितः सोऽपि स्थितप्रज्ञः।
भाष्यार्थः
सम्पादयतुआत्मतत्तवस्य या अर्वाचीना स्थितिः उक्ता, तस्याः अर्वाचीनायाः स्थितेः अपि अर्वाचीनाम् अर्थाद् तस्याः स्थितेः पूर्वतनीं स्थितिं वर्णयति –
यः सर्वत्र प्रियपदार्थेषु स्नेहरहितः अर्थाद् उदासीनः अस्ति, प्रियपदार्थानां संयोगवियोगरूपं शुभाशुभं प्राप्य हर्षद्वेषरहितः अस्ति, सोऽपि स्थितप्रज्ञः अस्ति ।
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये यः सर्वत्रानभिस्नेहः... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्
सम्पादयतु- ↑ गीता, अ. २, श्लो. ५६
- ↑ श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
- ↑ रामानुजभाष्यम्
अधिकवाचनाय
सम्पादयतु- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च