आपूर्यमाणमचलप्रतिष्ठं...
आपूर्यमाणमचलप्रतिष्ठम् ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः ज्ञानिमहापुरुषस्य महिमानं करोति । पूर्वस्मिन् श्लोके मननशीलस्य संयमिनः पुरुषस्य कृते संसारः रात्रिवत् अस्ति इत्युक्तम् । तेन प्रश्नः उत्पद्यते यत्, किं सः ज्ञानी पुरुषः पदार्थानां सम्पर्के अपि न भवति ? यदि सः पदार्थसम्पर्कं न करोति, तर्हि सः स्वजीवननिर्वाहं कथं करोति ? यदि सः पदार्थसम्पर्कीभवति, तर्हि तस्य स्थितिः कीदृशी भवेत् ? इत्यादीनां प्रश्नानाम् उत्तरं यच्छन् ज्ञानिमहापुरुषस्य प्रशंसां कुर्वन् भगवान् वदति यत्, यथा सर्वासां नदीनां जलं समुद्रे वलीनं भवति, परन्तु समुद्रः सर्वदा स्वमर्यादायाम् अचलः, प्रतिष्ठितः च भवति, तथैव भोगपदार्थेषु विकारम् अनुत्पाद्य यः संयमी मनुष्यः भोग्यपदार्थान् प्राप्नोति, सः मनुष्यः एव परमशान्तिं प्राप्नोति । सः कदापि भोगकामनायुक्तः न भवति इति ।
आपूर्यमाणमचलप्रतिष्ठं... ज्ञानिपुरुषस्य महिमा | |
---|---|
![]() | |
श्लोकसङ्ख्या | २/७० |
श्लोकच्छन्दः | उपजातिच्छन्दः |
पूर्वश्लोकः | या निशा सर्वभूतानां... |
अग्रिमश्लोकः | विहाय कामान्यः सर्वान्... |
श्लोकःसंपादित करें
- आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् ।
- तद्वत् कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥ ७० ॥
पदच्छेदःसंपादित करें
आपूर्यमाणम्, अचलप्रतिम्, समुद्रम्, आपः, प्रविशन्ति, यद्वत् । तद्वत्, कामाः, यम्, प्रविशन्ति, सर्वे, सः, शान्तिम्, आप्नोति, न, कामकामी ॥
अन्वयःसंपादित करें
आपः आपूर्यमाणम् अचलप्रतिं समुद्रम् यद्वत् प्रविशन्ति तद्वत् सर्वे कामाः यं प्रविशन्ति सः शान्तिम् आप्नोति, कामकामी न ।
शब्दार्थःसंपादित करें
अन्वयः विवरणम् सरलसंस्कृतम् आपः आप्-प.स्त्री.प्र.बहु. जलानि आपूर्यमाणम् अ.पुं.द्वि.एक. उदकेन सम्पूर्यमाणम् अचलप्रतिष्ठम् अ.पुं.द्वि.एक. निश्चलस्थितिम् समुद्रम् अ.पुं.द्वि.एक. सागरम् यद्वत् अव्ययम् यथा प्रविशन्ति प्र+√विश् प्रवेशने-पर.कर्तरि, लट्.प्रपु.एक. गच्छन्ति तद्वत् अव्ययम् तथा सर्वे अ.सर्व.पुं.प्र.बहु. सकलाः कामाः अ.पुं.प्र.बहु. अभिलाषाः यम् यद्-द.सर्व.पुं.द्वि.एक. यं पुरुषम् प्रविशन्ति प्र+√विश् प्रवेशने-पर.कर्तरि, लट्.प्रपु.बहु. यान्ति सः तद्-द.पुं.एक. सः पुरुषः शान्तिम् इ.स्त्री.द्वि.एक. सुखम् आप्नोति √आप्लृ व्याप्तौ-पर.कर्तरि, लट्.प्रपु.एक. लभते कामकामी कामकामिन्-न.पुं.प्र.एक. भोगासक्तः न अव्ययम् न ।
व्याकरणम्संपादित करें
सन्धिःसंपादित करें
- कामा यम् = कामाः + यम् – विसर्गसन्धिः (लोपः)
- स शान्तिम् = सः + शान्तिम् – विसर्गसन्धिः (लोपः)
समासःसंपादित करें
- अचलप्रतिष्ठम् = अचला प्रतिष्ठा यस्य सः, तम् - बहुव्रीहिः
कृदन्तःसंपादित करें
- आपूर्यमाणम् = आ + पॄ + शानच् (कर्मणि) ।
अर्थःसंपादित करें
समुद्रः सर्वतः अपि जलैः आपूर्यमाणः भवति तथापि सः अचलं तिति । एवं सर्वेऽपि कामाः यं प्रविशन्ति सः शान्तिं प्राप्नोति । भोगे आसक्तस्तु शान्तिं न प्राप्नोति ।
भावार्थः [१]संपादित करें
'आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत्' – वर्षाकाले नदीषु जलस्तरः वर्धते । जलातिरेकेन अधिकतमासु नदीषु आप्लवोऽपि जायते । परन्तु चतसृभ्यः दिग्भ्यः तदैव नदीजलं यदा जलपरिपूर्णे समुद्रे पतति, तदा समुद्रे आप्लवः न भवति । समुद्रः तु सर्वदा स्वमर्यादायाम् एव भवति । ततोधिकं यदा ग्रीष्मकाले नदीनां जलस्तरः न्यूनः भवति उत नद्यः शुष्कायन्ते, तदापि समुद्रस्य जलस्तरे न्यूनता न भवति । अस्य तात्पर्यं भवति यत्, नदीनां जलं वर्धते, न्यूनीभवति, वडवानलसूर्याभ्यां शोष्यते च, तथापि समुद्रस्य जलस्तरे न्यूनता वृद्धिः वा न भवति । अर्थात् नदीनां जलस्य अपेक्षां समुद्रः न करोति । सः यथा अस्ति, तथैव स्वमर्यादायां परिपूर्णः भवति ।
'तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति' – तथैव संसारस्य सर्वान् भोगान् सः परमात्मतत्त्वज्ञाता संयमी मनुष्यः प्राप्नोति, तस्य सम्मुखं ते भोगाः उपस्थिताः अपि भवन्ति, परन्तु सः स्वशरीरे, अन्तःकरणे च सुखदुःखरूपिविकारान् जनयितुं न शक्नोति । अतः सः परमशान्तिं प्राप्नोति । तस्य या शान्तिः भवति, सा भोगत्वात् न, अपि तु परमात्मतत्त्वत्वात् भवति [२] । अत्र यस्य 'कामाः' इत्यस्य पदस्य उपयोगः कृतः, तद् पदं कामनावाचकं नास्ति, अपि तु येषां पदार्थानां कामना क्रियते, तेषां भोगपदार्थानां वाचकम् अस्ति ।
अत्र यस्य समुद्रनदीनां जलस्य दृष्टान्तः दत्तः अस्ति, तस्य स्थितप्रज्ञस्य संयमिपुरुषस्य उदाहरणेन सह पूर्णतया तादात्म्यं न वहति । यतः समुद्रनदीनां जले तु सजातीयत्वम् अस्ति । अर्थात् समुद्रं प्रति जलं नदीभ्यः एव आगच्छति । तथा च नदीं प्रति आगच्छज्जलस्य स्रोतः तु समुद्र एवास्ति । परन्तु स्थितप्रज्ञभोगपदार्थयोः वैपरित्यं प्रदर्शयितुं दिनरात्र्योः, आकाशपातालयोः च दृष्टान्तः अपि पूर्णतया तादात्म्यं वोढुं न प्रभवति । यतः स्थितप्रज्ञः यस्मिन् तत्त्वे स्थितः अस्ति, तत्तत्त्वं चेतनं, नित्यं, सत्यम्, असीमम्, अनन्तं च अस्ति । अपरत्र सांसारिकभोगपदार्थाः जडाः, अनित्याः, असत्, सीमिताः, अन्तयुक्ताः च सन्ति ।
द्वितीयः भेदः अस्ति यत्, समुद्रं प्रति नदीनां जलं गच्छति, परन्तु स्थितप्रज्ञः यस्मिन् तत्त्वे स्थितः अस्ति, तत्र सांसारिकभोगपदार्थानाम् अवस्थितिरेव नास्ति । ते भोगाः केवलं साधकस्य लौकिकशरीरं यावदेव अवतिष्ठन्ति । अतः समुद्रस्य दृष्टान्तः स्थितप्रज्ञस्य शरीरस्य, अन्तःकरणस्य च स्थितिं दर्शयितुम् एव प्रदत्तम् । स्थितप्रज्ञस्य वास्तविकस्वरूपं दर्शयितुम् एषः दृष्टान्तः नास्ति ।
'न कामकामी' – येषां मनसि भोगपदार्थानां कामना अस्ति, येषां मनसि भोगपदार्थान् प्रति महत्त्वभावः अस्ति, येषां दृष्टिः सर्वदा पदार्थान् प्रति एव भवति, ते असीमितान् भोगपदार्थान् प्राप्नुवन्ति चेदपि तृप्ताः न भवन्ति । तेषां कामना, उद्वेगः, सन्तापः च दूरीभवितुं नार्हति । यतः चेतनस्वरूपस्य तृप्तिः जडपदार्थैः अशक्या ।
शाङ्करभाष्यम् [३]संपादित करें
विदुषः त्यक्तैषणस्य स्थितप्रज्ञस्य यतेरेव मोक्षप्राप्तिः न तु असंन्यासिनः कामकामिनः इत्येतमर्थं दृष्टान्तेन प्रतिपादयिष्यन् आह - आपूर्येति ।
आपूर्यमाणम् अद्भिः अचलप्रतिष्ठम् अचलतया प्रतिष्ठा अवस्थितिः यस्य तम् अचलप्रतिष्ठं समुद्रम् आपः सर्वतो गताः प्रविशन्ति स्वात्मस्थमविक्रियमेव सन्तं यद्वत् तद्वत् कामाः विषयसंनिधावपि सर्वतः इच्छाविशेषाः यं पुरुषम् समुद्रमिव आपः अविकुर्वन्तः प्रविशन्ति सर्वे आत्मन्येव प्रलीयन्ते न स्वात्मवशं कुर्वन्ति सः शान्तिं मोक्षम् आप्नो ति न इतरः कामकामी काम्यन्त इति कामाः विषयाः तान् कामयितुं शीलं यस्य सः कामकामी नैव प्राप्नोति इत्यर्थः ।।
भाष्यार्थःसंपादित करें
ये तिसृणाम् एषणानां त्यागं कृतवन्तः, तादृशाः विद्वांसः संन्यासिनः स्थितप्रज्ञाः एव मोक्षं प्राप्नुवन्ति । भोगकामिनः असन्न्यासिनः मोक्षं न प्राप्नुवन्ति । एनम् अभिप्रायं दृष्टान्तेन प्रतिपादनेच्छुको भगवान् कथयति –
यथा जलेन पूर्णे अचले प्रतिष्ठिते समुद्रे परितः जलं पतति, तथापि तस्मिन् न कोऽपि विकारः उत्पद्यते, ततोधिकं तज्जलं तस्मिन् समुद्रे विलीनम् अपि भवति, तथैव विषयाणां सङ्गे सत्यपि समुद्रे नदीजलवत् सर्वाः इच्छाः मनुष्ये विकारम् अनुत्पाद्य अन्तर्भवन्ति । अर्थात् यैः स्वकामनाः आत्मनि विलीनीकृताः, तेषामुपरि भोगपदार्थानां प्रभावः न भवति (ते भोगपदार्थेभ्यः न वशीभवन्ति) ।
ते पुरुषाः शान्तिम् उत मोक्षं प्राप्नुवन्ति । अन्ये ये भोगपदार्थकामिनः सन्ति, ते शान्तिम् उत मोक्षं न प्राप्नुवन्ति । अभिप्रायः अस्ति यत्, यान् भोग्यपदार्थान् प्राप्तुम् एषणा भवति, ते भोग्यपदार्थाः एव कामः अस्ति । तेषां प्राप्तेः इच्छा येषां स्वभावः अस्ति, ते कामकामिनः सन्ति । ते शान्तिम् उत मोक्षं कदापि न प्राप्नुवन्ति इति ।
रामानुजभाष्यम् [४]संपादित करें
यथा आत्मना एव आपूर्यमाणम् एकरूपं समुद्रं नादेया आपः प्रविशन्ति आसाम् अपां प्रवेशे अपि अप्रवेशे वा समुद्रो न कञ्चन विशेषम् आपद्यते। एवं सर्वे कामाः शब्दादिविषया यं संयमिनं प्रविशन्ति इन्द्रियगोचरतां यान्ति स शान्तिम् आप्नोति। शब्दादिषु इन्द्रियगोचरताम् आपन्नेषु अनापन्नेषु च स्वात्मावलोकनतृप्त्या एव यो न विकारम् आप्नोति स एव शान्तिम् आप्नोति इत्यर्थः न कामकामी यः शब्दादिभिर्विक्रियते स कदाचिद् अपि न शान्तिम् आप्नोति।
भाष्यार्थःसंपादित करें
आत्मना परिपूर्णे एकरूपे समुद्रे नदीनां जलं प्रविशति । तस्य जलस्रोतसः प्रवेशेऽप्रवेशे वा समुद्रः किमपि न विशेषताङ्गच्छति । तथैव समस्ताः कामशब्दादयः विषयाः यस्मिन् संयमिनि पुरुषे प्रविशन्ति अर्थाद् विषयाः इन्द्रियैः सेव्यन्ते चेद्, सः शान्तिं प्राप्नोति । अभिप्रायः अस्ति यद्, इन्द्रियैः शब्दादिविषयाणां सेवने कृतेऽकृते वापि यः पुरुषः स्वस्य आत्मसाक्षात्कारेण सर्वदा तृप्तत्वाद् अविकारी भवति । स एव शान्तिं प्राप्नोति, न तु भोगकामी । अर्थाद् यः शब्दादिविषयैः विकारं प्राप्नोति, सः कदापि शान्तिं न प्राप्नोति इति ।
|
सम्बद्धाः लेखाःसंपादित करें
बाह्यसम्पर्कतन्तुःसंपादित करें
विकिमीडिया कॉमन्स् मध्ये आपूर्यमाणमचलप्रतिष्ठं... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्संपादित करें
- ↑ श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
- ↑ गीता, अ. २, श्लो. ४६
- ↑ श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
- ↑ रामानुजभाष्यम्
अधिकवाचनायसंपादित करें
- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च