यं हि न व्यथयन्त्येते...

भगवद्गीतायाः श्लोकः २.१५

यं हि न व्यथयन्त्येते () इत्यनेन श्लोकेन भगवान् श्री कृष्ण: तितिक्षावर्णनं करोति । पूर्वस्मिन् श्लोके भगवान् मात्रास्पर्शायाः तितिक्षायाः विषयम् उपस्थाप्य अत्र का सा तितिक्षा ? इति वर्णयति । सः कथयति यत्, हे पुरुषश्रेष्ठ ! सुखदुःखयोः समयुक्तं धीरं मनुष्यं ते मात्रास्पर्शाः (पदार्थाः) न व्यथयन्ति, सः तु अमरः भवति इति।

यं हि न व्यथयन्त्येते...


तितिक्षावर्णनम्
Avatars of Vishnu.jpg
श्लोकसङ्ख्या २/१५
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः मात्रास्पर्शास्तु कौन्तेय...
अग्रिमश्लोकः नासतो विद्यते भावो...

श्लोकःसंपादित करें

 
गीतोपदेशः
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥ १५ ॥

पदच्छेदःसंपादित करें

यम्, हि, न, व्यथयन्ति, एते, पुरुषम्, पुरुषर्षभ । समदुःखसुखम्, धीरम्, सः, अमृतत्वाय, कल्पते ॥

अन्वयःसंपादित करें

पुरुषर्षभ ! एते यं समदुःखसुखं धीरं पुरुषं न व्यथयन्ति सः अमृतत्वाय कल्पते ।

शब्दार्थःसंपादित करें

अन्वयः विवरणम् सरलसंस्कृतम्
पुरुषर्षभ अ.पुं.स्मबो.एक. हे पुरुषश्रेष्ठ !
एते एतद्-द.सर्व.पुं.प्र.बहु. मात्रास्पर्शाः
यम् यद्-द.सर्व.पुं.द्वि.एक. यम्
समदुःखसुखम् अ.पुं.द्वि.एक. सुखं दुःखं च समं मन्यमानम्
धीरम् अ.पुं.द्वि.एक. मनस्विनम्
अव्ययम्
व्यथयन्ति √व्यथ भयसञ्चलनयोः-पर.कर्तरि, लट्.प्रपु.बहु. पीडयन्ति
सः तद्-द.सर्व.पुं.प्र.एक. सः जनः
अमृतत्वाय अ.नपुं.च.एक. मुक्तये
कल्पते √कृपू सामर्थ्ये-आत्म.कर्तरि, लट्.प्रपु.एक. योग्यः भवति ।

व्याकरणम्संपादित करें

सन्धिःसंपादित करें

  1. व्यथयन्त्येते = व्यथयन्ति + एते - यण्सन्धिः
  2. सोऽमृतत्वाय = सः + अमृतत्वाय – विसर्गसन्धिः (सकारः), रुत्वम्, उकारः, गुणः, पूर्वरूपं च

समासःसंपादित करें

  1. पुरुषर्षभः = पुरुषः ऋषभः इव – कर्मधारयः ।
  2. समदुःखसुखम् = सुखं च दुःखं च सुखदुःखे – द्वन्द्वः ।
  3. समे सुखदुःखे यस्य सः, तम् – बहुव्रीहिः ।

तद्धितान्तःसंपादित करें

  1. अमृतत्वाय = अमृत + त्व (भावे), तस्मै । मोक्षाय इत्यर्थः ।

अर्थःसंपादित करें

यः जनः सुखं दुःखं च समं मन्यते तं शीतोष्णसुखदुःखकराः विषयसम्बन्धाः किञ्चिदपि न व्यथयन्ति । सोऽयं द्वन्द्वसहिष्णुः जनः मोक्षं प्राप्तुं योग्यः भवति ।

भावार्थः [१]संपादित करें

'पुरुषर्षभ' – मनुष्यः महता परिश्रमेण परिस्थितिं परिवर्तयितुं चिन्तयति, प्रयतते च । परन्तु परिस्थितिः तु कदापि न परिवर्तते । युद्धरूपपरिस्थितेः परिवर्तनविचारं त्यक्त्वा अर्जुनः स्वकल्याणमार्गम् अचिनोत् । तस्य कल्याणमार्गस्य चयनेन एव मुष्यस्य श्रेष्ठतायाः मूल्याङ्कनं भवति ।

'समदुःखसुखं धीरम्' – धीरमनुष्यः सुखदुःखयोः समो भवति । अन्तःकरणवृत्त्या एव सुखं, दुःखं च भिन्नं प्रतीयते । सुखदुःखोपभोगस्य कारणं पुरुषः (चेतनः) भवति । प्रकृतौ स्थितित्वाद् सः कारणं भवति [२] । यदा सः स्वरूपे स्थिरः भवति, तदा सुखदुःखोपभोगस्य कारणं न भवति । एवं स्वरूपे स्थिते सति सुखदुःखयोः स्वाभाविकतया सम एव तिष्ठति ।

'यं हि न व्यथयन्त्येते पुरुषम्' – मात्रास्पर्शाः अर्थात् प्रकृतिपदार्थाः धीरमनुष्यं व्यथितं कर्तुं न शक्नुवन्ति । प्राकृतिकपदार्थसंयोगवियोगाभ्यां यद् सुखदुःखमुत्पद्यते, तद् व्यथात्वेन परिगण्यते । परन्तु यस्य दृष्टिः समतायुक्ता अस्ति, तं प्राकृतिकपदार्थानां संयोगवियोगौ सुखिनं, दुःखिनं च कर्तुं न शक्नुतः । समबुद्धित्वाद् अनुकूलपरिस्थितौ सुखज्ञानं तु भवति, परन्तु भोगाभावद् अन्तःकरणसंस्कारः स्थायी न तिष्ठति । तथैव प्रतिकूलस्थितौ अपि दुःखबोधः तु भवति, परन्तु भोगाभावाद् अन्तःकरणसंस्कारः न दृढीभवति । एवं सुखदुःखयोः ज्ञाने सत्यपि धीरः मनुष्यः सुखी, दुःखी वा न भवति ।

'सोऽमृतत्वाय कल्पते' – तादृशः मनुष्यः अमरतायोग्यः भवति । अर्थात् सः अमरः भवति इति । किञ्च तस्यामरता तु स्वतःसिद्धा अस्ति । केवलं पदार्थसंयोगवियोगाभ्यां स्वस्मिन् विकारम् आरोपितवान् आसीत्, स एव तस्य दोषः आसीत् ।

मर्मःसंपादित करें

मनुष्ययोनेः उद्देश्यं सुखदुःखोपभोगः न, अपि तु परमशान्तिः अस्ति । तस्याः परमशान्तेः प्राप्त्युत्तरं किमपि प्राप्तव्यं नावशिष्यते [३] । यदि वस्तु-व्यक्ति-परिस्थितीत्यादीनाम् आनुकूल्ये उत तासां सम्भावनायां सत्यां मनुष्यस्य अन्तःकरणे अनुकूलवस्तूनि प्रति कामना, लोलुपता वा उद्भवति, तर्हि सः मनुष्यः अनुकूलतायाः सदुपयोगं कर्तुं न पारयति । यतः सः वस्त्वादीनाम् आनुकूल्यस्योपभोगे एव सम्पूर्णं सामर्थ्यम् अपव्ययीकरोति । तथैव यदि वस्त्वादीनाम् उपभोगे उद्भूतायां प्रतिकूलपरिस्थित्याम् अपि आशङ्का, उद्वेगः वा उत्पद्यते, तर्हि मनुष्यः प्रतिकूलतायाः सदुपयोगं कर्तुं न शक्नोति । यतो हि वस्त्वादीनां प्रातिकूल्यस्योपभोगे एव निबद्धो भूत्वा मनुष्यः दुःखी भवति ।

यदि वस्त्वादिभ्यः आनुकूल्ये प्राप्ते तेषामुपभोगं कुर्वन् सुविधादिषु वृद्धिं कुर्मः, तर्हि तद् अनुकूलतायाः उपभोगः मन्यते । परन्तु निर्वाहबुद्धिः भूत्वा उपलब्धवस्तूनाम् अभावग्रस्तेषु वितरणं अनुकूलपरिस्थितेः सदुपयोगः उच्यते । प्रतिकूलतायाः उपयोगः कथम् ? इति प्रश्नः भवति । तर्हि उत्तरम् अस्ति यत्, सुखेच्छा एव दुःखकारणम् । यदि मनुष्यः अनुकूलपरिस्थत्याः इच्छां त्यक्त्वा सुखेच्छां त्यजति, तर्हि प्रतिकूलपरिस्थितौ दुःखं नानुभूवति । यथा कश्चन रोगी ओषधित्वेन तिक्तातितिक्तं द्रव्यं स्वीकरोति, तथापि सः दुःखी न भवति । प्रत्युत अनया ओषध्या मे रोगोपशमनं भविष्यति इति विचिन्त्य सः हर्षितो भवति । एवं मनुष्यः पीडाम् अपि हर्षेण सहते । एवमेव सुखेच्छायाः त्यागं कृत्वा दुःखेषु सत्स्वपि प्रसन्नतापूर्वकं जीवनं यापयति चेत्, मनुष्यः प्रतिकूलतायाः उपयोगं कर्तुं प्रभवति ।

यदि मनुष्यः सुखदुःखयोः उपयोगं कुर्वन् भवति, तर्हि भविष्येऽपि सः भोगयोनिषु पतति । यतो हि मनुष्यः सुखदुःखे उपभुनक्ति, असमसुखदुःखी भवति चेत्, सः कदापि मुक्तिपात्रः न भवति । भगवान् उक्तवान् यत्, सांसारिकपदार्थादयः अनुकूलप्रतिकूलफलदाः, अनित्याः च सन्ति । तेषामुपभोगेन मनुष्यः केवलं स्वभावं मलिनीकरोति । परन्तु यदि मनुष्यः सुखदुःखयोः उपभोगम् अकृत्वा, तयोः सदुपयोगं करोति, तर्हि आनन्दपदं प्राप्स्यति इति [४]

शाङ्करभाष्यम् [५]संपादित करें

शीतोष्णादीन्सहतः किं स्यादिति श्रृणु-यं हीति।

यं हि पुरुषं  समे दुःखसुखे यस्य तं  समदुःखसुखं  सुखदुःखप्राप्तौ हर्षविषादरहितं धीरं धीमन्तं  न व्यथयन्ति  न चालयन्ति नित्यात्मदर्शनात् एते यथोक्ताः शीतोष्णादयः  सः  नित्यात्मस्वरूपदर्शननिष्ठो द्वन्द्वसहिष्णुः  अमृतत्वाय  अमृतभावाय मोक्षायेत्यर्थः  कल्पते  समर्थो भवति।।

भाष्यार्थःसंपादित करें

सुखदुःखं समत्वेन (सुखदुःखयोः प्राप्त्योः हर्षविषादरहितत्वं समत्वम्) यः स्वीकरोति, तादृशं धीरं बुद्धिमन्तं पुरुषम् उपर्युक्ताः शीतोष्णादयः व्यथितं कर्तुं न शक्नुवन्ति । अर्थात् नित्यात्मदर्शनाद् विचलितं कर्तुं न प्रभवन्तीति । सः नित्यात्मदर्शननिष्ठः, शीतोष्णादिद्वन्दसाहकः पुरुषः मृत्य्वतीतः भवति । अर्थात् मोक्षसमर्थः भवति इति ।

रामानुजभाष्यम्संपादित करें

तत्क्षान्तिं किमर्था ? इत्यत आह—यं हि इति ।

यं पुरुषं  धैर्ययुक्तम् अवर्जनीयदुःखं सुखवन्मन्यमानम् अमृतत्वसाधनतया स्ववर्णोचितं युद्धादिकर्म अनभिसंहितफलं कुर्वाणं तदन्तर्गताः शस्त्रपातादिमृढुक्रूरस्पर्शा  न व्यथयन्ति  स एव अमृतत्वं साधयति न त्वादृशो दुःखासहिष्णुः इत्यर्थः।

भाष्यार्थःसंपादित करें

अनिवार्यदुःखं सुखवद् मन्यमानं, तं दुःखं मोक्षसाधनं मन्यमानं, फलाभिसन्धिरहितं सन्तं स्ववर्णोचितयुद्धादिकार्यं क्रियमाणं, धैर्यवन्तं पुरुषं युद्धादिकर्मानुष्ठानकाले कोमलकठोरस्पर्शाः व्यथितं कर्तुं न प्रभवन्ति । उक्तः अव्यथितः पुरुष एव अमृतत्वं (मोक्षं) प्राप्तुं शक्नोति । अर्थात् त्वत्सदृशः दुःखासाहकः मोक्षं प्राप्तुं न शक्नोति । आत्मनां नित्यत्वाद् एतद् सर्वं सोढव्यम् इत्येव तव कर्तव्यम् अस्ति इति ।


श्रीमद्भगवद्गीतायाः श्लोकाः
  पूर्वतनः
मात्रास्पर्शास्तु कौन्तेय...
यं हि न व्यथयन्त्येते... अग्रिमः
नासतो विद्यते भावो...
 
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाःसंपादित करें

बाह्यसम्पर्कतन्तुःसंपादित करें

उद्धरणम्संपादित करें

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. गीता, अ. १३, श्लो. २०-२१
  3. गीता, अ. ६, श्लो. २२
  4. गीता, अ. २, श्लो. १४
  5. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6

अधिकवाचनायसंपादित करें