यदा संहरते चायं...
यदा संहरते चायं ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अर्जुनस्य तृतीयस्य प्रश्नस्य उत्तरं ददाति । "किमासीत" इति अर्जुनस्य तृतीयः प्रश्नः आसीत् । तस्य उत्तरं ददत् अत्र भगवान् श्रीकृष्णः कच्छपस्य उदाहरणेन इन्द्रियनिग्रहरीतिं वदति ।
यदा संहरते चायं... कर्मयोगानुष्ठानस्य आज्ञा | |
---|---|
![]() | |
श्लोकसङ्ख्या | २/५८ |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | यः सर्वत्रानभिस्नेहः |
अग्रिमश्लोकः | विषया विनिवर्तन्ते |
श्लोकःसंपादित करें
- यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।
- इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ ५८ ॥
पदच्छेदःसंपादित करें
यदा, संहरते, च, अयम्, कूर्मः, अङ्गानि, इव, सर्वशः । इन्द्रियाणि, इन्द्रियार्थेभ्यः, तस्य, प्रज्ञा, प्रतिष्ठिता ॥
अन्वयःसंपादित करें
यदा अयं कूर्मः अङ्गानि इव सर्वशः इन्द्रियाणि इन्द्रियार्थेभ्यः संहरते तस्य प्रज्ञा प्रतिष्ठिता (भवति) ।
शब्दार्थःसंपादित करें
अन्वयः विवरणम् सरलसंस्कृतम् च अव्ययम् च यदा अव्ययम् यस्मिन् समये अयम् इदम्-म.सर्व.पुं.प्र.एक. एषः कूर्मः अ.पु.प्र.एक. कच्छपः अङ्गानि अ.नपुं.प्र.बहु. अवयवान् इव अव्ययम् इव सर्वशः अव्ययम् सर्वथा इन्द्रियाणि अ.नुपुं.प्र.बहु. नेत्रादीनि इन्द्रियार्थेभ्यः अ.पुं.पं.बहु. विषयेभ्यः संहरते सम्+हृञ् हरणे-आत्म.कर्तरि, लट्.प्रपु.एक प्रत्यावर्तयति तस्य तद्-द.सर्व.पुं.ष.एक. तस्य पुरुषस्य प्रज्ञा आ.स्त्री.प्र.एक. बुद्धिः प्रतिष्ठिता आ.स्त्री.प्र.एक. अतिस्थिरा ।
व्याकरणम्संपादित करें
सन्धिःसंपादित करें
- चार्यम् = च + अयम् सवर्णदीर्घसन्धिः
- कूर्मोऽङ्गानि = कूर्मः + अङ्गानि – विसर्गसन्धिः (सकारः) रेफः उकारः गुणः पूर्वरूपं च
- अङ्गानीव = अङ्गानि + इव – सवर्णदीर्घसन्धिः
- इन्द्रियाणीन्द्रियार्थेभ्यः = इन्द्रियाणि + इन्द्रियार्थेभ्यः – सवर्णदीर्घसन्धिः
- इन्द्रियार्थेभ्यस्तस्य = इन्द्रियार्थेभ्यः + तस्य – विसर्गसन्धिः (सकारः)
समासःसंपादित करें
इन्द्रियार्थेभ्यः = इन्द्रायाणां अर्थाः, तेभ्यः - षष्ठीतत्पुरुषः
अर्थःसंपादित करें
इन्द्रियाणि सर्वदापि शब्दादिषु विषयेषु प्रवृत्तानि भवन्ति । कूर्मः यथा भयात् स्वानि अङ्गानि सङ्कोचयति, तथा यदा अयं ज्ञाननिष्छायां प्रवृत्तः जनः सर्वाणि इन्द्रियाणि शब्दादिभ्यः सङ्कोचयति, तदा तस्य प्रज्ञा प्रतिष्ठिता भवति । स च स्थितप्रज्ञो भवति ।
भावार्थः [१]संपादित करें
'यदा संहरते' – अत्र कच्छपस्य दृष्टान्तदानस्य तात्पर्यम् अस्ति यत्, यदा कच्छपः चलति, तदा तस्य षडङ्गानि दृश्यन्ते । तानि अङ्गानि – चत्वारः पादाः, एकं पुच्छम्, एकं मस्तकं च दृश्यते । परन्तु यदा सः स्वाङ्गानि सङ्कुचयति, तदा केवलं पृष्ठमेव दृश्यते । तथैव स्थितप्रज्ञः पञ्चेन्द्रियाणि, मनः इत्येतानि षडेन्द्रियाणि विषयेभ्यः विच्छेदयति । यदि इन्द्रियैः सह तस्य किञ्चिदपि सम्बन्धः अवशिष्यते, तर्हि सः स्थितप्रज्ञो भवितुं न प्रभवति ।
'च' – एतस्मिन् श्लोके 'च' अग्रिमेण श्लोकेन सह सम्बन्धं बोधयति । अत्र ज्ञानी स्वमनः, इन्द्रियाणि च कथं सञ्चालयति, नियन्त्रयति च इत्यस्य चर्चा अस्ति । ज्ञानिनि कदाचित् ज्ञानं स्यात् । परन्तु ज्ञाननिष्ठायै इन्द्रियाणां विषयेभ्यः इच्छापूर्वकः विच्छेदः तस्य ज्ञानिनः सामर्थ्यस्य बोधं कारयति । इन्द्रियाणि स्वयं हानिकर्तॄणि न । तथापि शास्त्रैः, आचार्यैः च तानि खलत्वेन, दुष्टत्वेन उल्लिखितानि । उदा. अहं तु योग्यः अस्मि, परन्तु मे इन्द्रियाणि मां भ्रामयन्ति इति । अर्थात् मम अक्षिणी एव माम् अदर्शनीयं दर्शयतः, मे कर्णौ एव माम् अश्रवणीयं श्रावयतः इत्यादि । मम इन्द्रियाणि प्रमाथीनि सन्ति । तानि एव मनसि अशान्तिं जनयन्ति । वस्तुतः इन्द्रियाणि दोषयुक्तानि न । इन्द्रियाणि तु केवलं सूचनाः एकत्र कुर्वन्ति (Reporters) सन्ति । तानि तु केवलं सत्यताम् उपस्थापयन्ति । तानि मनसे किमपि आदेशं ददन्ति न भवन्ति । इन्द्रियाणि अशान्तानि, प्रश्रुब्धानि च भवन्ति इति तेषां स्वभावः, कार्यं च ।
अतः आत्मज्ञानेच्छुकः इच्छापूर्वकं स्वेन्द्रियाणि क्रोडीकुर्यात् इति तस्य सामर्थ्यस्य, पात्रतायाः च प्रमाणं, प्रतीकं च भवति । यदा मनुष्यः स्वाभिरुचीनां त्यागस्य सामर्थ्यं प्राप्नोति अथवा नियन्त्रयितुं शक्नोति, तदा तस्य ज्ञानं दृढं भवति । ततः सः पुरुषः आवश्यकतानुसारमेव कार्यं करोति, न तु अभिरुचिभिः प्रेरितः सः इतस्ततः भ्रमति ।
मर्मः [२]संपादित करें
अत्र 'संहरते' इत्यस्य क्रियापदस्य तात्पर्यम् अस्ति यत्, स्थितप्रज्ञः विषयेभ्यः इन्द्रियाणाम् उपसंहारं करोति । सः मनसा अपि विषयाणां चिन्तनं न करोति इति । एतस्मिन् श्लोके 'यदा' पदम् अस्ति, परन्तु 'तदा' पदं नास्ति । एवं तु "यत्तदोर्नित्यसम्बन्धः" इति न्यायानुसारं 'यदा' उक्ते सति 'तदा' इत्यस्य बोधः स्वयमेव भवति । परन्तु अस्य गहनं तात्पर्यम् अपि अस्ति यत्, इन्द्रियाणां विषयेभ्यः सर्वदा विच्छेदे सति स्वतःसिद्धतत्त्वस्य यः अनुभवः भवति, सः कालाधीनः न भवति । यतो हि सः अनुभवः क्रियायाः उत त्यागस्य च फलं न भवति । सः अनुभवः उत्पद्यमानः न भवति । अतः अत्र कालवाचकस्य 'तदा' इत्यस्य पदस्य आवश्यकता न भवति । 'तदा' इत्यस्य शब्दस्य आवश्यकता तत्र भवति, यत्र किमपि फलम् अन्यस्य वस्तुनः, क्रियायाः वा आधीन्ये स्यात् । आकाशे सूर्ये सत्यपि अक्ष्णोः पिहितयोः सूर्यः न दृश्यते, ततः अक्ष्णोः उद्घाटितयोः सत्योः सूर्यः दृश्यते । अत्र सूर्याक्षिणोः कार्यकारणसम्बन्धः नास्ति । अर्थात् अक्ष्णोः उद्घाटिते सति सूर्यः न जायते । सूर्यः तु पूर्वस्मादेव तथैव स्थितः अस्ति । अक्ष्णोः निमेलात् प्रागपि सूर्यः तथैव आसीच्च । अक्ष्णोः निमिलनत्वात् सूर्यस्य अनुभवः न भवति स्म तावदेव । तथैव इन्द्रियाणां विषयेभ्यः विच्छेदे स्वतःसिद्धस्य परमात्मनः यः अनुभवः जायते, सः अनुभवः मनस्सहितानाम् इन्द्रयाणां विषयः न भवति । अस्य तात्पर्यम् अस्ति यत्, स्वतःसिद्धतत्त्वस्य विषयैः सह सम्बन्धे सत्यपि तत् स्वतःसिद्धतत्त्वं निर्विकारि भवति । परन्तु विषयैः सह सम्बन्धरूपिणे आवरणे सति तस्य स्वतःसिद्धतत्त्वस्य अनुभवः न भवति । ततः आवरणे अपाकृते सति तस्य स्वतःसिद्धतत्त्वस्य अनुवभः जायते इति ।
अत्र ज्ञातव्यं यत्, अधुना स्थितप्रज्ञस्य लक्षणानां चर्चा जायमाना अस्ति । अन्यथा या कापि व्यक्तिः संयमिनी अस्ति, सा ज्ञानिनी अस्ति इति वक्तुं शक्नुमः । परन्तु तथा नास्ति । अतः भगवान् अग्रिमे श्लोके विशेषस्पष्टतां करोति । अत्र तु स्थितप्रज्ञस्य लक्षणानां चर्चा अस्ति । तस्य स्थितप्रज्ञस्य मुख्यं लक्षणम् अस्ति यत्, सः स्वेच्छानुसारं विषयेभ्यः इन्द्रियाणां विच्छेदं कर्तुं समर्थः भवति इति ।
शाङ्करभाष्यम् [३]संपादित करें
किं च - यदा संहरत इति ।
यदा संहरते सम्यगुपसंहरते च अयं ज्ञाननिष्ठायां प्रवृत्तो यतिः कूर्मः अङ्गानि इव यथा कूर्मः भयात् स्वान्यङ्गानि उपसंहरति सर्वशः सर्वतः एवं ज्ञाननिष्ठः इन्द्रियाणि इन्द्रियार्थेभ्यः सर्वविषयेभ्यः उपसंहरते। तस्य प्रज्ञा प्रतिष्ठिता इत्युक्तार्थं वाक्यम्।।
भाष्यार्थःसंपादित करें
यदा ज्ञाननिष्ठायां स्थितः सः संन्यासी कच्छपस्य अङ्गवत् अर्थात् भयकारणं दृष्ट्वा कच्छपः यथा सर्वाणि अङ्गानि सङ्कोचयति, तथैव सम्पूर्णविषयेभ्यः इन्द्रियाणि विच्छिनत्ति, तदा तस्य बुद्धिः प्रतिष्ठिता भवति । एतस्य वाक्यस्य अर्थः पूर्वमपि उक्तः अस्ति ।
रामानुजभाष्यम् [४]संपादित करें
ततः अर्वाचीनदशा प्रोच्यते -
यदा इन्द्रियाणि इन्द्रियार्थान् स्प्रष्टुम् उद्युक्तानि तदा एव कूर्मः अङ्गानि इव इन्द्रियार्थेभ्यः सर्वशः प्रतिसंहृत्य मन आत्मनि एव स्थापयति सोऽपि स्थितप्रज्ञः।
भाष्यार्थःसंपादित करें
आत्मतत्त्वप्राप्तेः पूर्वस्थितायाः अर्वाचीनस्थितेः, प्रार्वाचीनस्थितेः च वर्णनं कृत्वा अत्र प्रार्वाचीनस्थितेः वर्णनं करोति –यदा इन्द्रियाणि इन्द्रियविषयणाम् उपभोगे उद्यतानि भवन्ति, तस्मिन् एव समये कच्छपः यथा सङ्कटस्थितिं दृष्ट्वा स्वाङ्गानि सङ्कोचयति, तथैव यः इन्द्रियाणां विषयेभ्यः मनः सर्वथा निधाय केवलम् आत्मनि एव स्थापयति, सः अपि स्थितप्रज्ञः ।
|
सम्बद्धाः लेखाःसंपादित करें
बाह्यसम्पर्कतन्तुःसंपादित करें
विकिमीडिया कॉमन्स् मध्ये यदा संहरते चायं... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्संपादित करें
- ↑ श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
- ↑ गीतासाधकमञ्जरी, गीताप्रेस गोरखपुरम्, स्वामी रामसुखदासः
- ↑ श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
- ↑ रामानुजभाष्यम्
अधिकवाचनायसंपादित करें
- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च