नहि प्रपश्यामि ममापनुद्याद्...
न हि प्रपश्यामि मापनुद्यात् ( ( शृणु)) इत्यनेन श्लोकेन अर्जुनः युद्धोपरामनिर्णयस्य स्पष्टनिरूपणं करोति । पूर्वस्मिन् श्लोके अर्जुनः भगवतः शरणङ्गतः । सः जानाति स्म यत्, श्रीकृष्णस्य निर्णयस्तु युद्धस्यैवास्ति इति । अत एव श्रीकृष्णः "उत्तिष्ठ" इति आदिशत् । परन्तु अर्जुनः स्वस्य युद्धोपरामस्य निर्णयमेव योग्यं मन्यते स्म । यदि पुनः श्रीकृष्णः युद्धस्य आज्ञां दास्यति, तर्हि किम् ? इति विचिन्त्य अर्जुनः अत्र स्वस्य युद्धोपरामनिर्णयं विस्तारेण स्पष्टयति । सः कथयति यत्, पृथिव्यां धनधान्यदिसमृद्धयः, निष्कण्टकराज्यं, स्वर्गाधिपत्यप्राप्तिः इत्यादिकं प्राप्तं चेदपि इन्द्रियशोषकस्य मे शोकस्य निवारणम् अहं न पश्यामि इति । अर्जुनस्य मतम् आसीत् यत, भगवान् तस्य सुखाय, विजयाय च योद्धुम् आदिशति । परन्तु अहं तु विजयी सन्नपि शोकमग्न एव भविष्यामि इति ।
नहि प्रपश्यामि ममापनुद्याद्... अर्जुनस्य युद्धोपरामनिर्णयः | |
---|---|
![]() | |
श्लोकसङ्ख्या | २/८ |
श्लोकच्छन्दः | उपजातिच्छन्दः |
पूर्वश्लोकः | कार्पण्यदोषोपहत... |
अग्रिमश्लोकः | एवमुक्त्वा हृषीकेशं... |
श्लोकःसंपादित करें
- नहि प्रपश्यामि ममापनुद्याद् यच्छोकमुच्छोषणमिन्द्रियाणाम् ।
- अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् ॥ ८ ॥
पदच्छेदःसंपादित करें
न, हि, प्रपश्यामि, मम, अपनुद्यात्, यत्, शोकम्, उच्छोषणम्, इन्द्रियाणाम् । अवाप्य, भूमौ, असपत्नम्, ऋद्धम्, राज्यम्, सुराणाम्, अपि, च, आधिपत्यम् ॥
अन्वयःसंपादित करें
भूमौ असपत्नम् ऋद्धं महत् राज्यं सुराणाम् आधिपत्यं च अवाप्य अपि (स्थितस्य) मम यत् इन्द्रियाणाम् उच्छोषणं शोकम् अपनुद्यात् (तत्कर्म) नहि प्रपश्यामि ।
शब्दार्थःसंपादित करें
अन्वयः | विवरणम् | सरलसंस्कृतम् |
भूमौ | इ.स्त्री.स.एक. | महीतले |
असपत्नम् | अ.नपुं.द्वि.एक. | प्रतिस्पर्धिविरहितम् |
ऋद्धम् | अ.नपुं.द्वि.एक. | धनधान्यादिभिःसमृद्धम् |
राज्यं | अ.नपुं.द्वि.एक. | राज्यं |
च | अव्ययम् | च |
सुराणाम् | अ.पुं.ष.बहु | देवानाम् |
आधिपत्यम् | अ.नपुं.द्वि.एक. | स्वामित्वम् |
अवाप्य | ल्यबन्तम् अव्ययम् | प्राप्य अपि |
अपि | अव्ययम् | अपि |
मम | अस्मद्-द.सर्व.ष.एक. | मम |
इन्द्रियाणाम् | अ.नपुं.ष.बहु. | इन्द्रियाणाम् |
उच्छोषणम् | अ.पुं.द्वि.एक. | शोषकम् |
शोकम् | अ.पुं.द्वि.एक. | दुःखम् |
यत् | यद्-द.सर्व.नपुं.प्र.एक. | यत् |
अपनुद्यात् | अप+√णुद् प्रेरणे-पर.वि.लिङ्.प्रपु.एक. | दूरीकुर्यात् (तत्) |
न | अव्ययम् | न |
हि | अव्ययम् | विशेषतः |
प्रपश्यामि | प्र+√दृशिर् प्रेक्षणे-पर.कर्तरि, लट्.उपु.एक. | पश्यामि । |
व्याकरणम्संपादित करें
सन्धिःसंपादित करें
- ममापनुद्याद् = मम + अपनुद्यात् – सवर्णदीर्घसन्धिः
- यच्छोकम् = यत् + छोकम् – श्चुत्वसन्धिः, छत्वसन्धिः
- भूमावसपत्नम् = भूमौ + असपत्नम् – यान्तावान्तादेशसन्धिः
- चाधिपत्यम् = च + अधिपत्यम् – सवर्णदीर्घसन्धिः
समासःसंपादित करें
- असपत्नम् = न विद्यते सत्पनः यस्य तत् – नञ्बहुव्रीहिः ।
कृदन्तःसंपादित करें
- उच्छोषणम् = उत् + शुष् + ल्यु (कर्तरि)
- अवाप्य = अव + आप् + ल्युप्
तद्धितान्तःसंपादित करें
- राज्यम् = राजन् + यत् (कर्मार्थे भावार्थे वा) । राज्ञः कर्म भावः वा इत्यर्थः ।
- आधिपत्यम् = अधिपति + यक् (भावे) अधिपतित्वम् इत्यर्थः ।
अर्थःसंपादित करें
मया भूमौ अस्यां निष्कण्टकं समृद्धं राज्यं प्राप्येत, देवानां च आधिपत्यं लभ्येत, तथापि इन्द्रियाणां विशोषकः अयं शोकः गुरुबान्धवादीनां हननेच्छया समुत्पन्नः येन दूरीभवति तादृशं किमपि कर्म न पश्यामि ।
भावार्थः [१]संपादित करें
'अवाप्य भूमावसपत्नमृद्धं राज्यम्' – यद्यप्यहं धनधान्यसम्पन्नं राज्यं प्राप्नुयाम्, तथाप्यहं शोकमुक्तः न भविष्यामि । अर्थात् यस्मिन् राज्ये प्रजाः सुखिन्यः भवेयुः, प्रजाः धनधान्यसम्पन्नाः स्युः, न कस्यापि वस्तुनः अभावः स्यात्, राज्यस्य कोऽपि शत्रुः अपि न स्याच्च, तादृशं राज्यं प्राप्यापि अहं मम शोकात् मुक्तिं न प्राप्स्यामि ।
'सुराणामपि चाधिपत्यम्' – न केवलम् एतान् भूलोकस्य भोगान् प्राप्य, अपि तु इन्द्रस्य दिव्यभोगयुक्तं राज्यमपि प्राप्य मे शोकः न व्यपगमिष्यति । अर्जुनः प्रथमाध्याय एवावदत् यत्, अहं विजयं, राज्यं, सुखं च नेच्छामि । यतः येभ्यः वयं राज्यभोगम् इच्छामः, तान् मारयित्वा वयम् एतत् सर्वं प्राप्स्यामः इति [२] । तस्मिन् काले युद्धोपरामस्य निर्णयः कौटुम्बिकममतायाः कारणेन आसीत् । अस्मिन् श्लोके युद्धोपरामस्य निर्णयः स्वकल्याणाय अस्ति । उभयोः निर्णयोः मध्ये भावस्य अन्तरम् अस्ति ।
'न हि प्रपश्यामि ममापनुद्याद्यच्छोकमुच्छोषणमिन्द्रियाणाम्' – यदि कुटुम्बकानां मृत्योः आशंकया एव महान् शोकः अस्ति, तर्हि तेषां मृत्यूत्तरं तु किं भविष्यति ? यदि राज्याय शोकः समुद्भवेत्, तर्हि राज्यप्राप्तौ सः शोकः उपशमति । परन्तु कुटुम्बनाशस्य शोकः राज्यप्राप्तौ कथं शमेत् ? युद्धोत्तरं तु शोकः इतोऽपि भयङ्करो भविष्यति । पृथिव्याः राज्यम् उत स्वर्गस्य आधिपत्यम् अपि इन्द्रियशोषकं शोकं दूरीकर्तुं न प्रभविष्यति ।
रामानुजभाष्यम्संपादित करें
एवं युद्धम् आरभ्य निवृत्तव्यापारान् भवतो धार्तराष्ट्राः प्रसह्य हन्युः इति चेत् अस्तु तद्वधलब्धविजयात् अधर्म्याद् अस्माकं धर्माधर्मौ अजानद्भिः तैः हननम् एव गरीयः इति मे प्रतिभाति इति उक्त्वा यत् मह्यं श्रेय इति निश्चितं तत् शरणागताय तव शिष्याय मे ब्रूहि इति अतिमात्रकृपणो भगवत्पादाम्बुजम् उपससार।
भाष्यार्थःसंपादित करें
यदि भवान् कथयति यत्, युद्धोपरामत्वात् धृतराष्ट्रपुत्राः भवतः मारयिष्यति इति, तर्हि भवतु तत्; किञ्च गुरुजनानां वधोत्तरम् अधर्मयुक्तस्य विजयस्य कामना अस्माकं (पाण्डवानां) नास्ति । अतः धर्माधर्मविवेकहीनैः धार्तराष्ट्रैः अस्माकं वधमेव वरं मन्यामहे । ततः 'शिष्यस्तेहम्' इत्युक्तवान् अर्जुनः अत्यन्तदीनतापूर्वकं भगवतः श्रीचरणकमलयोः आश्रितः अभवत् ।
|
सम्बद्धाः लेखाःसंपादित करें
बाह्यसम्पर्कतन्तुःसंपादित करें
विकिमीडिया कॉमन्स् मध्ये नहि प्रपश्यामि ममापनुद्याद्... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्संपादित करें
अधिकवाचनायसंपादित करें
- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च