अवाच्यवादांश्च बहून्...
अवाच्यवादांश्च बहून् ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः 'युद्धोपरामे ते शत्रवः किं करिष्यन्ति' इति उपस्थापयति । पूर्वस्मिन् श्लोके युद्धोपरामेण महारथिनः किं मंस्यन्ते इति उक्त्वा अत्र भगवान् शत्रवः किं करिष्यन्ति इति वदति । सः कथयति यद्, शत्रवः ते सामर्थ्यं निन्दिष्यन्ति । अवचनीयानि वचनानि उक्त्वा ते अपमाननं करिष्यन्ति । तस्माद् अधिकम् अपरं दुःखं किम् ? इति ।
अवाच्यवादांश्च बहून्... युद्धोपरामस्य परिणामः | |
---|---|
श्लोकसङ्ख्या | २/३६ |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | भयाद्रणादुपरतं... |
अग्रिमश्लोकः | हतो वा प्राप्स्यसि स्वर्गं... |
श्लोकः
सम्पादयतु- अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः ।
- निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥ ३६ ॥
पदच्छेदः
सम्पादयतुअवाच्यवादान्, च, बहून्, वदिष्यन्ति, तव, अहिताः । निन्दन्तः, तव, सामर्थ्यम्, ततः, दुःखतरम्, नु, किम् ॥
अन्वयः
सम्पादयतुतव अहिताः तव सामर्थ्यं निन्दन्तः बहून् अवाच्यवादान् वदिष्यन्ति । ततः दुःखतरं नु किम् ?
शब्दार्थः
सम्पादयतुअन्वयः | विवरणम् | सरलसंस्कृतम् |
तव | तद्-द.सर्व.ष.एक. | भवतः |
अहिताः | अ.पुं.प्र.बहु. | शत्रवः |
च | अव्ययम् | अपि |
तव | तद्-द.सर्व.ष.एक. | ते |
सामर्थ्यम् | अ.नपुं.द्वि.एक. | शक्तिम् |
निन्दन्तः | निन्दत्-त.पुं.प्र.बहु. | दूषयन्तः |
बहून् | उ.पुं.द्वि.बहु. | नाना |
अवाच्यवादान् | अ.पुं.द्वि.बहु. | अवक्तव्यवचनानि |
वदिष्यन्ति | √वद व्यक्तायां वाचि-पर.कर्तरि, लृट्.प्रपु.बहु. | कथयिष्यन्ति |
ततः | अव्ययम् | तस्मात् |
दुःखतरम् | अ.नपुं.प्र.एक. | अतिशयितदुःखम् |
नु | अव्ययम् | |
किं | किम्-म.सर्व.नपुं.प्र.एक. | किमस्ति ? |
व्याकरणम्
सम्पादयतुसन्धिः
सम्पादयतु- अवाच्यवादांश्च = अवाच्यवादान् + च – रुत्वं, विसर्गः, अनुस्वारागमः, सत्वसन्धिः, श्चुत्वं च
- तवाहिताः = तव + अहिताः – सवर्णदीर्घसन्धिः
- ततो दुःखतरम् = ततः + दुःखतरम् – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः
समासः
सम्पादयतु- अवाच्यवादान् = अवाच्याः वादाः, तान् – कर्मधारयः
- अहिताः = न हिताः नञ्तत्पुरुषः
कृदन्तः
सम्पादयतु- निन्दन्तः = णिदि + शतृ (कर्तरि)
तद्धितान्तः
सम्पादयतु- दुःखतरम् = दुःख + तरप् (अतिशये)
अर्थः
सम्पादयतुतव अहिताः तव सामर्थ्यम् निन्दन्तः बहूनि अवाच्यानि वचनानि त्वयि विषये वदिष्यन्ति । ततः दुःखतरम् अन्यत् किं भवेत् ?
भाष्यार्थः
सम्पादयतु'अहिताः अवाच्यवादांश्च निन्दन्तस्तव सामर्थ्यम्' - 'अहित' इत्युक्ते शत्रुः । अहितकारी इति । भवतु त्वं तान् प्रति वैरभावं त्येजत् । परन्तु दुर्योधन-दुःशासन-कर्णादयः ते शत्रवः त्वयि वैरबुद्धिं न त्यक्ष्यन्ति । ते तु तव अहितं करिष्यन्त्येव । त्वयि युद्धाय सामर्थ्यम् अस्ति इति ज्ञाते सत्यपि ते तव कापुरुषत्वेन प्रचारं करिष्यन्ति । अस्माकं सम्मुखं युद्धं कर्तुम् असमर्थः अर्जुनः भयाद् युद्धम् अत्यजत् इति वदिष्यन्ति । तेषां कटुवचनानि त्वं कथं सहिष्यसे ?
'ततो दुःखतरं नु किम्' – एतस्माद् महद्दुःखं किम् ? किञ्च लोके दृश्यते यद्, यदा मनुष्यः तुच्छमनुष्येभ्यः तिरस्कृतो भवति, तदा तं तिरस्कारं सोढुं न शक्नोति । तस्मिन् काले त्वं स्वयं योत्स्यसि । अधुना भवतु युद्धोपरतः, परन्तु तदा युद्धं करिष्यसि चेद्, तव निन्दा भविष्यति । तां निन्दां त्वं कथं सहिष्यसे ?
किञ्च -
अवाच्यवादान् अवक्तव्यवादां श्च बहून् अनेकप्रकारान् वदिष्यन्ति तव अहिताः शत्रवः निन्दन्तः कुत्सयन्तः तव त्वदीयं सामर्थ्यं निवातकवचादियुद्धनिमित्तम्। ततः तस्मात् निन्दाप्राप्तेर्दुःखात् दुःखतरं नु किम् ततः कष्टतरं दुःखं नास्तीत्यर्थः।।
भाष्यार्थः
सम्पादयतुतथा च –
ते तव शत्रवः निवात-कवचादिभिस्सह युद्धे कृते प्रदर्शितस्य तव सामर्थस्यापि निन्दां करिष्यति । निन्दन्तः ते त्वम् अनेकानि अवक्तव्यानि वचनानि अपि कथयिष्यन्ति । तेभ्यः निन्दायुक्तेभ्यः वचनेभ्यः अधिकदुःखतरं किम् ? अर्थात् तस्माद् अधिकं किमपि दुःखं न भवति इति ।
किञ्च -
शूराणाम् अस्माकं सन्निधौ कथम् अयं पार्थः क्षणम् अपि स्थातुं शक्नुयाद् अस्मत्संनिधानाद् अन्यत्र हि अस्य सामर्थ्यम् इति तव सामर्थ्यं निन्दन्तः शूराणाम् अग्रे अवाच्यवादान् च बहून् वदिष्यन्ति तव शत्रवो धार्तराष्ट्राः ततः अधिकतरं दुःखं किं तव एवंविधावाच्यश्रवणात् मरणम् एव श्रेयः इति त्वम् एव मन्यसे।
भाष्यार्थः
सम्पादयतुअतिरिक्तं च –
अस्मत्सदृशानां वीराणां सम्मुखं पार्थः क्षणं यावदपि कथं योद्धुं शक्नोति ? अस्माकं सन्निधेः परम् एव एतस्य सामर्थ्यम् अस्ति । एतादृशैः निन्दावाक्यैः तव शत्रवः धृतराष्ट्रपुत्राः ते सामर्थ्यस्य सर्वेषां योद्धॄणाम् उपस्थितौ अवाच्यानि वचनानि कथयिष्यन्ति । तुभ्यम् एतस्माद् अधिकः दुःखस्य विषयः कः भवेद् ? एतादृशानां वचनानां श्रवणापेक्षया मृत्युः एव वरम् इति त्वं स्वयमेव मंस्यसे ।
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये अवाच्यवादांश्च बहून्... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्
सम्पादयतु- ↑ श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
- ↑ रामानुजभाष्यम्
अधिकवाचनाय
सम्पादयतु- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च