आश्चर्यवत्पश्यति कश्चिदेनम्...
आश्चर्यवत्पश्यति कश्चिदेनम् ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः शरीरिणः अलौकिकतायाः वर्णनं करोति । पूर्वस्मिन् श्लोके जन्ममृत्य्वोः मध्यस्थायाः स्थितेः (प्राणिनाम् अप्रत्यक्षस्थितेः) वर्णनं कृत्वा अत्र भगवान् आत्मनः वैशिष्ट्यं वर्णयति । सः कथयति यद्, कश्चन एनं शरीरिणम् आश्चर्यवद् पश्यति । तथैव अपरः तम् आत्मानम् आश्चर्यवद् विवृणोति । तथा च अन्यः तं देहिनम् आश्चर्यवद् शृणोति । तथापि (श्रुत्वापि) कोऽपि तं शरीरिणं ज्ञातुं न प्रभवति इति ।
आश्चर्यवत्पश्यति कश्चिदेनम्... शरीरिणः अलौकिकतायाः वर्णनम् | |
---|---|
श्लोकसङ्ख्या | २/२९ |
श्लोकच्छन्दः | उपजातिच्छन्दः |
पूर्वश्लोकः | अव्यक्तादीनि भूतानि... |
अग्रिमश्लोकः | देही नित्यमवध्योऽयं... |
श्लोकः
सम्पादयतु- आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्यः ।
- आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥ २९ ॥
पदच्छेदः
सम्पादयतुआश्चर्यवत्, पश्यति, कश्चित्, एनम्, आश्चर्यवत्, वदति, तथा, एव, च, अन्यः । आश्चर्यवत्, च, एनम्, अन्यः, शृणोति, श्रुत्वा, अपि, एनम्, वेद, न, च, एव, कश्चित् ॥
अन्वयः
सम्पादयतुकश्चित् एनम् आश्चर्यवत् पश्यति, तथा एव अन्यः च आश्चर्यवत् वदति, अन्यः च एनम् आश्चर्यवत् शृणोति । कश्चित् एनं श्रुत्वा अपि न च एव वेद ।
शब्दार्थः
सम्पादयतुअन्वयः | विवरणम् | सरलसंस्कृतम् |
कश्चित् | अव्ययम् | कोऽपि पुरुषः |
एनम् | एतद्.द.सर्व.पुं.द्वि.एक. | आत्मानम् |
आश्चर्यवत् | अव्ययम् | उतवत् |
पश्यति | √दृशिर् प्रेक्षणे-पर.कर्तरि, लट्.प्रपु.एक. | वीक्षते |
तथा एव | अव्ययम् | एवम् |
अन्यः | अ.सर्व.पुं.प्र.एक. | अपरः पुरुषः |
च | अव्ययम् | अपि |
वदति | √वद व्यक्तायां वाचि-पर.कर्तरि, लट्.प्रपु.एक. | कथयति |
शृणोति | √श्रु श्रवणे-पर,कर्तरि, लट्.प्रपु.एक. | आकणर्र्यति |
कश्चित् | अव्ययम् | कोऽपि |
एनम् | एतद्.द.सर्व.पुं.द्वि.एक. | अमुम् |
श्रुत्वा | क्त्वान्तम् अव्ययम् | आकर्ण्य अपि |
अपि | अव्ययम् | अपि |
न च एव | अव्ययम् | न एव । |
वेद | √विद ज्ञाने-पर.कर्तरि, लट्.प्रपु.एक. | जानाति |
व्याकरणम्
सम्पादयतुसन्धिः
सम्पादयतु- कश्चिदेनम् = कश्चित् + एनम् – जश्त्वसन्धिः
- आश्चर्यवद्वदति = आश्तर्यवत् + वदति – जश्त्वसन्धिः
- तथैव = तथा + एव – वृद्धिसन्धिः
- चैव = च + एव = वृद्धिसन्धिः
- चान्यः = च + अन्यः – सवर्णदीर्घसन्धिः
- श्रुत्वापि = श्रुत्वा + अपि – सवर्णदीर्घसन्धिः
- आश्चर्यवच्च = आश्चर्यवत् + च – श्चुत्वसन्धिः
- अप्येनम् = अपि + एनम् - यण्सन्धिः
कृदन्तः
सम्पादयतु- श्रुत्वा = श्रु + क्त्वा
अर्थः
सम्पादयतुकश्चन एतम् आत्मानम् अद्भुतमिव पश्यति । अन्यः कश्चन एनम् अद्भुतमिव वदति । अपरः एनम् अद्भुतमिव शृणोति । अन्यस्तु श्रुत्वापि एनं नैव जानाति ।
भाष्यार्थः
सम्पादयतु'आश्चर्यवत्पश्यति कश्चिदेनम्' - कश्चन एनं शरीरिणम् आश्चर्यवद् पश्यति । तात्पर्यम् अस्ति यद्, यथा अन्यानि वस्तूनि दर्शनेन, श्रवणेन, वाचनेन च अवगम्यन्ते, तथैव देहिनः ज्ञानम् असम्भवम् । किञ्च वस्त्वन्तराणि इदम्तात्वादि जानीमः । अर्थात् तानि वस्तूनि बुद्धिविषयः भवति । परन्तु देही तु न बुद्धिविषयः । सः स्वेन स्वयं ज्ञातुं शक्यः । यस्य ज्ञानं स्वेन भवति, तस्य ज्ञानं लौकिकज्ञानवन्न भवति, अपि तु विलक्षणं भवति । 'पश्यति' इत्यस्य पदस्य द्वौ अर्थौ भवतः । नेत्रेण दर्शनं, स्वेन दर्शनञ्च । अत्र 'पश्यति' इत्यस्य पदस्य 'स्वेन दर्शनम्' इत्यस्यार्थे प्रयोगः [१] [२] ।
यत्र नेत्रादिभिः करणैः ज्ञानं प्राप्तव्यं भवति, तत्र दृष्टा, दृश्यं, दर्शनम् इत्येतेषां त्रिसङ्गमः भवति । अर्थाद् दृष्टा भवति, दृश्यमानं वस्तु भवति, ततश्च दर्शनशक्तिः अपि भवति इति । अनेन त्रिसङ्गमेन सांसारिकवस्तूनां दर्शनं भवति । परन्तु स्वस्य ज्ञानाय तु तेन त्रिसङ्गमेन किमपि न भवति । अर्थाद् स्वस्य ज्ञानकरणं सापेक्ष्यं नास्ति । स्वस्य ज्ञानं तु स्वेन एव भवति । अर्थाद् तज्ज्ञानं निरपेक्षम् अस्ति । यथा 'अहम् अस्मि' इति यत् स्वस्य अवस्थितेः ज्ञानम् अस्ति, तस्मिन्न कस्यापि प्रमाणस्य उत करणस्य आवश्यकता अपेक्ष्यते । स्वस्य अवस्थितेः ज्ञानम् 'इदम्तया' अर्थाद् दृश्येन न भवति । तज्ज्ञानं तु स्वयमेव भवति । यतो हि आत्मज्ञानम् इन्द्रियजन्यम् उत बुद्धिजन्यं न भवति, अतः स्वस्य ज्ञाने सति आश्चर्यवद् अनुभूयते । यदा अन्धकारयुक्ते प्रकोष्ठे वयं वस्तु स्वीकर्तुं गच्छामि, तदा अस्माकं साहाय्यार्थं प्रकाशः आवश्यकः, नेत्रे अपि आवश्यके च । अर्थाद् प्रकोष्ठस्य अन्धकारे प्रकाशस्य साहाय्येन नेत्रेण वयं वस्तु दृष्टुं शक्नुमः । परन्तु कुत्रचिद् विद्यमानं दीपकं यदि पश्यामः, तर्हि तस्य दीपकस्य दर्शनाय अपरस्य दीपकस्य आवश्यकता न भवति । यतो हि दीपकः स्वयं प्रकाश्यः अस्ति । सः आत्मानम् एव प्रकाशयति । तथैव आत्मस्वरूपं द्रष्टुम् अन्यस्य प्रकाशस्य आवश्यकता नास्ति । यतो हि देही (स्वरूपः) स्वयमेव प्रकाशः अस्ति । एवं सः स्वयम् (आत्मानं) स्वेन जानाति ।
स्थूलसूक्ष्मकारणशरीराणि सन्ति । अन्नजलादिभिः निर्मितं स्थूलशरीरम् । इन्द्रियविषयः स्थूलशरीरम् । स्थूलशरीरे पञ्च ज्ञानेन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, पञ्च प्राणाः, मनोबुद्धी च भवन्ति । एतैः सप्तदशैः अङ्गैः निर्मितं भवति सूक्ष्मशरीरम् । सूक्ष्मशरीरं नेन्द्रियविषयः, प्रत्युत बुद्धिविषयः । यन्न बुद्धिविषयः, यस्मिन् प्रकृतिस्वभावः भवति, तद् कारणशरीरम् । एतानि त्रीणि शरीराणि वस्तुतः आत्मस्वरूपं न । यतो हि तानि प्रतिक्षणं परिवर्तनशीलानि । शरीरादित्वाद् एतस्य आत्मनः ज्ञानम् आश्चर्यं जनयति । अतः 'आश्चर्यवत् पश्यति' इति उक्तम् ।
अत्र भगवान् कथयति यद्, आत्मानुभवी कश्चन (कश्चित्) एकः एव भवति । अग्रेऽपि एनं विषयं भगवान् पुनः कथयति यद्, कश्चिन्मनुष्यः एव मां तत्त्वेन जानाति इति [३] । एवं प्रतीयते यद्, तस्य अनविनाशिनः तत्त्वस्य ज्ञानम् अतीव कष्टकरं, दुर्लभञ्च अस्ति इति । परन्तु वस्तुतः तथा नास्ति । प्रत्युत तस्य तत्त्वस्य योग्यज्ञातारः न्यूनाः सन्ति । न्यूनाः ज्ञातारः तु तत् तत्त्वं प्रति जिज्ञासायाः न्यूनतात्वाद् ।
'आश्चर्यवद्वदति तथैव चान्यः' – तथैव अपरः पुरुषः तं देहिनम् आश्चर्यवद् वर्णयति । यतो हि तत् तत्त्वं वाणीविषयः न । ये महापुरुषाः तस्य तत्त्वस्य वर्णनं कुर्वन्ति, ते तु केलवं तत् तत्त्वं प्रति सङ्केतं कुर्वन्ति । तेन श्रोतुः लक्ष्यं तत् तत्त्वं भवति । अतः तस्य तत्त्वस्य वर्णनम् अपि आश्चर्यवद् भवति । अत्र उपयुक्तस्य 'अन्यः' इत्यस्य पदस्य तात्पर्यम् अस्ति यद्, यः जानाति, तस्माद् वक्ता भिन्नः अस्ति । किञ्च यः स्वयम् आत्मतत्त्वं ज्ञातवान्, सः कथं तस्य वर्णनं करिष्यति ? । ये ज्ञातारः सन्ति, तेषु विरलः एव वर्णनं करोति । यतो हि सर्वेषु अनुभविषु महापुरुषेषु तत्त्वविवेचनस्य सामर्थ्यं न भवति । एवं वर्णनस्य विलक्षणक्षमतायां प्रकटयितुम् 'अन्यः' इति पदम् ।
'आश्चर्यवच्चैनमन्यः' – अपरः कश्चन एनं देहिनम् आश्चर्यवच्छृणोति । तात्पर्यम् अस्ति यद्, श्रोता शास्त्राणां, लोकलोकान्तराणां च चर्चाः एव श्रुतवान् अस्ति । तस्य कृते आत्मनः चर्चा विलक्षणा एव सिद्ध्यति । किञ्च अन्यत् सर्वं तस्य कृते अनुभवगम्यम् (इन्द्रियादिविषयः) आसीत् । परन्तु देही इन्द्रियादिभ्यः विशिष्टत्वाद् न इन्द्रियादिविषयः । प्रत्युत इन्द्रियादीनां विषयाः तेन देहिना प्रकाशिताः भवन्ति । अतः देहिनः विषये यः शृणोति, सोऽपि आश्चर्यवद् पश्यति इत्यर्थः । अत्रापि 'अन्यः' इति पदम् अस्ति । तस्य तात्पर्यम् अस्ति यद्, ज्ञाता, वक्ता च भिन्नौ स्तः । तयोः अपि भिन्नः अस्ति श्रोता (तत्त्वजिज्ञासुः) इति ।
'श्रुत्वाप्येनं वेद न चैव कश्चित्' – एषः श्रुत्वा ज्ञातुं न शक्यः इत्यस्य तात्पर्यम् अस्ति यद्, देहिनः विषये किमपि श्रुतं चेद्, तस्य ज्ञानम् अभवद् इति न । अत्र श्रवणम् इत्युक्ते केवलं श्रवणेन तं देहिनं कोऽपि ज्ञातुं न प्रभवति । श्रवणोत्तरं यदा सः तस्मिन् तत्त्वे स्थिरः भविष्यति, तदा सः स्वेन एव स्वं ज्ञास्यति [४] [५] [६] [७] । अत्र यदि कोऽपि कथयति यद्, शास्त्रेभ्यः, महापुरुषेभ्यः च आत्मतत्त्वविषये श्रुत्वा तु ज्ञानं भवति एव । तर्हि 'श्रुत्वा न ज्ञायते' इति किमर्थम् उक्तम् ? इति । अत्र गम्भीरतया चिन्तयामश्चेत् शास्त्राणि, महापुरुषाः च स्वस्मिन् श्रद्धां स्थापयन्तु इति कदापि न कथयन्ति । साधकस्य अन्तःकरणे एव शास्त्राणि, महापुरुषान् च प्रति श्रद्धाविश्वासः समुद्भवति । सः स्वयं तान् सम्मुखीभवति । यदि ईश्वरं प्रति सौम्मुख्यादेव ज्ञानम् अभविष्यत्, तर्हि एतावता ईश्वरः अनेकवारम् अवातरिष्यत्, कालान्तरे अनेकेषां महापुरुषाणां जन्म अभवच्च, तेषां सम्मुखं यः उपातिष्ठत, सः आत्मतत्त्वम् अज्ञास्यत् । अर्थात् तेषां सम्मुखे उपस्थिताः सर्वे तत्त्वज्ञानिनः अभविष्यन् । परन्तु तथा न दृश्यते । एवमुक्तं पदं तत्त्वज्ञानस्य असम्भवतां प्रदर्शितुं नास्ति, अपि तु करणनिरपेक्षत्वं प्रदर्शयितुम् अस्ति । मनुष्यः येन केन प्रकारेण तत्त्वं ज्ञातुं प्रयतेत, परन्तु अन्ततो गत्वा स्वेन एव स्वं ज्ञास्यति । श्रवणमननादीनि तु तत्त्वज्ञानप्राप्त्यै पारम्परिकसाधनत्वेन अङ्गीकर्तुं शक्नुमः, परन्तु वास्तविकबोधस्तु करणनिरपेक्षः (स्वेन स्वस्य ज्ञानम्) एव ।
स्वेन स्वस्य ज्ञानम् इति किम् ? तिस्रः क्रियाः भवन्ति । प्रथमा करणक्रिया, द्वितीया दर्शनक्रिया, तृतीया ज्ञानक्रिया इति । करणक्रियायां कर्मेन्द्रियाणि, दर्शनक्रियायां दृश्येन्द्रियाणि, ज्ञानक्रियायां च ज्ञानेन्द्रियाणि स्वयं मुख्यतां वहन्ति । ज्ञानेन्द्रियैः ज्ञातव्यं किमपि न भवति, अपि तु दर्शनीयं भवति । तत् सर्वं व्यावहारिकं भवति । स्वेन यज्ज्ञातव्यं भवति, तद् द्विधा भवति । प्रथमं तु शरीरसंसाराभ्यां मे भिन्नत्वम् । द्वितीयञ्च परमात्मना सह मे अभिन्नत्वम् । अर्थात्, परिवर्तनशीलैः नाशवद्भिः वस्तुभिः सह मे किञ्चिन्मात्रम् अपि सम्बन्धः नास्ति । अपरिवर्तनशीलेन अविनाशिना परमात्मना सह मे नित्यसम्बन्धश्च अस्ति । एतयोः अनुभवस्य वाण्या वर्णनम् अशक्यम् । तत्र तु बुद्धिः अपि तूष्णीं तिष्ठति ।
दुर्विज्ञेयोऽयं प्रकृत आत्मा किं त्वामेवैकमुपालभे साधारणे भ्रान्तिनिमित्ते। कथं दुर्विज्ञेयोऽयमात्मा इत्यत आह -
आश्चर्यवत् आश्चर्यम् अदृष्टपूर्वम् अद्भुतम् अकस्माद्दृश्यमानं तेन तुल्यं आश्चर्यवत् आश्चर्यमिव एनम् आत्मानं पश्यति कश्चित्। आश्चर्यवत् एनं वदति तथैव च अन्यः। आश्चर्यवच्च एनमन्यः श्रृणोति। श्रुत्वा दृष्ट्वा उक्त्वापि एनमात्मानं वेद न चैव कश्चित्। अथवा योऽयमात्मानं पश्यति स आश्चर्यतुल्यः यो वदति यश्च श्रृणोति सः अनेकसहस्रेषु कश्चिदेव भवति। अतो दुर्बोध आत्मा इत्यभिप्रायः।।
यस्य आत्मतत्त्वस्य प्रकरणं चलति, तद् आत्मतत्त्वं दुर्विज्ञेयम् अस्ति । सर्वसाधराणे भ्रान्त्युत्पादके विषये केवलं त्वामेव किमर्थम् उपालभे ? एषः आत्मा दुर्विज्ञेयः कथम् अस्ति ? इति कथयति –
पूर्वं यन्न दृष्टं स्याद्, अकस्मात् तस्य दृष्टिगोचरे सति अद्भुतपदार्थः इति आश्चर्यं भवति । तदाश्चर्यस्य सादृश्यम् इत्युक्ते आश्चर्यवद् इति । एनम् आत्मानं कोऽपि महापुरुषः एव आश्चर्यमयवस्तुवद् पश्यति । तथैव अपरः कश्चन तत् तत्त्वम् आश्चर्यवद् वदति । तं वक्तारम् अन्यः कश्चन आश्चर्यवद् शृणोति । एवं कश्चन तम् आत्मानं दृष्ट्वा, उक्त्वा, श्रुत्वा चापि न ज्ञातुं शक्नोति । अथवा यः एनम् आत्मानं पश्यति, सः आश्चर्यतुल्यम् अस्ति । यः कथयति, शृणोति च तदपि आश्चर्यतुल्यम् अस्ति इति । अभिप्रायः अस्ति यद्, अनेकेषु सहस्रेषु कश्चिद् एकः एव तादृशो जोयते, अतः आत्मत्त्वम् दुर्बोधम् अस्ति इति ।
रामानुजभाष्यम्
सम्पादयतुएवं शरीरात्मवादे अपि नास्ति शोकनिमित्तम् इति उक्त्वा शरीरातिरिक्त आश्चर्यस्वरूप आत्मनि द्रष्टा वक्ता श्रोता श्रवणायत्तात्मनिश्चयः च दुर्लभ इत्याह -
एवम् उक्तस्वभावं स्वेतरसमस्तवस्तुविसजातीयतया आश्चर्यवद् अवस्थितम् अनन्तेषु जन्तुषु महता तपसा क्षीणपाप उपचितपुण्यः कश्चित् पश्यति तथाविधः कश्चित् परस्मै वदति एवं कश्चिद् एव श्रृणोति श्रुत्वा अपि एनं यथावद् अवस्थितं तत्त्वतो न कश्चिद् वेद। चकाराद् द्रष्टृवक्तृश्रोतृषु अपि तत्त्वतो दर्शनं तत्त्वतो वचनं तत्त्वतः श्रवणं दुर्लभम् इति उक्तं भवति।
भाष्यार्थः
सम्पादयतुएवं देहात्मवादसिद्धान्ते अर्थाद् शरीरमेव आत्मा अस्ति इत्यस्य सिद्धान्तेऽपि शोकस्य किमपि कारणं नास्ति । एवम् उक्त्वा शरीराद् भिन्नस्य आश्चर्यरूपस्य आत्मनः द्रष्टा, वक्ता, श्रोता च दुर्लभाः सन्ति । तथा च केवलं श्रवणेन एव आत्मस्वरूपस्य निश्चयः अपि दुर्लभः अस्ति इति अधुना वदति–
अनन्तजीवेषु कश्चन एकः (पुरुषः) महता तपसा यस्य सर्वाणि पापानि क्षीणानि जातानि, तथा च पुण्यस्य सञ्चयः अभवत्, सः उपर्युक्तस्वभावयुक्तम् आत्मानं स्वस्माद् अतिरिक्तं, सर्वेभ्यः वस्तुभ्यः विजातीयरूपे (भिन्नरूपे) आश्चर्यवद् पश्यति । तथैव कश्चन महापुरुषः तस्य आत्मनः विषये विवरणम् अन्यं श्रावयति । तथैव अपरः कश्चन आत्मानं शृणोति, परन्तु श्रुत्वापि सः आत्मनः वास्तविकं तत्त्वं यथास्वरूपं श्रोतुं न शक्नोति । 'च'-कारस्य उपयोगेन अत्र तात्पर्यम् अस्ति यद्, द्रष्टृषु, वक्तृषु, श्रोतृषु च अपि तत्त्वस्वरूपे दर्शनं, वचनं, श्रवणं दुर्लभम् अस्ति इति ।
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये आश्चर्यवत्पश्यति कश्चिदेनम्... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्
सम्पादयतु- ↑ गीता, अ. २, श्लो. ५५
- ↑ गीता, अ. ६, श्लो. २०
- ↑ कश्चिन्मां वेत्ति तत्त्वतः, गीता, अ. ७, श्लो. ३
- ↑ आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते गीता, अ. २, श्लो. ५५
- ↑ यस्तवात्मपतिरेव स्यादत्मतृप्तश्च मानवः ।
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ।।, गीता, अ. ३, श्लो. १७ - ↑ यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति, गीता, अ. ६, श्लो. २०
- ↑ यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम्, गीता, अ. १५, श्लो. ११
- ↑ श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
- ↑ श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
अधिकवाचनाय
सम्पादयतु- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च