नास्ति बुद्धिरयुक्तस्य...

(२.६६ नास्तु बुद्धिः… इत्यस्मात् पुनर्निर्दिष्टम्)

नास्ति बुद्धिरयुक्तस्य () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अयुक्तपुरुषाय सुखाभावं कथयति । प्रसन्नतायाः फलं भगवत्प्राप्तिः इति पूर्वस्मिन् श्लोके उक्त्वा अत्र दुःखस्य कारणं वर्णयति ।

नास्ति बुद्धिरयुक्तस्य...


अयुक्तपुरुषाय सुखाभावः
श्लोकसङ्ख्या २/६६
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः प्रसादे सर्वदुःखानां...
अग्रिमश्लोकः इन्द्रियाणां हि चरतां...

यस्य मनेन्द्रियाणि संयमितानि न सन्ति, तादृशस्य मनुष्यस्य व्यवसायात्मिका बुद्धिः न भवति । व्यवसायात्मिकाबुद्धेः अभावत्वात् तस्य मनुष्यस्य कर्तव्यपरायणतायाः भावना न भवति । तस्याः कर्तव्यपरायणभावनायाः अभावे सः शान्तिं न प्राप्नोति । शान्तिरहितः पुरुषः सुखं कथं प्राप्नुयात् ? इति । अत्र कर्मयोगस्य विषयः अस्ति । कर्मयोगे मनसः, इन्द्रियाणां च संयमः मुख्यतया आवश्यकः । विवेकपूर्वकसंयमाभावात् कामना विनष्टा न जायते । कामनायाः अवस्थितौ बुद्धिः न स्थिरीभवति । अतः कर्मयोगी साधकः प्रप्रथमं तु मनः, इन्द्रियाणि च संयमेत् । परन्तु यः मनः, इन्द्रियाणि च न समयमत्, सः दुःखी भवति इति अत्र कथयति ।

श्लोकः सम्पादयतु

 
गीतोपदेशः
नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥ ६६ ॥

पदच्छेदः सम्पादयतु

नास्ति, बुद्धिः, अयुक्तस्य, न, च, अयुक्तस्य, भावना । न, च, अभावयतः, शान्तिः, अशान्तस्य, कुतः, सुखम् ॥

अन्वयः सम्पादयतु

अयुक्तस्य बुद्धिः नास्ति । अयुक्तस्य च भावना न । अभावयतः च शान्तिः न । अशान्तस्य कुतः सुखम् ।

शब्दार्थः सम्पादयतु

अन्वयः विवरणम् सरलसंस्कृतम्
अयुक्तस्य अ.पु.ष.एक. योगरहितस्य
बुद्धिः इ.स्त्री.प्र.एक. धीः
अव्ययम्
अस्ति √अस् भूवि-पर.कर्तरि, लट्.प्रपु.एक. भवति
अयुक्तस्य अ.पु.ष.एक. अयोगिनः
अव्ययम्
भावना आ.स्त्री.प्र.एक. चिन्तना अपि
अव्ययम् न विद्यते
अभावयतः अभावयत्-त.पुं.ष.एक. अचिन्तयतः
अव्ययम्
शान्तिः इ.स्त्री.प्र.एक. शान्तिः
अव्ययम् न भवति
अशान्तस्य अ.पु.ष.एक. शान्तिविहीनस्य
सुखम् अ.नपुं.प्र.एक. आनन्दः
कुतः अव्ययम् कथं सम्भवति ?

व्याकरणम् सम्पादयतु

सन्धिः सम्पादयतु

  1. नास्ति = न + अस्ति - सवर्णदीर्घसन्धिः
  2. बुद्धिरयुक्तस्य = बुद्धिः + अयुक्तस्य – विसर्गसन्धिः (रेफः)
  3. चायुक्तस्य = च + अयुक्तस्य – सवर्णदीर्घसन्धिः
  4. चाभावयतः = च + अभावयतः – सवर्णदीर्घसन्धिः
  5. शान्तिरशान्तस्य = शान्ति + अशान्तस्य - विसर्गसन्धिः (रेफः)

समासः सम्पादयतु

  1. अयुक्तस्य = न युक्तः अयुक्तः, तस्य – नञ्-तत्पुरुषः ।
  2. अभावयतः = न भावयन् अभावयन्, तस्य – नञ्-तत्पुरुषः ।
  3. अशान्तस्य = न शान्तः अशान्तः, तस्य – नञ्-तत्पुरुषः ।

कृदन्तः सम्पादयतु

  1. अयुक्तस्य = न + युजिर् + क्त्वा (कर्तरि)
  2. भावयतः = भू + णिच् + शतृ (कर्तरि)

अर्थः सम्पादयतु

यस्य समाधिः नास्ति, तस्य आत्मस्वरूपविषया बुद्धिः न भवति । तादृशस्य अयुक्तस्य आत्मज्ञानाभिनिवेशः न भवति । आत्मज्ञानाभिनिवेशरहितस्य शान्तिः न भवति । अशान्तस्य कथं वा सुखं स्यात् ?

भावार्थः [१] सम्पादयतु

'नास्ति बुद्धिरयुक्तस्य' – यस्य मनः, इन्द्रियाणि च संयमितानि न सन्ति, तस्य अयुक्तस्य (असंयमिनः) पुरुषस्य बुद्धिः निश्चयामिका न भवति अर्थात् "अहं केवलं परमात्मानं प्राप्तुम् इच्छामि" इति भावः तस्मिन् न भवति । यतः तस्य मनः, इन्द्रियाणि च असंयमितानि सन्ति । तेन उत्पत्तिविनाशशीलेषु सांसारिकभोगेषु, तेषां सङ्ग्रणे च सः मनुष्यः रमते । सः स्थित्यानुगणं मानः, सुखम्, आरामः, धनम् इत्यादीनां भौतिकभोगानाम् एव इच्छां साधयति । एवं तस्य अन्तःकरणं विविधाभिः कामनाभिः परिपूर्णं भवति । अतः तस्य बुद्धिः निश्चयात्मिका न सिद्ध्यति ।

'न चायुक्तस्य भावना' – यस्य बुद्धिः व्यवसायात्मिका न, तस्य भावना न भवति अर्थात् "अहं केवलं स्वकर्तव्यानां पालनं कर्तुम् इच्छामि" इति विचन्त्य फलस्य, कामनायाः, आसक्तेः च त्यागं कर्तुं भावना न इति । स्वध्येयस्य अस्थिरतायाः कारणेन तादृश्याः भावनायाः सम्पादनं न भवति ।

'न चाभावयतः शान्तिः' – यः स्वकर्तव्यं प्रति निष्ठः न, सः अशान्तः । यथा - साधुः, शिक्षकः, ब्राह्मणः, क्षत्रियः, वैश्यः, शूद्रः इत्यादयः यदि स्वकर्तव्ये तत्पराः न भवन्ति, तर्हि ते शान्तिं न प्राप्नुवन्ति । किञ्च स्वकर्तव्यपालने दृढतायाः अभावः एव अशान्तिं जनयति ।

'अशान्तस्य कुतः सुखम्' – यः अशान्तः अस्ति, सः कदापि सुखी कथं भवितुम् अर्हेत् ? किञ्च तस्य हृदये सर्वदा उद्वेगः प्रचलति । बाह्यजगतः सः यावातः अनुकूलान् भागान् प्राप्नुयात्, परन्तु तस्य हृदयस्थः उद्वेगस्तु कदापि न दूरीभवति । अतः तस्य सुखस्य तु अवसरः एव न समुद्भवति ।

शाङ्करभाष्यम् [२] सम्पादयतु

सेयं प्रसन्नता स्तूयते - नास्तीति ।

नास्ति  न विद्यते न भवतीत्यर्थः  बुद्धिः  आत्मस्वरूपविषया  अयुक्तस्य  असमाहितान्तःकरणस्य। न च  अस्ति  अयुक्तस्य   भावना  आत्मज्ञानाभिनिवेशः। तथा  न च  अस्ति अभावयतः  आत्मज्ञानाभिनिवेशमकुर्वतः  शान्तिः  उपशमः।  अशान्तस्य कुतः सुखम्  इन्द्रियाणां हि विषयसेवातृष्णातः निवृत्तिर्या तत्सुखम् न विषयविषया तृष्णा। दुःखमेव हि सा। न तृष्णायां सत्यां सुखस्य गन्धमात्रमप्युपपद्यते इत्यर्थः।।

भाष्यार्थः सम्पादयतु

तस्याः प्रसन्नतायाः स्तुतिः क्रियते –

पूर्वोक्ते पुरुषे अर्थात् यस्य अन्तःकरणं समाहितं नास्ति, तादृशे मनुष्ये आत्मस्वरूपविषयिणी बुद्धिः न भवति । तथा च तस्मिन् अयुक्ते पुरुषे भावनायाः अभावो भवति अर्थात् आत्मज्ञानस्य प्रगाढप्रवेशः न भवति । आत्मज्ञानस्य साधनेन सह प्रीत्या अयुक्तः शान्तिं (उपशमतां) न प्राप्नोति । शान्तिरहितः पुरुषः सुखाधिकारी कथम् ? यतः विषयसेवनसम्बन्धाभ्यः तृष्णाभ्यः इन्द्रियाणां निवृत्तिः एव सुखम् उच्यते । विषयसम्बद्धातृष्णा कदापि सुखदा न सिद्ध्यति । सा तु दुःखकारिणी एव । अस्य अभिप्रायः भवति यत्, तृष्णायाः स्थित्यां सुखस्य गन्धमात्रम् अपि न लभ्येत इति ।

रामानुजभाष्यम् [३] सम्पादयतु

मयि संन्यस्तमनोरहितस्य खयत्नेन इन्द्रियदमने प्रवृत्तस्य कदाचिद् अपि विविक्तात्मविषया  बुद्धिः  न सेत्स्यति। अत एव तस्य तद्भावना  च न संभवति। विविक्तात्मानम्  अभावयतो  विषयस्पृहा शान्तिः  न भवति।  अशान्तस्य  विषयस्पृहायुक्तस्य  कुतो  नित्यनिरतिशयसुखप्राप्तिः।

भाष्यार्थः सम्पादयतु

मयि मनसः निक्षेपे अकृते, यः मनुष्यः स्वप्रयत्नेन इन्द्रियदमनं कुर्वन् अस्ति, तस्मिन् प्रकृतिसंसर्गरहिता आत्मविषयकबुद्धिः कदापि न सिद्ध्यति । अत एव तस्य तद्विषयिणी भावना अपि भवितुं नार्हति । प्रकृतिसंसर्गरहितस्य आत्मभावनायाः अकर्तुः पुरुषस्य विषयेच्छा कदापि शान्ता न भवति । एवं शान्तिशून्यविषयलालसायुक्ताय पुरुषाय नित्यनिरतिशयसुखस्य प्राप्तिः कथं भवेत् ?

श्रीमद्भगवद्गीतायाः श्लोकाः
  पूर्वतनः
प्रसादे सर्वदुःखानां...
नास्ति बुद्धिरयुक्तस्य... अग्रिमः
इन्द्रियाणां हि चरतां...
 
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः सम्पादयतु

बाह्यसम्पर्कतन्तुः सम्पादयतु

उद्धरणम् सम्पादयतु

  1. સાધકસંજીવની, ગીતાપ્રેસ
  2. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  3. रामानुजभाष्यम्

अधिकवाचनाय सम्पादयतु