एषः द्वितीयः अध्यायः विद्यते । निष्कामकर्मयोगस्य प्रक्रियायां कर्त्ता कर्त्तृत्वस्य अभिमानं विना कर्मणि प्रवर्तते, किन्तु तादृशः कर्त्ता कश्चित ज्ञानी पुरुषः एव भवति । ईश्वराय कर्मणां समर्पणमपि ज्ञानीजन एव स्वकीयेन भक्ति – प्रवणेन चेतसा विदधाति । अतः श्रीमद्भगवद्गीता ज्ञानमार्गस्यापि महत्त्वं स्वीकरोति । गीतोक्तज्ञानयोगः वस्तुतः सांख्यशास्त्रादिषु कथितात् ज्ञानमार्गात् भिन्नो वर्तते ।

गीतोपदेशः

श्रीमद्भगवदगीतायां ज्ञानयोगस्य विषयः प्रतिपादितः, तदनुसारेण ज्ञानम् आत्मनः एकतायाः पूर्णानुभवोऽस्ति । अस्य ज्ञानस्य अवस्थाद्वयं विद्यते । प्रथमावस्थायां सर्वभूतेषु आत्मनो दर्शनं ज्ञानं वर्तते, द्वितीयावस्थायां सर्वभूतानाम् आत्मनि दर्शनं ज्ञानम् अस्ति ।

सर्वभूतेषु आत्मानं दर्शयेदिति यज्ज्ञानमस्ति तत्र सर्वे भूताः प्राणिनो वा आधाररुपाः सन्ति, आत्मा चाधेयरुपोऽस्ति । सर्वभूतानामात्मनि दर्शने सति आत्मा आधाररुपो भवति, आधेयरुपाः सर्वे भूताश्च तम्नुभूयन्ते । गीतोक्तज्ञानयोगस्य इदम् अवस्थाद्वयं परस्परं सम्पूरकतया तिष्ठति । यः पुरुषोऽस्य ज्ञानयोगे गृह्यमाणस्य अवस्थाद्वयस्य व्यवहारे सम्प्रयोक्ता भवति, स समदर्शीति उच्यते । तादृशज्ञानिनां कृते श्रीमद्भगवदगीताया उदघोषोऽस्ति –“ शुनि चैव श्वपाके च पण्डिताः समदर्शिनः” इति ।

ज्ञानयोगस्य प्रथमावस्थायाः अर्थात् 'सर्वभूतस्थमात्मानम्’ इत्यस्य दृष्टान्तस्तु जगति सर्वत्र उपलभ्यते किन्तु द्वितीयावस्थायाः अर्थात् 'सर्वभूतानि चात्मनि’ इत्यस्य दृष्टान्तो जगति नास्ति, अतएव भगवता श्रीकृष्णेन विराटरुपं दर्शयित्वा तस्य सम्पूर्तिर्विहिता । अस्य विराटाऋपस्य वैशिष्टयमिदमासीत् यत् एकस्मिन्नेव् विराजात्मनि अर्जुनो नानारुपात्मकं जगत् व्यक्त्रुपं दृष्टवान् । अस्य परिणामस्वरुपमेव अर्जुनस्य आत्मैकत्वज्ञानं यथार्थमभूत् ।

भगवद्गीतायाः अध्यायाः
  1. अर्जुनविषादयोगः
  2. सांख्ययोगः
  3. कर्मयोगः
  4. ज्ञानकर्मसंन्यासयोगः
  5. कर्मसंन्यासयोगः
  6. आत्मसंयमयोगः
  7. ज्ञानविज्ञानयोगः
  8. अक्षरब्रह्मयोगः
  9. राजविद्याराजगुह्ययोगः
  10. विभूतियोगः
  11. विश्वरूपदर्शनयोगः
  12. भक्तियोगः
  13. क्षेत्रक्षेत्रज्ञविभागयोगः
  14. गुणत्रयविभागयोगः
  15. पुरुषोत्तमयोगः
  16. दैवासुरसंपद्विभागयोगः
  17. श्रद्धात्रयविभागयोगः
  18. मोक्षसंन्यासयोगः

शाङ्करभाष्यम् []

सम्पादयतु

गीतायाः द्वितीयः अध्यायः एषः वर्तते । अस्य अध्यायस्य तावत् भाष्यं वर्तते । अत्र च – 'दृष्ट्वा तु पाण्डवानीकम्’ इत्यारभ्य ‘ 'न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह' इत्येतदन्तः ग्रन्थः प्राणिनां शोकमोहादिसंसारबीजभूतदोष – उद्भवकारण प्रदर्शनार्थत्वेन व्याख्येयः । तथा हि राज्यगुरुपुत्रमित्रसुहृत्स्वजनसंबन्धिबान्धवेषु 'अहम् एषां मम एते’ इत्येवं भ्रान्तिप्रत्ययनिमित्त- स्नेहविच्छेदादिनिमित्तौ आत्मनः शोकमोहौ 'कथं भीष्ममहं सड्खये इत्यादिना अर्जुनेन प्रदर्शितौ । शोकमोहाभ्यां हि अभिभूतविवेकविज्ञानः स्वतः एव क्षात्रधर्मे युद्धे प्रवृत्तः अपि तस्मात् युद्धात् उपरराम । परधर्मं च भिक्षाजीवनादिकं च कर्तुं प्रववृते । तथा च शोकमोहदिदोषाविष्टचेतसां स्वभावतः एव स्वधर्मपरित्यागः प्रतिषिद्धसेवा च स्यात् । स्वधर्मे प्रवृत्तानामपि तेषां वाडमनः कायादीनां प्रवृत्तिः फलाभिसन्धिपूर्विका एवं साहङ्कारा च भवति तत्र एवं सति धर्माधर्मोपचयात् इष्टानिष्टजनमसुखदुः खप्रात्पिलक्षणः संसारः अनुपरतः भवति इत्यतः शोकमोहौ संसारबीजभूतौ । तयोः च सर्वकर्मसंन्यासपूर्वकात् आत्मज्ञानात् निवृत्तिः, न अन्यतः इति, सर्वलोकानुग्रहार्थं तत् उअपदिदिक्षुः भगवान् वासुदेवः अर्जुनं निमित्तीकृत्य आह –‘अशोच्यान् इत्यादि’ । पूर्वपक्षः सर्वकर्मसंन्यासपूर्वकात् आत्मज्ञाननिष्ठामात्रात् केवलात् एव कैवल्यं नैव प्राप्यते । किं तर्हि ? अग्निहोत्रादिक्षौतस्मार्तकर्मसहितात् ज्ञानात् कैवल्यप्राप्तिः इति सर्वासु गीतासु निश्चितः अर्थः इति तत्र केचित् आहुः । 'अथ चेत्त्वमिमं धर्म्यं सङग्रामं न करिष्यसि’, 'कर्मण्येवाधिकारस्ते’, कुरु कर्मैव तस्मात् त्वम्’ इत्यादि अस्य अर्थस्य ज्ञापकं च आहुः । हिंसादियुक्तत्वात् वैदिकं कर्म अधर्माय इति इयमपि आशङ्का न कार्या कथम् ? गुरुभ्रातृपुत्रादिहिंसालक्षणं युद्धलक्षणं क्षात्रं कर्म अत्यन्तं क्रूरमपि स्वधर्मः इति कृत्वा न अधर्माय । तदकरणे च "ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि” इति ब्रुवता यावज्जीवादिश्रुति-चोदितानां पश्चादिहिंसालक्षणानां च कर्माणां न अधर्मत्वम् इति प्रागेव सुनिश्चितं उक्तं भवति । सिद्धान्तः बुद्धिद्वयाश्रययोः ज्ञानकर्मनिष्ठयोः विभागवचनात् – तत् असत् । 'अशोच्यान्’ इत्यादिना यावत् 'स्वधर्ममपि चावेक्ष्य' इति एतदन्त्तेन ग्रन्थेन यत् परमार्थात्मतत्त्वनिरुपणं भगवता कृतं तत् साड्खयम् । आत्मनः जन्मादिषड-विक्रियाभावात अकर्ता आत्मा इति प्रकरणार्त्य्हनिरुपणात् तद्विषया या बुद्धिः जायते सा साङ्ख्यबुद्धिः । येषां ज्ञानिनां सा उचिता भवति ते साङ्ख्या । एतस्याः बुद्धेः जन्मनः प्राग् आत्मनः देहादिव्यतिरिक्तत्वकर्तृत्वभोक्तृत्वाद्यपेक्षः धर्माधर्मविवेकपूर्वकः मोक्षसाधन अनुष्ठानलक्षणनिरुपणः योगः । तद्विषया बुद्धिः योगबुद्धिः । येषां कर्मिणां सा उचिता भवति ते योगिनः । तथा च 'एषा तेऽभिहिता साङ्खये बुद्धिर्योगे त्विमां शृणु ’ इति द्वे बुद्धी भगवता विभक्ते निर्दिष्टे । तयोश्च “ पुरा वेदात्मना मया प्रोक्ता “ इति ज्ञानयोगेन विभक्तां साङ्ख्यबुद्धयाश्रयां साङ्ख्यानां निष्ठां वक्ष्यति । तथा च "कर्मयोगेन योगिनाम्” इति कर्मयोगेन विभक्तां योगबुद्धयाश्रयां निष्ठां वक्ष्यति । कर्तृत्व-अकर्तृत्व-एकत्व-अनेकत्व-बुद्धयाश्रययोः ज्ञानकर्मणोः एकपुरुषाश्रयत्व –असम्भवं पश्यता भगवता एवं साङ्ख्यबुद्धिं योगबुद्धिं च आश्रित्य द्वे निष्ठे विभक्ते उक्ते । यथा एतत् बिभागवचनं तथा एव शातपथीये ब्राह्मणे 'एतमेव प्रव्राजिनो लोकमिच्छन्तो ब्राह्मणाः प्रव्रजन्ति’ इति सर्वार्मसंन्यासं विधाय तच्छेषेण् –किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः’ इति दर्शितम् । तत्र एव- “ प्राग्दारप्रग्रहात् पुरुष आत्मा प्राकृतो धर्मजिज्ञासोत्तरकाल लोकत्रयसाधनं पुत्रं द्विप्रकारकं वित्तं मानुषं दैवं च तत्र मानुषं वित्तं कर्मरुपं पितृलोकप्राप्तिसाधनं विद्यां च दैवं वित्तं देवलोकप्राप्तिसाधनं सोऽकामयत “ इति अविद्याकामवतः एव सर्वाणि श्रौतादीनि कर्माणि दर्शितानि । 'तेभ्यो व्युत्थाय प्रव्रजन्ति’ इति आत्मानं लोकम् इच्छतः अकामस्य एव व्युत्थानं विहितम् । यदि श्रौतकर्मज्ञानयोः समुच्चयः भगवतः अभिप्रेतः स्थात् तदेतद विभागवचनम् अनुपपन्नं स्यात् । 'ज्याय सी चेत् कर्म्णस्ते’ इत्यादिः अर्जुनस्य प्रश्नः च न अनुपपन्नः स्यात् । बुद्धिकर्मणोः एकपुरुषानुष्ठेयत्वासम्भवं भगवता पूर्वम् अनुक्तम् अशृतं कर्मणश्च बुद्धेः ज्यायस्त्वं 'ज्यायसी चेत् कर्मणस्ते मता बुद्धिर्जनार्दन' इति कथम् भगवति मृषा एव् अध्यायोपयेत् । किञ्च, यदि बुद्धिकर्मणोः समुच्चयः सर्वेषाम् उक्तः स्यात् अर्जुनस्यापि स उक्तः एव इति 'यच्छेय एत्योरेकं तन्मे ब्रूहि सुनिश्चितम् 'इति उभयोः उपदेशे सति कथम् अन्यतरविषयः एव प्रश्नः स्यात् ? पित्तप्रशमनार्थिनः मधुरं शीतं च भोक्तव्यम् इति वैद्येन उपदिष्टे तयोः अन्यतरत् पित्तप्रशनकारणं ब्रूहि इति प्रश्नः न हि सम्भवति । अथ भगवदुक्तवचनार्थविवेक- अनवधारणनिमित्तः अर्जुनस्य प्रश्नः कल्पयेत् । तथापि मया बुद्धिकर्माणोः समुच्चयः उक्तः किमर्थम् इत्यं त्वं भ्रान्तः असि इति भगवता प्रश्नानुरुपं प्रतिवचनं देयम् । पुनः तु पृष्टात् अन्यदेव द्वे निष्ठे मया पुरा प्रोक्ते इति अननुरुपं प्रतिवचनम् वक्तुं न युक्तम् । स्मार्तेन एव कर्मणा बुद्धेः समुच्चये अभिप्रेते अपि विभाबवचनादि सर्वं न उपपन्नम् । किञ्च क्षत्रियस्य युद्धं स्मार्तं कर्म स्वधर्मः इति जानतः "तत् किं कर्मणि घोरे मां नियोजयसि’ इति उपालम्भः अनुपपन्नः। तस्माद् गीतशास्त्रे श्रौतेन स्मार्तेन वा कर्मणा आत्मज्ञानस्य ईषनमात्रेणापि समुच्च्यः केनचित् दरेशयितुं न शक्यः । यस्य तु अज्ञानात् रागादिदोषतः वा कर्मणि प्रवृत्तस्य यज्ञेन दानेन तपसा वा विशुद्धसत्त्वस्य परमार्थतत्त्वविषयम्, एकं एव इदं सर्वम्, अकर्तृ ब्रह्म इति ज्ञानम् उत्पन्नं –तस्य कर्मणि कर्म्प्रयोजने च निवृत्ते अपि लोकसङ्ग्रहार्थं यत्रपूर्वकं यथा प्रवृत्तः तथा एव कर्मणी प्रवृत्तस्य यत प्रवृत्तिरुपं दृश्यते तत न कर्म येन बुद्धेः समुच्चयः स्यात् । यथा भगवतः वासुदेवस्य क्षात्रकर्मचेष्टितं पुरुषार्थसिद्धये ज्ञानेन न समुच्चियते तद्वत् विदुषः, फलाभिसन्ध्यहङ्काराभावस्य तुल्यत्वात् । तत्त्ववित् तु अहं न करोमि इति मन्यते , नच तत् फलम् अभिस्न्धत्ते । यथा स्वर्गादिकामार्थिनः अगिहोत्रादिकामसाधनानुष्ठानाय आहिताग्नेः काम्ये अग्निहोत्रादौ एव प्र्वृत्तस्य सामिकृते विनष्टे कामे अपि तदेव अग्निहोत्रादि अनुतिष्ठतः अपि तत् काम्यम् अग्निहोत्रादि च भवति । तथा च 'कुर्वन्नपि’ न करोति न लिप्यते’ इति तत्र तत्र भगवान् दर्शयति । यच्च 'पूर्वैः पूवतरं कृतम्’ कर्मणैव हि स्सिद्धिम आस्थिता जनकादयः ’ इति तत् तु प्रबिभच्य विज्ञेयम् । तत् कथम् ? यदि तावत् पूर्वे जनकादयः तत्त्वविदः अपि प्रवृत्तकर्माणः स्युः ते लोकसङ्ग्रहार्थं 'गुणा गुणेषु वर्तन्ते’ इति ज्ञानेन एव संसिद्धिम् आस्थिताः । कर्मसंन्यासे प्राप्ते अपि कर्मण सह एव संसिद्धिंम् आस्थिताः कर्मसंन्यासं न कृतवन्तः इति एषः अर्थः । अथ ते न तत्त्वविदः । ईश्वरसमर्पितेन साधनभूतेन कर्मणा संसिद्धिं सत्त्वशुद्धिं , ज्ञानोत्पत्तिलक्षणां संसिद्धिं वा जनकादयः आस्थिताः इति व्याख्येयम् । भगवान् एतमेव अर्थं – सत्त्वशुद्धये कर्म कुर्वन्ति’ इति वक्षयति । "स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः “ इत्युक्त्वा सिद्धिं प्राप्तस्य “ सिद्धिं प्राप्तो यथा ब्रह्म" इत्यादिना पुनः ज्ञाननिष्ठां वक्ष्यति । तस्मात् गीतासु केवलात् तत्त्वज्ञानात् एव मोक्षप्राप्तिः न कर्म समुच्चितात् इति निश्चितः अर्थः । यथा च अयमर्थः तथा प्रकारणशः विभज्य तत्र तत्र दर्शयिष्यामः

श्लोकानाम् आवलिः

सम्पादयतु

१) तं तथा कृपयाविष्टम्...

२) कुतस्त्वा कश्मलमिदं...

३) क्लैब्यं मा स्म गमः पार्थ...

४) कथं भीष्ममहं सङ्ख्ये...

५) गुरूनहत्वा हि महानुभावान्...

६) न चैतद्विद्मः कतरन्नो गरीयो...

७) कार्पण्यदोषोपहतस्वभावः...

८) नहि प्रपश्यामि ममापनुद्याद्...

९) एवमुक्त्वा हृषीकेशं...

१०) तमुवाच हृषीकेशः...

११) अशोच्यानन्वशोचस्त्वं...

१२) न त्वेवाहं जातु नासं...

१३) देहिनोऽस्मिन्यथा देहे...

१४) मात्रास्पर्शास्तु कौन्तेय...

१५) यं हि न व्यथयन्त्येते...

१६) नासतो विद्यते भावो...

१७) अविनाशि तु तद्विद्धि...

१८) अन्तवन्त इमे देहा...

१९) य एनं वेत्ति हन्तारं...

२०) न जायते म्रियते वा कदाचिन्...

२१) वेदाविनाशिनं नित्यं...

२२) वासांसि जीर्णानि यथा विहाय...

२३) नैनं छिन्दन्ति शस्त्राणि...

२४) अच्छेद्योऽयमदाह्योऽयम्...

२५) अव्यक्तोऽयमचिन्त्योऽयम्...

२६) अथ चैनं नित्यजातं...

२७) जातस्य हि ध्रुवो मृत्युः...

२८) अव्यक्तादीनि भूतानि...

२९) आश्चर्यवत्पश्यति कश्चिदेनम्...

३०) देही नित्यमवध्योऽयं...

३१) स्वधर्ममपि चावेक्ष्य...

३२) यदृच्छया चोपपन्नं...

३३) अथ चेत्त्वमिमं धर्म्यं...

३४) अकीर्तिं चापि भूतानि...

३५) भयाद्रणादुपरतं...

३६) अवाच्यवादांश्च बहून्...

३७) हतो वा प्राप्स्यसि स्वर्गं...

३८) सुखदुःखे समे कृत्वा...

३९) एषा तेऽभिहिता साङ्ख्ये...

४०) नेहाभिक्रमनाशोऽस्ति...

४१) व्यवसायात्मिका बुद्धिः...

४२) यामिमां पुष्पितां वाचं…

४३) कामात्मानः स्वर्गपरा…

४४) भोगैश्वर्यप्रसक्तानां...

४५) त्रैगुण्यविषया वेदा...

४६) यावानर्थ उदपाने...

४७) कर्मण्येवाधिकारस्ते...

४८) योगस्थः कुरु कर्माणि...

४९) दूरेण ह्यवरं कर्म...

५०) बुद्धियुक्तो जहातीह...

५१) कर्मजं बुद्धियुक्ता हि...

५२) यदा ते मोहकलिलं...

५३) श्रुतिविप्रतिपन्ना ते...

५४) स्थितप्रज्ञस्य का भाषा...

५५) प्रजहाति यदा कामान्...

५६) दुःखेष्वनुद्विग्नमनाः...

५७) यः सर्वत्रानभिस्नेहः...

५८) यदा संहरते चायं...

५९) विषया विनिवर्तन्ते...

६०) यततो ह्यपि कौन्तेय...

६१) तानि सर्वाणि संयम्य...

६२) ध्यायतो विषयान्पुंसः...

६३) क्रोधाद्भवति सम्मोहः...

६४) रागद्वेषवियुक्तैस्तु...

६५) प्रसादे सर्वदुःखानां...

६६) नास्ति बुद्धिरयुक्तस्य...

६७) इन्द्रियाणां हि चरतां...

६८) तस्माद्यस्य महाबाहो...

६९) या निशा सर्वभूतानां...

७०) आपूर्यमाणमचल...

७१) विहाय कामान्यः सर्वान्...

७२) एषा ब्राह्मी स्थितिः पार्थ...

साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धसम्पर्कतन्तुः

सम्पादयतु
  1. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
"https://sa.wikipedia.org/w/index.php?title=सांख्ययोगः&oldid=459794" इत्यस्माद् प्रतिप्राप्तम्