श्रीः अरविन्दः

(श्री अरविन्दः इत्यस्मात् पुनर्निर्दिष्टम्)

श्री अरविन्द (अरविन्दो घोष) (१८७२-१९५०) आधुनिक भारतस्य महान् योगीः एवं दार्शनिकः आसीत्। श्री अरविन्दमहाशयः द्विसप्तत्युत्तराष्टादशशततमे (१८७२) वर्षे अगस्तमासस्य पञ्चदश(१५)दिनाङ्के जननं प्राप्तवान् । सः कोलकातानगरे बारिस्टर् मनमोहनघोषगृहे जन्म लेभे । तस्य पिता कृष्णधनघोषमहारायः कश्चित् प्रभुत्ववैद्याधिकारी । तस्य माता स्वर्णलतादेवी । सा प्रख्यातभारतीयसंस्कृतिपरिरक्षणयोधस्य ऋषिराजनारायणबोस्-महोदयस्य ज्येष्ठापुत्रिका । श्री अरविन्दः कृष्णधनघोषमहोदयस्य तृतीयसन्ततिः । विनयभूषणमनमोहनौ श्री अरविन्दस्य अग्रजौ । रतदेशस्वातन्त्र्यदिनोत्सवः अपि अगस्त-पञ्चदशदिनाङ्के एव खलु । श्री अरविन्दस्य श्वशुरः राजनारयणबोस् महोदयः विशिष्टदेशभक्तः ।

श्री अरविन्दः
श्री अरविन्दः (श्री अरविन्दघोषः) in 1916.
जन्मतिथिः (१८७२-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ८-१५)१५ १८७२
जन्मस्थानम् कोलकाता, भारतम्
पूर्वाश्रमनाम श्री अरविन्दः
मृत्युतिथिः ५ १९५०(१९५०-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-०५) (आयुः ७८)
मृत्युस्थानम् पाण्डीचेरी , भारतम्
उक्तिः The Spirit shall look out through Matter's gaze.
And Matter shall reveal the Spirit's face.[१]
हस्ताक्षरम्
हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

बाल्यं शिक्षा च सम्पादयतु

एकषष्ठयुत्तराष्टादशशततमे (१८६१)वर्षे बोस् महोदयः बेङ्गाल्-देशीयानां दृष्टिम् आङ्ग्लेयसंस्कृतिप्रभावतः परिवर्तयितुं, स्वकीयां संस्कृतिम्, आचारान् अनुसर्तुमपि महान्तं प्रयत्नं कृतवान् । श्री अरविन्दः क्रमेण आङ्गल्, हिन्दूस्थानी, लाटिन्, फ्रेञ्च्, ग्रीक्, गुजराती, मराठी, बेङ्गाली, संस्कृतभाषासु पण्डितः अभवत् । सप्तवर्षप्रायः श्री अरविन्दः " फाक्सफमिली" पत्रिकायाः कृते आङ्गलभाषायां पद्यानि विरचय्य प्रेषितवान् । सेइन्ट पाल्स, केंब्रिड्ज् आदि विद्यालयेषु तस्य नाम अरविन्द आक्राइडघोष नाम्ना लिखितम् । नवत्युत्तराष्टदशशततमे (१८९०) वर्षे ऐ सि यस् परीक्षायाम् उत्तीर्णः अभवत् । स्वपित्रा लिखितान् लेखान् पत्रिकाप्रकटनानि च दृष्ट्वा, पठित्वा तस्य स्वातन्त्र्यसङ्ग्राम - सङ्कल्पः कार्यरुपम् अलभत । ङ्ग्लण्ड्देशे निवसन् श्री अरविन्दः लण्डन् नगरे भारतीयैः आयोजिते प्रत्येकसमावेशे उपस्थितवान् । श्री अरविन्दः एकविंशति (२१) वर्षप्राये स्वदेशमागतवान् । एकोनविंशतिशततमे (१९००) वर्षे बरोडा कलाशालायाम् आङ्ग्लप्राचार्यरूपेण प्रविष्टवान् ।

कुटुम्बजीवनम् सम्पादयतु

श्री अरविन्दः एकाधिकैकोनविंशतितमे (१९०१) वर्षे भूपालचन्द्रबोस्-महोदयस्य पुत्रीं मृणाळिनीं परिणीतवान् । चतुरधिकैकोनविंशतिशततमे (१९०४) वत्सरे सः बरोडा कलाशालायाः उपध्यक्षः अभवत् । श्री के यम् मुन्षी श्री अरविन्द् महोदयस्य शिष्यः । भारतजातीयोद्यम् इत्येतस्याः संस्थायाः लक्ष्यं उध्दोषणञ्च स्वराज् इति आसीत् । श्री अरविन्दः एतत् पदम् आध्यात्मिक-राजकीयप्रामुख्येन चापि उपयुक्तवान् । सः भारतीयसंस्कृतिविषये "दि रिनेसान्स् इन् इण्डिया" इति ग्रन्थं लिखितवान् । साहित्यसम्बद्धं "कालिदासः"," व्यासः वाल्मीकिश्च्" इति ग्र्न्थद्वयं रचितवान् । जातीयताविष्ये " बङ्किम -तिलक- दयानन्द " इत्येकं ग्रन्थम् अरचयत् । राजकीयक्षेत्रे, साहित्ये, आध्यत्मिकक्षेत्रेष्वपि सः बहुधा भारतमातुः अर्चनं कृतवान् ।

को हि भारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सविद्यानां कः परः प्रियवादिनाम् ।।

सावित्री महाकाव्यम् सम्पादयतु

सावित्री: आख्यायिका तथा प्रतीकः श्री अरविन्दस्य काव्यात्मकः मुख्यग्रन्थः अस्ति । सः सावित्री-सत्यवान्-कथायाः प्रतीकात्मकं अर्थं दत्तवान् । तयोः मूल-आख्यायिका महाभारते कथ्यते यत्र अस्याः ३०० श्लोकानां दीर्घता अस्ति । एतत् संक्षिप्तं प्रकरणं गृहीत्वा श्री अरविन्दः १२ पुस्तकैः ४९ कान्टोभिः सह प्रायः २४००० पङ्क्तयः महाकाव्यरूपेण रचयति । एवं महत्याः दाम्पत्य-निष्ठायाः मूलकथा दीव्यप्रसादस्य सावित्रीरूपेण पृथिव्याम् अवतरितस्य मुक्तिकथा भवति यत्र मानवाः अजानात्, अचेतनात्, मृत्योः च विमुच्यन्ते। अत्र श्री अरविन्दः स्वस्य आध्यात्मिक-ओडिसीं निवेदयति विकासस्य अतिमानसिक-पदं प्राप्तुम् च स्वस्य प्रयत्नान् वर्णयति ।

अस्मिन् क्रमे सः इतिहास-भूगोल-विज्ञान-काव्य-दर्शन-क्षेत्रेभ्यः बहूनां विषयान् निर्दिशति अथवा ब्रह्माण्डस्य मनुष्याणां च उत्पत्तिविषये उपचारं करोति । अपि च सर्वविधयोगाभ्यासानां विशेषतया पूर्णयोगमार्गस्य च चिकित्सां करोति । प्रथमभागः (पुस्तकानि I-III) मुख्यतया राज्ञस्य अश्वपतेः (सावित्रीपितुः) योगस्य विषये केन्द्रितः अस्ति । द्वितीयतृतीयभागयोः विषयः विशेषतया सावित्री-सत्यवतयोः समागमः, तेषां गहन-आध्यात्मिक-प्रेम, यमदेवेन सह सावित्र्याः युद्धं च, यदा सः सत्यवतः आत्मानं ग्रहीतुं आगत्य तस्याः अदम्यप्रतिरोधं मिलति ।[२]

ग्रन्थाः सम्पादयतु

सम्पूर्णं संस्करणम् सम्पादयतु

Complete Works of Sri Aurobindo (CWSA). Pondicherry: Sri Aurobindo Ashram 1995

1. Early Cultural Writings. 2. Collected Poems. 3.-4. Collected Plays and Stories. 5. Translations. 6.-7. Bande Mataram. 8. Karmayogin. 9. Writings in Bengali and Sanskrit. 10.-11. Record of Yoga. 12. Essays Divine and Human. 13. Essays in Philosophy and Yoga. 14. Vedic and Philological Studies. 15. The Secret of the Veda. 16. Hymns to the Mystic Fire. 17. Isha Upanishad. 18. Kena and Other Upanishads. 19. Essays on the Gita. 20. The Renaissance of India with a Defence of Indian Culture. 21.-22. The Life Divine. 23.-24. The Synthesis of Yoga. 25. The Human Cycle – The Ideal of Human Unity – War and Self-Determination. 26. The Future Poetry. 27. Letters on Poetry and Art  28.-31. Letters on Yoga. 32. The Mother with Letters on the Mother. 33-34. Savitri – A Legend and a Symbol. 35. Letters on Himself and the Ashram. 36. Autobiographical Notes and Other Writings of Historical Interest. 37. Reference Volume (unpublished)

संस्कृत-ग्रन्थाः सम्पादयतु

  • श्रीअरविन्दोपनिषद्, ISBN: 978-81-7058-488-9
  • श्रीमाता, ISBN: 978-81-7058-338-7
  • दुर्गास्तोत्रम्, ISBN: 978-81-7058-564-0
  • भवानी भारती, ISBN: 978-93-5210-123-8
  • भर्तृहरिनीतिशतकम् (freely rendered into English verse) ISBN: 978-81-7060-120-3               

टिप्पणी सम्पादयतु

  1. Savitri: A Legend and a Symbol, Book XI: The Book of Everlasting Day, Canto I: The Eternal Day: The Soul's Choice and The Supreme Consummation, p 709
  2. M.P. Pandit (2000), Introducing Savitri, Dipti Publications, Pondicherry; Mangesh V. Nadkarni (2012), Savitri. The Golden Bridge, the Wonderful Fire. An Introduction to Sri Aurobindo’s epic. Savitri Bhavan, Auroville.
"https://sa.wikipedia.org/w/index.php?title=श्रीः_अरविन्दः&oldid=473925" इत्यस्माद् प्रतिप्राप्तम्