हिन्दुदेवताः

(हिन्दूदेवताः इत्यस्मात् पुनर्निर्दिष्टम्)
हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

हिन्दुधर्मे देवतापरिकल्पना

सम्पादयतु

हिन्दुधर्मः अपौरुषेयः अस्ति । अयं धर्मः जगति अन्यः धर्मः इव एकस्य ग्रन्थस्य आधारेण न वर्तते । अत्रत्यः समग्रः तत्त्वविचारः भगवद्गीताम् उपनिषदः च अनुसृत्य वर्तते इत्यतः तेषु विद्यमाना देवतापरिकल्पना अत्र अङ्गीक्रियते एव । यस्मिन् लोके वयं जीवामः ततः एव मनुष्याणां देवताकल्पना उद्भूता इत्येतत् अस्ति सहजम् । अनया दृष्ट्या हिन्दुधर्मे देवः अस्ति सृष्टिकर्ता । देवः जगतः सृष्टिं शून्यात् न करोति अपि तु आत्मनः करोति । सृष्टेः अनन्तरं सः स्वशक्त्या तस्य रक्षणं करोति । प्रत्येकस्य जनस्य अपेक्षानुगुणं न्यायान्यायविवेचनेन सः इदं जगत् निर्वहति । सः एव जगत्पालकः । एकस्य चक्रस्य अनन्तरं समस्तं जगत् विलयं याति । सः अस्ति लयकर्ता

 परब्रह्मस्वरूपः मूलशक्तिः,आदिशक्तिः,जगज्जननी इत्यादिनामरूपैः निर्वाच्यते। तया सृष्ट्यादौ त्रिमूर्तयः सृष्टाः। चतुर्मुखब्रह्मा सृष्टिकार्ये,विष्णुः पालनकर्मणि,महेश्वरः लयकार्ये च नियुक्तवान् तया एव।

गुणवैशिष्ट्यानि

सम्पादयतु
 
सपत्नीकाः ब्रह्म-विष्णु-महेश्वराः

देवः सर्वज्ञः सर्वशक्तः सर्वव्यापी च । सः सौन्दर्यस्य प्रेम्णः च मूर्तरूपः । मानवेन कल्प्यमानानां सर्वेषाम् अपि गुणानां खनिः अस्ति सः । समस्तसृष्टेः कृते करुणा-अनुग्रह-आशीर्वादादीनां वर्षणाय सः सर्वदा सन्नद्धः भवति । ततः सः सर्वान् परिपूर्णतां प्रति नेष्यति । भक्तानां प्रार्थनाभिः शरणागत्या च सः भवति सन्तुष्टः । तस्य अनुग्रहः जगद्धिताय विद्यमानान् वैश्विकनियमान् अनुसरति । अपि च व्यक्तिहिताय विद्यमानान् कर्मनियमान् च अनुसरति ।
हिन्दुत्वे देवविषये वैशिष्ट्यद्वयं दृश्यते । देवः भक्तानाम् इच्छानुसारम् आवश्यकतानुसारं च रूपं प्राप्य अनुगृह्णाति । सः मानवानां मध्ये एव तेषाम् उद्धाराय अवतारं प्राप्नोति । अयं प्रक्रिया नैरन्तर्येण प्रचलति । अतः कृष्णः भगवद्गीतायां वदति -

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ इति ।

ब्रह्म इत्येषा परिकल्पना अत्र विद्यते । अनादि-अनन्त-अखण्डं ब्रह्म । इदं सृष्ट्यतीतं वर्तते । सृष्टौ सर्वत्र च विद्यते । अस्य अवगमनम् एकेन पदेन उच्यते - 'नेति । नेति' (न इति) इति । सत्-चित्-आनन्द-स्वरूपः इति निर्दिश्यते । समग्रस्य अस्तित्वस्य प्रज्ञायाः आनन्दस्य च मूलं विद्यते अयम् ।

बहुदेवतासिद्धान्तः उपासना च

सम्पादयतु

हिन्दुत्वे दृश्यमानम् अनेकदेवोपासनम् अथवा बहुदेवतासिद्धान्तः निगूढः एव तिष्ठति समीचीनदृष्ट्या यदि न अवगम्येत । अस्य सिद्धान्तस्य मुखत्रयं विद्यते ।

 
इन्द्रः

त्रिमूर्तयः

सम्पादयतु

ब्रह्मा-विष्णु-महेश्वराः एव त्रिमूर्तयः। एते परमप्रभोः ईश्वरस्य विभिन्नमुखाः इव कार्यं कुर्वन्ति ।ब्रह्मा-रजोगुणप्रधानः,हंसवाहनः,हरिनाभीकमलासनः,सरस्वतीपतिः,सत्यलोकवासी।

विष्णुः-सत्त्वगुणोपेतः,गरुडवाहनः,शेषशायी,लक्ष्मीरमणः,वैकुण्ठ/क्षीरसागरनिवासी। महेश्वरः-तमोगुणप्रधानः,वृषभवाहनः,पार्वतीपतिः,रजताद्रि/कैलास/श्मशानवासी,पिनाक(त्रिशूल)-डमरुहस्तः,गजचर्माम्बरधरः/दिगम्बरः,गङ्गाधरः,चन्द्रमौळिः,नागाभरणः,फालनेत्रः,त्र्यक्षः,सोमसूर्याग्निलोचनः,भस्मभूषितः,नटराजःअन्तकान्तकः,रुद्रः।

गणेश-कुमारादयः

सम्पादयतु

एते त्रिमूर्तिनाम् अनन्तरस्तरीयाः देवताः । एते परब्रह्मणः परिमिताभिव्यक्तेः स्वरूपाः ।

लोकपालकादयः

सम्पादयतु

इन्द्रः, वरुणः, अग्निः इत्यादयः तृतीये गणे अन्तर्भवन्ति । एते दिक्पालकाः इत्यपि कथ्यन्ते । एते स्वस्य विशेषसामर्थ्येन एतानि महत्त्वभूतानि दायित्वानि निर्वोढुं नियोजिताः भवन्ति ।
एतान् विहाय असङ्ख्याः ग्रामदेवताः भवन्ति । एते परिमितक्षेत्रव्याप्तिमन्तः भवन्ति ।

  आदिशङ्करभगवत्पादेन पञ्चायतनदेवपूजापद्धति: समारब्धा। अस्यां सूर्य-गणपति-अम्बिका-शिव-विष्णु-एतेषामुपासनापद्धतिरस्ति साकल्येन।

देवताः(वाहनानि)

सम्पादयतु

त्रिमूर्तय:

वैदिकदेवाः

विष्‍णो: दशावतारा:

अन्‍ये

दृश्यताम्

सम्पादयतु
  1. वैदिकदेवताः

बाह्यसम्पर्कतन्तुः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=हिन्दुदेवताः&oldid=481146" इत्यस्माद् प्रतिप्राप्तम्