प्रमुखा विकल्पसूचिः उद्घाट्यताम्

आरण्यम् उपनिषद्वद् ब्राह्मणानां परिशिष्ट-ग्रन्थ इव अस्ति। आरण्यकेषु ब्राह्मणग्रन्थानामिव सामान्यप्रतिपाद्यविषयेभ्यः भिन्नविषयाणां प्रतिपादनं सर्वत्र विद्यमानं प्राप्यते । पद्मपुराणस्य विज्ञानारण्यकशब्दोऽपि आरण्यकस्वरूपस्य परिचायकोऽस्ति । अारण्यकं विज्ञानस्य, विशिष्टज्ञानस्य, अध्यात्मज्ञानस्य वा बोधको ग्रन्थोऽस्ति, इत्यप्यनेन शब्देन सङ्केतो भवति।

हिन्दुधर्मःOm symbol.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

सायणाचार्यस्य मते ग्रन्थस्यस्य आरण्ये पाठ्यत्वेन 'आरण्यकम्' इति नामकरणं सार्थमेवेति । यथा-

'अरण्याध्ययनादेतद् आरण्यकमितीर्यते।

अरण्ये तदधीयीतेत्येवं वाक्यं प्रवक्ष्यते ॥'[१]

आरण्यकस्य मुख्यप्रतिपाद्यविषयः न केवलं यज्ञ एवास्ति, प्रत्युत यज्ञ-यागाद्यभ्यन्तरे विद्यमानस्य आध्यात्मिकतथ्यस्य मीमांसा अप्यस्ति । यज्ञीयानुष्ठानेन सह तदनन्तर्गतदार्शनिकविचारः अप्यस्य मुख्यविषयोऽस्ति । संहिता-मन्त्रेषु यस्याः विद्यायाः सङ्केतमात्रम् एवोपलब्धं भवति, तस्याः विश्लेषणम् अत्रास्ति । अथर्ववेदस्य न किमप्यारण्यकमुपलब्धमस्ति । अनेन वेदेन सम्बद्धाः या उपनिषदः सन्ति, ताः कस्याप्यारण्यकस्यांशो न भूत्वा प्रारम्भादेव स्वतन्त्रग्रन्थरूपेण विद्यमानाः सन्ति ।

अन्तर्विषयाः

रहस्यग्रन्थत्वेन आकरण्यकम्सम्पाद्यताम्

महाभारतस्य कथनमस्ति यद् औषधिभ्यो यथाऽमृतमुद्धृतं, तथैव वेदेभ्यः सारं समुद्धृत्य आरण्यकं प्रणीतम् । यथा -

‘आरण्यकञ्च वेदेभ्य औषधिभ्योऽमृतं यथा॥'[२]

मन्त्रब्राह्मणात्मकवेदस्य यस्मिन्नंशे प्राणविद्यायाः, प्रतीकोपासनायाश्च विषयस्य वर्णनमस्ति स एवांशः आरण्यकं कथ्यते । तस्य विशिष्टताप्रदर्शनाय ‘रहस्यब्राह्मणम्' इति नाम्ना ख्यातोऽस्ति ।

निरुक्तस्य टीकायां[३] दुर्गाचार्येण ‘ऐतरेयके रहस्यब्राह्मणम्' इति कथयित्वा ऐतरेयारण्यकस्योद्धरणं दत्तम्।[४] अनेन रहस्यब्राह्मणारण्यकयोः एकता प्रतीयते। आरण्यकस्य नामान्तरं रहस्यमप्यस्ति।[५] अस्य कारणमिदं प्रतीतं भवति यद्, आरण्यकं यज्ञीयगूढरहस्यस्य प्रतिपादनं करोति तथा कर्मकाण्डस्य दार्शनिकव्याख्यामपि प्रस्तौति। मुख्यतः ब्रह्मविद्यारहस्यशब्देन अपि अभिहिता अस्ति। विषयविवेचनस्य दृष्ट्या आरण्यकोपनिषदोः साम्यमस्ति। अतः बृहदारण्यकादिग्रन्थाः उपनिषच्छब्देनापि व्यवदिश्यन्ते। किञ्च वर्णनविषयसाम्यत्वेन अपि तयोर्मध्ये किञ्चित् पार्थक्यमपि परिलक्ष्यते। आरण्यकस्य मुख्यविषयः प्राणविद्या तथा प्रतीकोपासनाऽस्ति । उपनिषदां वर्ण्यविषयः निर्गुणब्रह्मणः प्राप्त्युपाय एवाऽस्ति । सत्यपि भेदावगमे यत्किञ्चित् पार्थक्यमस्ति, तेनैव हि द्वावपि ग्रन्थौ रहस्यग्रन्थौ स्तः ।

विषयवस्तुसम्पाद्यताम्

तैत्तिरीयब्राह्मणस्य आरम्भिकांशे कालस्य पारमार्थिक-व्यावहारिकरूपयोः निदर्शनं कृतमस्ति। कालस्तु निरन्तरं प्रवहत्येव। अखण्डसंवत्सरस्वरूपे अस्य एव कालस्य परिदर्शनमस्माकं भवति । व्यावहारिकः कालस्तुअनेकस्तथाऽनित्योऽस्ति । व्यवहाराय तस्य नाना-खण्ड-मुहूर्त्त-दिवारात्रि-पक्षमासादि कृते सत्यपि वस्तुतः कालस्तु एकरूपः एकाकार एव तिष्ठति । अस्मिन् प्रसङ्गे तस्य तुलना तया महानद्या सह कृताऽस्ति, या अक्षय्यस्रोतसा सदा प्रवाहिता भवति, नानानद्यः मिलित्वा ताः सञ्चारयन्ति । यथा-

'नदीव प्रभवात् काचिद् अक्षय्यात् स्यन्दते यथा।

तां नद्योभिसमायान्ति सोरुः सती न निवर्त्तते ॥'[६]

अस्यारण्यकस्य तृतीय-चतुर्थानुवाके ऋतूणां स्वरूपस्य प्रदर्शितम् अस्ति। ग्रन्थेऽस्मिन्ननेकेषां ज्ञातव्यतथ्यानां सङ्कलनमस्ति । यथा वर्षर्त्तौ रोगाणामुत्पत्तिस्तथा पाण्डुरोगस्य प्रसारः (अदुःखो दुःखचक्षुरिव तथा पीत इव दृश्यते)। पञ्चमहायज्ञानां विवेचनं, तथा स्वाध्यायाध्ययनस्य मीमांसा इत्यादि।[७] अन्यत्र च पुण्योपार्जनस्य पापवर्जनस्य च आलङ्कारिकभाषायां निदर्शनमस्ति।[८]

प्राणविषये उपस्थापनम्सम्पाद्यताम्

प्राणविद्यायाः महत्त्वप्रदर्शनम् आरण्यकस्य विशिष्टो विषयः प्रतीतो भवति । ऐतरेयारण्यके अस्य समधिकं महत्त्वपूर्णवर्णनमस्ति।[९] आरण्यकं स्वकथनस्य सम्पुष्टौ ऋग्वेदीयमन्त्राणामुद्धरणं ददाति।[१०] अनेन प्राणविद्यायाः दीर्घकालिकपरम्परायाः परिचयो लभते। सर्वेष्विन्द्रियेषु प्राणानां श्रेष्ठता आख्यायिकाद्वारेण प्रतिपादिताऽस्ति। यथा-

‘सोयमाकाशः प्राणेन बृहत्या विष्टब्धः, तद्यथामाकाशः प्राणेन बृहत्या विष्टब्धः, एवं सर्वाणि भूतानि आपिपीलिकाभ्यः प्राणेन बृहत्या विष्टब्धानीत्येवं विद्यात्॥'[११]

सम्बद्धाः लेखाःसम्पाद्यताम्

सन्दर्भःसम्पाद्यताम्

  1. तै० आ० भा०, श्लो० ६
  2. महाभा० १॥२६५ 
  3. १॥४
  4. २॥२॥१
  5. गोपथ० ब्रा० २॥१०
  6. तैत्ति० आ० १॥|२
  7. २॥१०
  8. १०॥११
  9. २॥१-३
  10. ऋ० ६॥१६४॥३१; ११६४॥१८
  11. ऐत० आर० २॥१।६
"https://sa.wikipedia.org/w/index.php?title=आरण्यकम्&oldid=425140" इत्यस्माद् पुनः प्राप्तिः